॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
तुलसीवर्जिता पूजा कर्तव्या कथितं त्वया ।
किमर्थं पावनी सा तु दोषयुक्ता बभूव ह ॥ १ ॥
तुलस्या किं कृतं विप्र गणेशानस्य विप्रियम् ।
येन रुष्टोऽमरेशानस्तां तत्याज यशस्विनीम् ॥ २ ॥
मुद्गल उवाच ।
धर्मध्वजो महीपालो बभूवे धर्मसंयुतः ।
दाता मान्यो विशेषेण सुज्ञैः सर्वगुणान्वितः ॥ ३ ॥
तस्य पुत्री बभूवाऽसौ रूपलावण्यसंयुता ।
न तया सदृशी कुत्र वर्तते कामिनी विधे ॥ ४ ॥
वृन्दा नाम्नी च विख्याता प्रणम्य पितरं कदा ।
जगाद भावगम्भीरा चतुरा सुवयोयुता ॥ ५ ॥
वृन्दोवाच ।
तात विष्णुं परित्यज्य वृणोम्यन्यं न निश्चितम् ।
वरं तदर्थमेवं मां देहि तस्मै महामते ॥ ६ ॥
धर्मध्वज उवाच ।
विष्णुर्देववरः साक्षाद् भगवान् विश्वभावनः ।
स कथं च त्वया लभ्यो वरो लक्ष्मीपतिः सुते ॥ ७ ॥
मानुषेषु वरं पुत्रि वरयस्व हृदि स्थितम् ।
नरा वयं स वै साक्षाद् भगवान् भगधारकः ॥ ८ ॥
एवं नानाविधैर्भावैर्बोधिता न बुबोध सा ।
तदर्थं मन्त्रराजं सङ्गृह्य विष्णोर्वनं ययौ ॥ ९ ॥
ध्यात्वा चतुर्भुजं विष्णुं निराहारपरायणा ।
तताप तप उग्रं सा पतिं विष्णुमभीप्सितम् ॥ १० ॥
तीर्थेषु माधवं दृष्ट्वा तेषु क्षेत्रेषु मानद ।
तपस्तताप वृन्दोग्रं नानामार्गपरायणा ॥ ११ ॥
शुष्कपत्राणि वायुं सा जलं मूलं फलं तथा ।
भुक्त्वा सन्तोषयामास विष्णुं देववरं विधे ॥ १२ ॥
वर्षाणि लक्षसङ्ख्यानि गतानि तपसो बलात् ।
राजपुत्र्याश्च वृन्दाया न तुतोष जनार्दनः ॥ १३ ॥
अतीव तपसा तस्या अन्तर्ज्ञानं बभूव ह ।
आत्माकारं जगत् सर्वमपश्यद् बोधसंयुता ॥ १४ ॥
कदा विघ्नेश्वरं वृन्दा ददर्श नियमे रतम् ।
सम्पूज्य गणनाथं वै हृदि ध्यानपरायणम् ॥ १५ ॥
तं दृष्ट्वा कुञ्जरास्यं सा शिवपुत्रं नृपात्मजा ।
भागीरथीसन्निधिस्थं विस्मिताऽभूत् प्रजापते ॥ १६ ॥
गणेशार्थं समालोक्य मोहिताऽभूत् स्वचेतसि ।
अहो गणेश्वरः साक्षाद् ब्रह्मणां नायकः स्मृतः ॥ १७ ॥
अस्य कलांशसम्भूताः शिवविष्ण्वादयोऽपरे ।
पूर्णभावात्मकः साक्षाद् गणेशो नात्र संशयः ॥ १८ ॥
शिवेन तपसोग्रेणाराधितो गणनायकः ।
पुत्रोऽभूद्योगशान्तिस्थो भक्तभक्तिपदप्रदः ॥ १९ ॥
खेलत्यात्मानमाभज्य चतुर्धाऽनन्यभावतः ।
अयं विष्णुस्तथा शम्भुः शक्तिः सूर्यो न संशयः ॥ २० ॥
पूर्णभावमविज्ञायाऽहं विष्णुपरमाऽभवम् ।
अधुना तं समालोक्य बोधयुक्ता न संशयः ॥ २१ ॥
तपःप्रभावसामर्थ्याद् वृणोमि गणनायकम् ।
व्यभिचारो न मे भावी विष्णुरूपोऽयमञ्जसा ॥ २२ ॥
एवं विचार्य विघ्नेशमाययौ ध्यानसंस्थितम् ।
ध्यानभङ्गार्थमुद्युक्ता वृन्दा तं प्रत्युवाच ह ॥ २३ ॥
वृन्दोवाच ।
त्वं साक्षाद् गणराजश्च तपसाऽऽराधितो भवान् ।
शिवपुत्रत्वमापन्नः किं ध्यायसि वदस्व माम् ॥ २४ ॥
शिवविष्ण्वादयो देवास्त्वां भजन्ति निरन्तरम् ।
[[७६]]
कुलदैवतरूपस्थं सर्वसिद्धिप्रदायकम् ॥ २५ ॥
गणेश्वरं समास्थाप्य कथं पूजयसेऽप्यहो ।
गणेश्वरो विशेषेण स्वयं ध्यायसि तं प्रभो ॥ २६ ॥
अहो चित्रं मया दृष्टं गणेशो गणनायकम् ।
भजतेऽनन्यभावस्थः शिवपुत्रत्वकारणात् ॥ २७ ॥
न त्वं शिवसुतः स्वामिन् न ते विघ्नेश्वरः कदा ।
कुलदेवस्तथाऽपि ध्यायसि किं गणपं प्रभो ॥ २८ ॥
तव स्मरणमात्रेण ब्रह्मभूता भवन्ति ते ।
नरा देवेन्द्रमुख्याश्च योगिनो वेदकादयः ॥ २९ ॥
स्वयं शान्तिप्रदाता त्वं किं ध्यायसि गणेश्वरम् ।
गणेश्वराशु वद मां वाक्यं सगुणनिर्गुण ॥ ३० ॥
कामबाणार्दिता सा तं वृन्दा नानाप्रकारतः ।
बोधयामास विघ्नेशो ध्यानस्थो न बुबोध ताम् ॥ ३१ ॥
ततः सा जलबिन्दुं वै चिक्षेप गणपोपरि ।
तथापि ध्यानसंस्थो नालोकयत्तां गजाननः ॥ ३२ ॥
जघान मोहसंयुक्ताऽङ्गुल्या तं सा ततोऽसकृत् ।
ध्यानं त्यक्त्वा गणाधीशस्तामपश्यत् पुरः स्थिताम् ॥ ३३ ॥
गणेशाय नम इति मन्त्रमुच्चार्य विघ्नपः ।
जगाद तां सकामां स निष्कामो गणपे रतः ॥ ३४ ॥
श्रीमहागणपतिरुवाच ।
काऽसि त्वं वद मातर्मां चापल्यगुणसंयुते ।
ध्यानभङ्गो न कर्तव्यः साधुभिश्च कदाचन ॥ ३५ ॥
गणेशकर्मसंस्थं तं नरं यश्च नराधमः ।
पृच्छते बोधयति वा स वै नरकगो भवेत् ॥ ३६ ॥
ध्यानभङ्गस्य दोषस्ते माऽस्तु बाले सुलक्षणे ।
मा कुरुष्व पुनस्त्वं च कर्म चापल्यसंयुता ॥ ३७ ॥
किमर्थमागता बाले वद मां काममोहिते ।
निष्कामं गणपे संस्थं गच्छ वा यत्र ते रुचिः ॥ ३८ ॥
वृन्दोवाच ।
धर्मध्वजस्य पुत्रीं मां विद्धि नानातपोयुताम् ।
वरो मम भव स्वामिन् भर्ता त्वं सर्वनायक ॥ ३९ ॥
सर्वासां त्वं विशेषेण भर्ताऽस्यत्र न संशयः ।
तथापि मां भजस्व त्वं भजमानां गजानन ॥ ४० ॥
तस्यास्तद्वचनं श्रुत्वा प्रहस्य गणनायकः ।
उवाच कामबाणैस्तामर्दितां शान्तिधारकः ॥ ४१ ॥
श्रीमहागणपतिरुवाच ।
नाहं वृणोमि धर्मज्ञे स्त्रियं मोहयुतां कदा ।
तपसा त्वं वरं तुल्यं सुतुष्टं वरयस्व च ॥ ४२ ॥
सकामं पुरुषं पश्य सकामा त्वं नृपात्मजे ।
अहं गणेश्वरस्यैव दासो देवं भजामि तम् ॥ ४३ ॥
वृणोमि नैव निष्कामः सकामां देवि निश्चितम् ।
शान्तिस्था मे भवेत् पत्नी ?गच्छातो यत्र ते समः ॥ ४४ ॥
तस्य तद्वचनं श्रुत्वा पुनः सा तमुवाच ह ।
अहं शान्तिसमायुक्ता मां भजस्व दयानिधे ॥ ४५ ॥
तिरस्कृता गणेशेन निर्लज्जे गच्छ पुंश्चलि ।
तथाऽपि तं हठाद्देवी चालिलिङ्ग सुविह्वला ॥ ४६ ॥
अङ्कुशं गणनाथस्याकृष्य तं काममोहिता ।
नग्नं कर्तुं समुद्युक्ता क्रुद्धस्तां स शशाप ह ॥ ४७ ॥
दैत्यग्रस्ता सुदुर्बुद्धे भविष्यसि न संशयः ।
असुरीव स्पृशसि च मां दुष्टे हठसंयुता ॥ ४८ ॥
मूढेव मां समाकृष्य नग्नं कर्तुं समुद्यता ।
अतो वृक्षस्वरूपा त्वं मूढयोनौ पतिष्यसि ॥ ४९ ॥
[[७७]]
गणेशवचनं श्रुत्वा दारुणं भयसंयुता ।
त्यक्त्वा तं कम्पमानाङ्गी ननाम रुदती भृशम् ॥ ५० ॥
उवाच तं गणाधीशं मां क्षमस्व महागसाम् ।
न योग्याऽहं गणाधीश तव वामाङ्गके कदा ॥ ५१ ॥
कम्पन्तीं रुदतीं वीक्ष्य दयायुक्तो गजाननः ।
जगाद तां प्रजानाथ परां ज्ञात्वा तपोयुताम् ॥ ५२ ॥
श्रीमहागणपतिरुवाच ।
गच्छ देवि न ते दुःखं भविष्यति कदाचन ।
असुरेण वने दृष्टा तत्र सक्ता भविष्यसि ॥ ५३ ॥
तत्र त्वां केशवः क्वापि शङ्खचूडस्वरूपधृक् ।
यप्स्यते स तदा दैत्यः शम्भुहस्तान् मरिष्यति ॥ ५४ ॥
ज्ञात्वा तं देहसन्त्यागं करिष्यसि हुताशने ।
पुनर्वृक्षस्वरूपस्था भविष्यसि न संशयः ॥ ५५ ॥
त्वया शप्तो महाविष्णुः शिलारूपधरो भवेत् ।
तेन सार्धं सदा देवि रंस्यसे त्वं निरन्तरम् ॥ ५६ ॥
पतिस्ते भविता विष्णुः सदा सुखप्रदायकः ।
मदीयकृपया देवि सर्वमान्या भविष्यसि ॥ ५७ ॥
देवानां पत्रपुष्पैस्त्वं प्रियाऽत्यन्तं भविष्यसि ।
त्वत्काष्ठसम्भवां मालां धरिष्यन्ति गले जनाः ॥ ५८ ॥
त्वामन्यकाष्ठवत् सर्वे मानयिष्यन्ति निश्चितम् ।
त्रिलोकस्था जना नैव मा चिन्तां कुरु भामिनि ॥ ५९ ॥
देवानां त्वं प्रिया भूया विष्णोरत्यन्तभावतः ।
पत्रैः पुष्पैश्च वृन्दे त्वां पूजयिष्यन्ति मानवाः ॥ ६० ॥
मम वर्ज्या सदा देवि भविष्यसि न संशयः ।
गच्छ त्वं यत्र भावस्ते चिन्तां त्यक्त्वा विशेषतः ॥ ६१ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेपञ्चमे खण्डे लम्बोदरचरिते तुलसीवर्जनकारणं नामैकत्रिंशत्तमोऽध्यायः ॥