३० दूर्वामाहात्म्यवर्णनम्

॥ श्रीगणेशाय नमः ॥

दक्ष उवाच ।

श्रुतं दूर्वार्पणस्याऽपि माहात्म्यं सर्वसिद्धिदम् ।
न दूर्वया समं किञ्चिद् दृश्यते भुवनेषु वै ॥ १ ॥

तथापि तृप्तिं नो यामि योगामृतपरायणः ।
अतो मे वद योगीन्द्र जनकस्य कथानकम् ॥ २ ॥

गणेशेन महायोगी जनकश्छलितोऽभवत् ।
किं चकार ततः सोऽपि गते विघ्नेश्वरे वद ॥ ३ ॥

मुद्गल उवाच ।

शृणु प्रजापते चित्रं चरित्रं जनकस्य च ।
गते गणेश्वरे सोऽपि दुःखयुक्तो बभूव ह ॥ ४ ॥

शुशोच हृदि सङ्क्षुब्धो जगाद स्वस्य चेतसि ।
अहो नारदविप्रेण कथितं सत्यमेव तत् ॥ ५ ॥

देहो भक्तिकरः प्रोक्तो न भजेद्यस्तमाप्य सः ।
गजाननं नरो नित्यं वञ्चितो मायया परम् ॥ ६ ॥

कर्मनिष्ठैर्गणेशानः सेव्यः स्वहितकारणात् ।
तपःफलप्रदः सेव्यः तपोनिष्ठैस्तथाऽपि सः ॥ ७ ॥

ज्ञाननिष्ठैः सदा सेव्यो ज्ञानसिद्धिप्रदायकः ।
योगिभिर्योगदाता स सेव्यो ब्रह्ममयः प्रभुः ॥ ८ ॥

अहो देहधरः साक्षाद्ब्रह्मणस्पतिवाचकः ।
वेदेषु कथितश्चायं गणेशो नात्र संशयः ॥ ९ ॥

सन्त्यज्य मूर्खवद्भ्रान्तोऽहं गणेशं प्रभावतः ।
योगस्य चावदं मिथ्या नरतुल्यस्वभाववान् ॥ १० ॥

गणेशभजनं मुख्यं धृतं येन महात्मना ।
स योगीन्द्रगुरुः साक्षात्तत्समं नैव विद्यते ॥ ११ ॥

एवं क्षोभसमायुक्तो जनकः स्वगृहे स्थितः ।
समाययुश्च योगीन्द्रास्तं नवर्षभनन्दनाः ॥ १२ ॥

नग्नाः सर्वत्र पूज्याश्च सदा यौवनधारकाः ।
अव्याहतास्त्रिलोकेषु भ्रमन्तः स्वेच्छयाचराः ॥ १३ ॥

सर्ववन्द्याः सदा दक्ष ब्रह्मभूयपरायणाः ।
विधिनिषेधहीनाश्च योगरूपधरा इव ॥ १४ ॥

[[६७]]

गणेशस्य चरित्राणि कथयन्तः परस्परम् ।
तद्रूपास्तस्य नामानि वदन्तो हर्षसंयुताः ॥ १५ ॥

स्वपरभ्रान्तिशून्याश्च समलोष्टाश्मकाञ्चनाः ।
भेदाभेदविहीना वै वर्णाश्रमविवर्जिताः ॥ १६ ॥

स्वेच्छया कर्म कर्तारः स्वेच्छया ज्ञानधारकाः ।
स्वेच्छया समशीला वै स्वेच्छया सहजप्रियाः ॥ १७ ॥

स्वेच्छया स्वस्वरूपस्था स्वेच्छया योगतत्पराः ।
स्वेच्छया पूर्णयोगस्था वर्णवन्तश्च स्वेच्छया ॥ १८ ॥

स्वेच्छयाऽऽश्रमसंयुक्ताः स्वेच्छया विधिधारकाः ।
निषेधे स्वेच्छया युक्ताः स्वाधीनास्ते च योगिनः ॥ १९ ॥

विधिनिषेधहीनाश्च स्वेच्छया वै विनायकाः ।
दण्डादिभिर्विहीनास्ते गणेशगानतत्पराः ॥ २० ॥

तान् दृष्ट्वा जनको राजा सम्भ्रमाकुलचेतसा ।
समुत्थाय ननामाऽऽदौ दण्डवत् पृथिवीतले ॥ २१ ॥

उत्थाय तान् प्रपूज्याऽथ भोजयामास चान्धसा ।
पादसंवाहने संस्थो जगाद वचनं हितम् ॥ २२ ॥

जनक उवाच ।

धन्यौ मे पितरौ विद्या तपःस्वाध्यायकादयः ।
ब्रह्मणस्पतिरूपाणां भवतां दर्शनात् किल ॥ २३ ॥

निःस्पृहाः सर्वभावेषु भवन्तो नात्र संशयः ।
तथापि भवदाज्ञां वै कर्तुमीहे च योगिनः ॥ २४ ॥

भवतां किञ्चिदाज्ञायां संस्थितो यदि मानवः ।
सकृत्तस्य पुनर्जन्म विद्यते नैव भक्तिभाक् ॥ २५ ॥

अवमानेन सद्यो वै नारकी जायते नरः ।
साक्षाद्योगस्वरूपाश्च भवन्तः कृपयाऽऽगताः ॥ २६ ॥

न मत्समस्त्रिलोकेषु भवतां दर्शनाद्भवेत् ।
अधुना कृतकृत्योऽस्मि जातोऽहं भाग्यगौरवात् ॥ २७ ॥

मुद्गल उवाच ।

जनकस्य वचः श्रुत्वा साधु तं ते प्रजापते ।
जगुः प्रहृष्टभावेन राजानं शान्तिदायकाः ॥ २८ ॥

नवयोगिन ऊचुः ।
धन्यस्त्वं मानवो राजा विदेहोऽसि न संशयः ।
साधुत्वे देहसंस्थोऽपि त्वयि चित्रं न सम्भवेत् ॥ २९ ॥

साधुदर्शनकामाश्च वयं ते गृहमागताः ।
दृष्ट्वा त्वां योगिनं पूर्णं तृप्ताः स्मः श्रुतकीर्तयः ॥ ३० ॥

गच्छामो राजशार्दूल नेच्छामः किञ्चिदप्यहो ।
पूजां त्वया कृतां दृष्ट्वा सन्तुष्टाः स्मो महामते ॥ ३१ ॥

तेषां तद्वचनं श्रुत्वा तान् जगाद नृपः पुनः ।
प्रणम्य भक्तिसंयुक्तो हितं सर्वजनप्रियः ॥ ३२ ॥

जनक उवाच ।

वदेत योगसंसिध्यै किं कर्तव्यं जनैः सदा ।
येन योगीन्द्र वन्द्यास्ते भवन्ति मानवा बुधाः ॥ ३३ ॥

कविरुवाच ।
स्वधर्मपालको नित्यं भवेद्योगपरायणः ।
रजस्तमस्तिरस्कृत्य सत्त्वयुक्तो मुमुक्षुकः ॥ ३४ ॥

गणेशार्पणबुद्ध्या वै कर्माणि सततं नरः ।
कुर्याच्छ्रौतानि स्मार्तानि व्रतादीनि विशेषतः ॥ ३५ ॥

आन्तराणि महाराज वायुसाधनकानि वै ।
स्मृतानि तानि सर्वाणि कुर्यात् ध्यानपरायणः ॥ ३६ ॥

गणेशस्य सदा ध्यानं कुर्यात् स्वहृदि भूमिप ।
एकाक्षरादिमन्त्राश्च तेष्वैकजपकारकः ॥ ३७ ॥

सम्प्रज्ञातसमाधिस्थः सम्भवेद्यदि मानवः ।
तथापि गणराजस्य ध्यानं नैव परित्यजेत् ॥ ३८ ॥

असम्प्रज्ञातयोगस्थः भवेद्यदि स मानवः ।
तथापि विघ्नराजस्य सदा ध्यानं समाचरेत् ॥ ३९ ॥

गणेशध्यानसंयुक्तो योगभूमिं नृपात्मज ।
स च स्वल्पेन कालेनोल्लङ्घयेद्विघ्नहानतः ॥ ४० ॥

ततो योगी भवेन्नूनं शान्तियोगपरायणः ।
चित्ते चिन्तामणौ सोऽपि तदाकारः सुसाधनात् ॥ ४१ ॥

न गणेशसमं किञ्चिज्जगत्सु ब्रह्मदं भवेत् ।
सर्वेभ्यो योगदानार्थं बभूवे देहधारकः ॥ ४२ ॥

एतत्ते कथितं भूप योगप्राप्तौ सुसिद्धिदम् ।
भजनं सिद्धिनाथस्य योगसिद्धिप्रदायकम् ॥ ४३ ॥

जनक उवाच ।

कथं चिन्तामणिः प्रोक्तो गणेशानो वदन्तु मे ।
तस्य रूपं कथं ज्ञेयं नरैश्चित्ते विशेषतः ॥ ४४ ॥

हरिरुवाच ।
चित्तं पञ्चविधं प्रोक्तं तत्र चिन्तामणिः स्थितः ।
चित्तप्रकाशकत्वाद्वै विघ्नेशानः प्रकथ्यते ॥ ४५ ॥

क्षिप्तं मूढं च विक्षिप्तमेकाग्रं च निरोधकम् ।
पञ्चधा चित्तमेवं तु भवते शृणु भूमिप ॥ ४६ ॥

यत्र क्षिप्तं मनः सर्वैस्तत्र ज्ञानयुतं भवेत् ।
तदेव कर्तुमुद्युक्तं समर्थं सम्भवेत् कथम् ॥ ४७ ॥

क्षिप्तं चित्तं विजानीहि स्मृतस्तत्र प्रकाशकः ।
चिन्तामणिर्गणाधीशस्तं भजस्व महामते ॥ ४८ ॥

यत्र क्षिप्तं नरेणैव चित्तं तत्र न गच्छति ।
ज्ञानहीनतया तस्य मूढवन् मूढसञ्ज्ञितम् ॥ ४९ ॥

अन्यच्च भ्रान्तियुक्तानां पिशाचवत् स्थितं सदा ।
चित्तं तदेव मूढं च ज्ञातव्यं जनवत्सल ॥ ५० ॥

तत्र प्रकाशकर्ता स नानाखेलपरायणः ।
चिन्तामणिर्गणाध्यक्षः स तिष्ठति भजस्व तम् ॥ ५१ ॥

सत्वभावसमायुक्तो मानवो मोक्षकामुकः ।
ब्रह्मार्पणतया सर्वं कुरुते कर्म नित्यदा ॥ ५२ ॥

ब्रह्मानुभवहीनो न जगत्सु सुखलालसः ।
ब्रह्मार्थं तस्य चित्तं वै विक्षिप्तं कथितं बुधैः ॥ ५३ ॥

संसारे क्षिप्तभावश्च तस्माद्विगतक्षेपणम् ।
कर्तुं समुद्यतः सोऽपि सदा साधनतत्परः ॥ ५४ ॥

अनेन विधिना राजन् विक्षिप्तं चित्तमुच्यते ।
तत्र प्रकाशकर्तारं चिन्तामणिं भजस्व तम् ॥ ५५ ॥

ज्ञानदृष्टिः समुत्पन्ना हृदि सर्वत्र भूमिप ।
साक्षाद्भावस्यैक्यकरावयवादिकवर्जिता ॥ ५६ ॥

तया सोऽपि नरस्तत्र यत्र पश्यति योगवित् ।
आकाररहितं भाति विश्वं सर्वं न संशयः ॥ ५७ ॥

अष्टधा सा समाख्याता सम्प्रज्ञातस्वरूपिका ।
एकभावकरा वृत्तिरेकाग्रा कथिता बुधैः ॥ ५८ ॥

तत्र चिन्तामणिः साक्षात् प्रकाशकारकः स्मृतः ।
तं भजस्व विधानेन सर्वसिद्धिप्रदायकम् ॥ ५९ ॥

जगदवयवैर्युक्तं चतुर्देहमयं नृप ।
बिन्दुस्तस्य परा काष्ठा ब्रह्मकायाप्रधारकम् ॥ ६० ॥

देही भेदविहीनश्च देहचालक उच्यते ।
सोऽहं मात्रात्मकः सोऽपि कथितो वेदवादिभिः ॥ ६१ ॥

तयोर्योगे निरोधश्च सदा भवति चेतसः ।
तस्य भेदौ समाख्यातौ संयोगायोगरूपिणौ ॥ ६२ ॥

स्वत उत्थानयुक्तं परत उत्थानधारकम् ।
स्वतः परत उत्थानवर्जितं ब्रह्म उच्यते ॥ ६३ ॥

एतत् संयोगकं प्रोक्तं समाधेर्धारकं परम् ।
सर्वेषां तत्र संयोगो ब्रह्माकारेण जायते ॥ ६४ ॥

[[६९]]

अन्यदयोगरूपं वै निवृत्तेर्धारकं परम् ।
ब्रह्म मायाविहीनं तु व्यतिरेकप्रभावतः ॥ ६५ ॥

केषाञ्चित्तत्र संयोगो ब्रह्मणां जगतां भवेत् ।
नैव केषु च तस्यापि ब्रह्मायोगं प्रकथ्यते ॥ ६६ ॥

स्वकीयभेदनाशेन लभ्यते नात्र संशयः ।
तदेव ब्रह्मभूतत्वं निरोधवृत्तिजं मतम् ॥ ६७ ॥

निरोधे चित्तके राजन् प्रकाशदगणेश्वरम् ।
चिन्तामणिं भजस्व त्वं परं तत् खेललालसम् ॥ ६८ ॥

पञ्चधा चित्तभूमिस्थं त्यक्त्वा योगपरो भवेत् ।
स्वयं चिन्तामणिः साक्षाद्भवते चित्तनाशनात् ॥ ६९ ॥

शान्त्या सर्वत्र राजेन्द्र चित्तेषु नित्यमादरात् ।
चिन्तामणिः प्रलभ्येत त्यक्त्वा सद्यश्च चिन्तनम् ॥ ७० ॥

एतत्ते कथितं पूर्णं चिन्तामणिस्वरूपकम् ।
तं भजस्व विधानेन शान्त्या योगपरायणः ॥ ७१ ॥

जनक उवाच ।

एतादृशो गणेशानः कथं देहधरोऽभवत् ।
तत्र श्रद्धादिकं नाथास्तादृशं जायते कथम् ॥ ७२ ॥

अन्तरिक्ष उवाच ।

वामभागे राजसश्च दक्षिणे तामसः स्मृतः ।
मध्ये सत्त्वमयः प्रोक्तस्तेषां योगे तुरीयकः ॥ ७३ ॥

चतुर्विधमयो देहस्तत्राहङ्कारधारकः ।
देही च तन्मयः साक्षात् कण्ठाधो गणनायकः ॥ ७४ ॥

यस्मात् सर्वं समुत्पन्नं यत्र गच्छति भूमिप ।
समाधिना महोग्रेण प्रलये तद्गजः स्मृतः ॥ ७५ ॥

कदा न जायते भूप लयं गच्छति नो कदा ।
तदेव गजशब्दाख्यं ब्रह्म वेदैः प्रकथ्यते ॥ ७६ ॥

तदेव मस्तकं तस्य गणेशस्य महात्मनः ।
तयोर्योगे गणाध्यक्षः साकारो भवतीत्यहो ॥ ७७ ॥

सम्प्रज्ञातमयो देहः कण्ठाधस्तस्य कीर्तितः ।
असम्प्रज्ञातरूपं च कण्ठादूर्ध्वं शिरः स्मृतम् ॥ ७८ ॥

तयोर्योगे स्वयं साक्षाद्भक्तानुग्रहकारणात् ।
देहधारी बभूवाऽपि गणेशो ब्रह्मनायकः ॥ ७९ ॥

न सर्वसमभावाख्यो देहस्तस्य महात्मनः ।
देहधारी गणाधीशो भक्तिभोगार्थमञ्जसा ॥ ८० ॥

न भक्तेश्च समं तस्य प्रियं राजेन्द्र वर्तते ।
तदर्थं सकलं हित्वा भक्ताधीनो भवेत् स्वयम् ॥ ८१ ॥

मायया भ्रान्तचित्तानां देहधारी यथा नरः ।
तथाऽयं भवति प्राज्ञ साक्षाद्योगस्वरूपधृक् ॥ ८२ ॥

जनक उवाच ।

कीदृशी गणराजस्य माया भ्रान्तिकरी मता ।
तां मे वदत योगीन्द्रा ब्रह्मभूयार्थमञ्जसा ॥ ८३ ॥

प्रबुद्ध उवाच ।

वामाङ्गात् सिद्धिरुत्पन्ना वामभागप्रकाशिनी ।
दक्षिणाङ्गात्तथा बुद्धिर्दक्षिणाङ्गधरा बभौ ॥ ८४ ॥

सिद्धिपुत्रः स्वयं लक्षो बुद्धिपुत्रो महामते ।
लाभस्तयोश्च चित्तात्तौ सञ्जातौ खेलकौ परौ ॥ ८५ ॥

मायामोहितचित्तानां भ्रामकौ नात्र संशयः ।
तयो रूपं प्रवक्ष्यामि शृणु लोकहिताय च ॥ ८६ ॥

पापेषु च नरा राजन् यदा लक्षं प्रकुर्वते ।
तदा नरकदो लाभो भवते पापकारिणाम् ॥ ८७ ॥

यदा पुण्येषु लक्षं वै कुर्वते मानवा नृप ।
तदा स्वर्गप्रदो लाभो जायते पुण्यकर्मणाम् ॥ ८८ ॥

यदा ब्रह्मणि लक्षं वै कुर्वते मानवा नृप ।
तदा योगमयो लाभः सदा भवति योगिनाम् ॥ ८९ ॥

हृदि लक्षः स्थितो नित्यं सर्वत्र लक्षदायकः ।
पदार्थेषु स्थितो लाभो मतो नाना फलप्रदः ॥ ९० ॥

ताभ्यां स युवराजाभ्यां विघ्नेशो मायया चरन् ।
बन्धहीनः खेलति च स्वेच्छाचारिस्वरूपधृक् ॥ ९१ ॥

तत्र भ्रान्तिकरी प्रोक्ता सिद्धिः सर्वत्र वर्तते ।
सिद्ध्यर्थं सर्वलोकाश्च बभ्रमुस्त्वं विचारय ॥ ९२ ॥

धर्मसिद्धिस्तथार्थस्य सिद्धिः कामप्रदायिनी ।
मोक्षसिद्धिस्तथा राजन् ब्रह्मभूयकरी मता ॥ ९३ ॥

अहं गणेशरूपश्चेत् कथमत्र प्रवर्तते ।
भुक्तिमुक्तिब्रह्मभूयं सिद्धिः सुभ्रान्तिदा मता ॥ ९४ ॥

भ्रान्तिधारकरूपा सा बुद्धिः सर्वत्र वर्तते ।
बुद्ध्या बुद्ध्वा तु राजेन्द्र पश्चान् मोहो निवर्तते ॥ ९५ ॥

पञ्चचित्तमयी बुद्धिः स्वयं विश्वात्मिका मता ।
ब्रह्माकारा तथा भिन्नं पदमिच्छति दुःखदम् ॥ ९६ ॥

सकामा चैव निष्कामा ब्रह्मभूयपरायणा ।
बुद्धिर्भवति सा भ्रान्त्या भ्रान्तिधारकतां गता ॥ ९७ ॥

नानाभ्रान्तियुतं सर्वं चकार सिद्धिमञ्जसा ।
नानामोहयुतं तद्वद् बुद्धिश्चकार खेलया ॥ ९८ ॥

ताभ्यां सम्मोहितं सर्वं लक्षलाभयुतं भवेत् ।
नानालक्षसमायुक्तं नानालाभफलैर्युतम् ॥ ९९ ॥

अतो मायायुतः सोऽपि गणेशो ब्रह्मनायकः ।
बिम्बे खेलति बिम्बीव जानीहि नृपसत्तम ॥ १०० ॥

एतन् मायास्वरूपं ते कथितं मोहकारकम् ।
यज्ज्ञात्वा योगिवन्द्यश्च जायते मानवः क्षणात् ॥ १०१ ॥

जनक उवाच ।

भक्तिप्रियो गणेशश्चेत् कथं मोहयुतान् जनान् ।
स्वभक्तान्न स योगीन्द्राः करोति वदत प्रियाः ॥ १०२ ॥

न पराधीनता तस्य स्वप्रियं गणनायकः ।
पराधीनसमानं न न करोति महाद्भुतम् ॥ १०३ ॥

पिप्पलायन उवाच ।

गणेशेन महाराज क्रीडार्थं रचितं जगत् ।
मायामयं विशेषेण नानाखेलयुतं तथा ॥ १०४ ॥

तत्रादौ द्विविधं तेन तदर्थं रचितं पुरा ।
तच्छ्रुणुष्व विधानेन सर्वसंशयहारकम् ॥ १०५ ॥

स्वस्वस्वार्थयुतं पूर्णं मायासुखकरं मतम् ।
तदर्थं सर्वलोकाश्च ब्रह्माणि सम्भ्रमन्ति वै ॥ १०६ ॥

योगमार्गस्तथा राजन् गाणेशः शान्तिदः परः ।
रचितो मोहनाशार्थं मायानाशकरो मतः ॥ १०७ ॥

योगेन गणपं ज्ञात्वा नरः पूर्णं ततो नृप ।
भजतेऽनन्यभावेन तन्निष्ठस्तत्परायणः ॥ १०८ ॥

यस्य भावो भवेद्यत्र यादृशस्तादृशं चरेत् ।
तत्र विघ्नेश्वरः साक्षादाग्रहं न करोति च ॥ १०९ ॥

यदा गणेश्वरो विश्वं भक्तियुक्तं निरन्तरम् ।
करोति चेद्गणेशस्य तदा खेलः कुतो भवेत् ॥ ११० ॥

न पराधीनता तस्य क्रीडार्थं गणनायकः ।
विश्वं तु द्विविधं कृत्वा परां पश्यति भावनाम् ॥ १११ ॥

एतत्ते कथितं राजन् श्रोतुमिच्छसि किं परम् ।
स्वाधीनं तु पराधीनं मायया दृश्यते सदा ॥ ११२ ॥

जनक उवाच ।

किं कर्म किमकर्मापि विकर्मापि कथं भवेत् ।
कर्मयोगश्च विप्रेन्द्राः कीदृशो वदत प्रियाः ॥ ११३ ॥

आविर्होत्र उवाच ।

स्वस्वधर्मयुतं कर्म विधियुक्तं महामते ।
देहसौख्यप्रदं प्रोक्तं जन्ममृत्युप्रदं भवेत् ॥ ११४ ॥

[[७१]]

स्वस्वधर्मविहीनं यद्विधिहीनं विशेषतः ।
विकर्म विद्धि राजेन्द्र तदेवं पापरूपकम् ॥ ११५ ॥

पापाचरणमात्रेण नरो दुर्गतिमाप्नुयात् ।
देहदुःखकरं प्रोक्तं परिणामे न संशयः ॥ ११६ ॥

सत्कर्म मुक्तिकामार्थं कुरुते नित्यमादरात् ।
ब्रह्मार्पणस्वभावेनाकर्म विद्धि महामते ॥ ११७ ॥

शुक्लगत्या नरो वेदे मुक्तिं प्राप्नोति शाश्वतीम् ।
अकर्मणः प्रभावेण स निष्कामपरो मतः ॥ ११८ ॥

कर्मयोगमयं विश्वं सर्वं जानीहि पार्थिव ।
क्रियायां यत् स्थितं ब्रह्म स एव कर्मयोगकः ॥ ११९ ॥

क्रियमाणं च यत्प्रोक्तं तदेव कर्म उच्यते ।
तस्य भेदान् प्रवक्ष्यामि समाहितमनाः शृणु ॥ १२० ॥

मौनं यदि धृतं तेन तदा जातं नृपात्मज ।
अतः कर्ममयं विद्धि धारणान्नात्र संशयः ॥ १२१ ॥

वायुबन्धनयोगेन प्राणो नीतः स्वमस्तके ।
तदेव कर्मरूपं वै वायुचालनतः परम् ॥ १२२ ॥

ध्यानं करोति चेच्चित्ते दमयित्वा मनः स्वयम् ।
तदेवं कर्मरूपं तु मनोनिग्रहकारणात् ॥ १२३ ॥

जागृतिर्जागरं कर्म स्वप्नः सुप्तिमयं भवेत् ।
अज्ञानं विद्धि सौषुप्तं कर्मरूपं न संशयः ॥ १२४ ॥

इत्याद्या बहवो भेदा मया वक्तुं न शक्यते ।
नामरूपधरः कोऽपि कर्महीनो न वर्तते ॥ १२५ ॥

उत्पत्तिश्च स्थिती राजन् संहारस्त्रिविधं परम् ।
सर्वं कर्ममयं विद्धि कर्मयोगेन जायते ॥ १२६ ॥

असद्ब्रह्म च यत् प्रोक्तं वेदे तन्मायया बभौ ।
कर्मरूपं न सन्देहो नामरूपप्रधारणात् ॥ १२७ ॥

नामरूपपरित्यागे ह्यसत् स्वानन्दगं भवेत् ।
मानवो ब्रह्मरूपः स कर्मयोगी प्रकथ्यते ॥ १२८ ॥

एतत् कर्मस्वरूपं ते कथितं ब्रह्मवाचकम् ।
कर्माधीनं जगत् सर्वं ब्रह्म नानाविधं तथा ॥ १२९ ॥

जनक उवाच ।

ज्ञानं च कीदृशं प्रोक्तं तन्मे वदत योगिनः ।
येन योगी भवेज्जन्तुर्ज्ञानयोगपरायणः ॥ १३० ॥

द्रुमिल उवाच ।

हृदि स्फूर्तिमयं ज्ञानं ज्ञातव्यं विबुधैः सदा ।
स्फूर्तिदातृस्वरूपेण ब्रह्म तत्र स्थितं भवेत् ॥ १३१ ॥

नामरूपविहीनं यत् सदाऽमृतमयं भवेत् ।
आद्यन्तभावहीनं वै तद्विद्धि ज्ञानमुत्तमम् ॥ १३२ ॥

ज्ञानचक्षुः स्वभावेन ब्रह्मानुभवकारकम् ।
नानाज्ञानलयं कृत्वा ज्ञानयोगी भवेत्ततः ॥ १३३ ॥

सत्यस्वानन्दरूपं त्वं जानीहि ज्ञानमूलकम् ।
ज्ञानानां योगभावेन लभ्यते योगसेवया ॥ १३४ ॥

जनक उवाच ।

आनन्दः कीदृशः प्रोक्तः सहजं कीदृशं मतम् ।
ब्रह्मभूयं च योगीन्द्राः कीदृशं कथयन्तु मे ॥ १३५ ॥

चमस उवाच ।

बाह्यान्तरविभेदेनानन्दः सर्वत्र वर्तते ।
उभयात्मकभावस्थः समरूपधरो मतः ॥ १३६ ॥

नानाद्वन्द्वेषु राजेन्द्र स्थितमानन्दरूपकम् ।
समं विद्धि च सर्वत्र जगत्सु ब्रह्मसु परम् ॥ १३७ ॥

सत्यासत्यमयं तद्धि समस्वानन्दगं परम् ।
ब्रह्म राजन् सदानन्दरूपं तदेव सम्मतम् ॥ १३८ ॥

द्वन्द्वेषु त्वासमन्ताद्यन्नन्दनात्तन् महीपते ।
आनन्दः परमानन्दो ब्रह्मानन्दः प्रकथ्यते ॥ १३९ ॥

समभावस्थितानां च योगेन ब्रह्म लभ्यते ।
आनन्दाख्यं प्रजानाथ योगसाधनतः परम् ॥ १४० ॥

[[७२]]

एतत्ते कथितं पूर्णमानन्दस्य स्वरूपकम् ।
आनन्दानां समायोगे समस्वानन्दगो भवेत् ॥ १४१ ॥

द्विविधा तस्य माया तु द्वन्द्वभावधरा मता ।
तयोः संयोगभावे स उभयात्मक उच्यते ॥ १४२ ॥

तदेव द्विविधेष्वेव मोहयुक्तं नराधिप ।
समं सर्वत्र जानीहि द्वन्द्वमोहादिदायकम् ॥ १४३ ॥

त्रिषु मोहविहीनं यत् सदा नेति स्वरूपकम् ।
स्वाधीनं सहजं विद्धि चतुर्थं राजसत्तम ॥ १४४ ॥

स्वेच्छया सत् समायुक्तं स्वेच्छया सत् परायणम् ।
स्वेच्छयाऽऽनन्दसंयुक्तं त्रिभिर्हीनं निजेच्छया ॥ १४५ ॥

आज्ञया त्रिविधं ब्रह्म वर्तते नात्र संशयः ।
सर्वेषां नाशकं तुर्यं सहजं नेति भावतः ॥ १४६ ॥

न तस्य नेति कर्ता वै विद्यते योगभावतः ।
तेन नेतिमयं स्वच्छन्दगं प्रोक्तं सनातनम् ॥ १४७ ॥

स्वेच्छया बन्धयुक्तश्च स्वेच्छया बन्धवर्जितः ।
स्वेच्छया समभावस्थो भवते सहजाख्यकः ॥ १४८ ॥

अव्यक्तेन त्रिभावेषु तेन योगेन लभ्यते ।
सहजं ब्रह्म वेदेषु यत् प्रोक्तं वेदवादिभिः ॥ १४९ ॥

स्वाधीनानां समायोगे व्यक्तः स्वानन्द उच्यते ।
अव्यक्तयोगभावत्वान्निराकर्तुं न शक्यते ॥ १५० ॥

एतत्ते कथितं भूप सहजं मोहवर्जितम् ।
अधुना शृणु योगं त्वं ब्रह्मभूयप्रकाशकम् ॥ १५१ ॥

स्वानन्दः सर्वसंयोगे भवति ब्रह्मधारकः ।
चतुर्णां तत्र संयोगः कर्तव्यः स्वसमाधिना ॥ १५२ ॥

त्रिविधं मोहयुक्तं च मोहहीनं चतुर्थकम् ।
नैव ब्रह्मणि राजेन्द्र मोहयुक्तविहीन ते ॥ १५३ ॥

स्वाधीनं न भवेत्तत्तु पराधीनं न वर्तते ।
ब्रह्मणां जगतां तत्र संयोगो जायते परः ॥ १५४ ॥

स्वसंवेद्यमयो भूत्वा यस्तु तिष्ठति मानवः ।
तत्र किं भिन्नभावाख्यं वर्तते योगनाशकम् ॥ १५५ ॥

संयोगे नाशभूते तु ब्रह्मायोगः प्रकीर्तितः ।
न तत्र जगतां भूप संयोगो ब्रह्मणां भवेत् ॥ १५६ ॥

अयोगस्य न संयोगः केषु ब्रह्मसु कीर्तितः ।
योगिभिर्योगप्राप्त्यर्थं व्यतिरेकाद्विचारय ॥ १५७ ॥

संयोगे मायया युक्तो भवते गणनायकः ।
मायाधीनस्वरूपेण सदाऽयोगः प्रवर्तते ॥ १५८ ॥

मायया सर्वभावस्थो भवति द्विरदाननः ।
संयोगाभेदभावेन निजमायामयः स्मृतः ॥ १५९ ॥

स्वानन्दे गणनाथस्य दर्शनं योगिनां भवेत् ।
संयोगाभेदकं तेन विदुः स्वानन्दवासिनम् ॥ १६० ॥

अयोगे माययाहीनो गणेशः सर्वदा मतः ।
यादृशस्तादृशः सोऽपि नागतो न गतो भवेत् ॥ १६१ ॥

वृथा भ्रान्तिमयं सर्वं भासते मायया किल ।
भ्रान्तानां तेन सर्वत्र निवृत्तिर्जायते परा ॥ १६२ ॥

स्वकीया भेदभावाच्च निवृत्तिं व्यतिरेकतः ।
धृत्वा ह्ययोगयोगस्थः स्वयं भवति मानवः ॥ १६३ ॥

अयोगे मायया हीनः संयोगे मायया युतः ।
नरो भवति राजेन्द्र पञ्चपञ्चस्वरूपया ॥ १६४ ॥

ब्रह्मणि ब्रह्मभूतस्य संयोगः कुत्र वर्तते ।
अयोगश्च महीपाल नान्वयव्यतिरेकतः ॥ १६५ ॥

[[७३]]

चित्तं पञ्चविधं त्यक्त्वा चित्तभ्रान्तिं च पञ्चधा ।
स्वयं चिन्तामणिः साक्षाद् ब्रह्मभूतो नरो भवेत् ॥ १६६ ॥

संयोगात्मा गकारश्च णकारोऽयोगवाचकः ।
तयोः स्वामी गणाधीशः संयोगायोगवर्जितः ॥ १६७ ॥

इति ते कथितं भूप ब्रह्मभूतस्वरूपकम् ।
किं श्रोतुमिच्छसि प्राज्ञ गमिष्यामो यदृच्छया ॥ १६८ ॥

जनक उवाच ।

गणेशो भक्तिभावेन नराधीनो भवेत् स्वयम् ।
न भक्तिसमभावाख्यं मोहदं तस्य सम्भवेत् ॥ १६९ ॥

अतो वदत मे भक्तिस्वरूपं योगिसत्तमाः ।
तया विघ्नेश्वरं नित्यं भजिष्यामि विशेषतः ॥ १७० ॥

करभाजन उवाच ।

भक्तिश्च नवधा प्रोक्ता हृदये रसधारिणी ।
कथयामि समासेन स्वरूपं रसदायकम् ॥ १७१ ॥

श्रवणं कीर्तनं तस्य स्मरणं पादसेवनम् ।
अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥ १७२ ॥

नवधा मानसी राजन् गतिः सर्वत्र वर्तते ।
भावेषु रससंयुक्ता दशमी नैव विद्यते ॥ १७३ ॥

यदा भक्तौ नरस्यैव रसः पूर्णः प्रवर्तते ।
तदाऽस्य नवधा नित्यं चित्तं तस्यां वसेत् स्वयम् ॥ १७४ ॥

यदा मुक्तौ तथा जन्तो रसः पूर्णो जनाधिप ।
तदा मुक्तिपदार्थेषु चित्तं तु नवधा भवेत् ॥ १७५ ॥

यदा च ब्रह्मभूतेषु रसस्तस्य प्रवर्तते ।
तदा नरस्य योगेषु चित्तं तन्नवधा भवेत् ॥ १७६ ॥

योगी भूत्वा नरो यस्तु भजते गणनायकम् ।
तस्यैव नवधा चित्तं गणेशे सर्वदा भवेत् ॥ १७७ ॥

योगिनां हृदि विघ्नेशः पूर्णरूपधरो वसेत् ।
अयोगिनां कलांशश्च तस्माद्योगी भवेन्नरः ॥ १७८ ॥

ततो गणेशरूपस्य भजनं पूर्णभावतः ।
भवत्यत्र न सन्देहो रसयुक्तं विशेषतः ॥ १७९ ॥

गणेशगुणवादानां प्रीत्या सम्पूर्णभावतः ।
प्रकुर्यात् स नरो नित्यं श्रवणं रससंयुतः ॥ १८० ॥

सर्वश्रवणजातीनां रसं ज्वाल्य महामतिः ।
गणेशगुणवादेषु रसं पूर्णं स पश्यति ॥ १८१ ॥

एवं श्रवणभक्तिं त्वं प्राप्तां जानीहि भूमिप ।
समतो योगिषु श्रेष्ठो बुधैर्नृप न संशयः ॥ १८२ ॥

तथा कीर्तनभावश्च उत्पद्येत नराधिप ।
गाणेशकीर्तने भक्तिः प्राप्ता तेन विनिश्चितम् ॥ १८३ ॥

गणेशार्थं च या किञ्चिद्विस्मृतिस्तत्र नो भवेत् ।
तदा स्मरणभक्तिः सा प्राप्ता सम्पूर्णभावतः ॥ १८४ ॥

गणेशपादपद्मं यो मत्वा शाश्वतकं परम् ।
तत्रैव सकलो यत्नो भवेत्तत् पादसेवनम् ॥ १८५ ॥

साङ्गं गाणेश्वरं सर्वं कुरुते नित्यमादरात् ।
अर्चनात्मकरूपां तां भक्तिं प्राप्तो महामतिः ॥ १८६ ॥

गणेशान्न परं श्रेष्ठं वेदशास्त्रविचारतः ।
न चलेत् क्वापि जानीहि तदा वन्दनवान् भवेत् ॥ १८७ ॥

गाणपत्यानि चिह्नानि धृत्वा तत्परचेतसा ।
तदा दास्यात्मिका भक्तिः प्राप्ता तेन नराधिप ॥ १८८ ॥

अन्तर्बाह्यकृतं यद्वै तत्र साक्षी गणेश्वरः ।
अन्तर्भयेन भक्तिर्या सा प्रोक्ता सख्यरूपिणी ॥ १८९ ॥

पञ्चधा मोहयुक्तं स चित्तमुत्सृज्य योगतः ।
न भिन्नोऽहं गणेशानान् मत आत्मनिवेदकः ॥ १९० ॥

मनोगतिः प्राज्ञ यत्र तत्र विघ्नेश्वरं सदा ।
भजते रससंयुक्तः स वै भक्तः प्रकीर्तितः ॥ १९१ ॥

रसरूपा स्वयं भक्तिर्यत्र पूर्णस्वभावतः ।
यस्य तिष्ठति जन्तुः स तद्भक्तः सम्मतो नृप ॥ १९२ ॥

भोगेषु न रसोत्पत्तिर्मुक्तौ च ब्रह्मभूयके ।
गणेशभक्तिभावेन भक्तस्यैवावतिष्ठति ॥ १९३ ॥

आदौ ते कथितं राजन् गणेशस्य स्वरूपकम् ।
ब्रह्माकारैर्महाचिह्नैः संयुक्तं योगदायकम् ॥ १९४ ॥

तत्र विश्वासभावेन तादृगुत्पद्यते रसः ।
तदा भक्तो महाराज भवते योगिवन्द्यकः ॥ १९५ ॥

नारदेनैव राजेन्द्र बोधितस्त्वं न बुद्ध्यसे ।
तव भावपरीक्षार्थं भक्तिदानार्थमञ्जसा ॥ १९६ ॥

प्रेषितस्तेन विघ्नेशो वृद्धः कुष्ठयुतो द्विजः ।
समायातः सर्वभक्षी छलयामास साधुपम् ॥ १९७ ॥

नरदेहं समासाद्य गणेशं भजेत न यः ।
पशुतुल्यः स राजेन्द्र तस्य धिक् जन्म निश्चितम् ॥ १९८ ॥

मुद्गल उवाच ।

एवमुक्त्वा विदेहं तं जनकं योगिनो नव ।
अनुज्ञाप्य ययुस्तस्मात् स्वेच्छया गणपे रताः ॥ १९९ ॥

जनकस्तान्नमस्कृत्य स्वगृहे गणनायके ।
योगी नवविधां भक्तिमकरोद्भावसंयुतः ॥ २०० ॥

अहर्निशं गणेशानमभजन्नान्यचेतसा ।
जनकः सर्वभावेन योगिवन्द्यो बभूव ह ॥ २०१ ॥

तिष्ठन् स्वपन् पिबन् वाऽदन् गच्छन् विघ्नेश्वरे रतः ।
अतो गणेशसन्तुष्ट्या तद्वंशे जनका बभुः ॥ २०२ ॥

सर्वज्ञानसमायुक्ताः सर्वे साधुगुणान्विताः ।
गणेशभजने सक्ता बभूवुश्च प्रजापते ॥ २०३ ॥

नवयोगिषु यातेषु जनकस्त्रिशिरोभवम् ।
वृत्तान्तं परिशुश्राव गणेशगमनात्मकम् ॥ २०४ ॥

स्वयं तस्य गृहं गत्वा ननाम मुनिपुङ्गवम् ।
दैवीसमृद्धिसंयुक्तं योगपारङ्गतं परम् ॥ २०५ ॥

तेन सम्बोधितो राजा नित्यं दूर्वापरायणः ।
पुपूज गणनाथं तं सदा भक्तिसमन्वितः ॥ २०६ ॥

दूर्वाहीनां न पूजां स चकार मरणावधि ।
अन्ते स्वानन्दगो भूत्वा भजते गणनायकम् ॥ २०७ ॥

इदं जनकमाहात्म्यं कथितं ते प्रजापते ।
भुक्तिमुक्तिप्रदं नृभ्यः श्रवणात् पठनाद्भवेत् ॥ २०८ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेपञ्चमे खण्डे लम्बोदरचरिते दूर्वामाहात्म्यवर्णनं नाम त्रिंशत्तमोऽध्यायः ॥

[[३१]]