२९ त्रिशिरसश्चरितवर्णनम्

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

अन्यत्त्वं शृणु माहात्म्यं दूर्वायाः स्वसुखप्रदम् ।
यया तृप्तिसमायुक्तो बभूव द्विरदाननः ॥ १ ॥

एकदा नारदो योगी जगाम जनकालयम् ।
पूजितो जनकं सोऽपि जगाद हर्षसंयुतः ॥ २ ॥

नारद उवाच ।

धन्यस्त्वं गणनाथस्य भक्तः परमभाविकः ।
मनेप्सितं गणाध्यक्षो ददते ते नियन्त्रितः ॥ ३ ॥

नारदस्य वचः श्रुत्वा तं प्रहस्य महामुनिम् ।
जगाद जनको वाक्यं योगयुक्तं स योगवित् ॥ ४ ॥

जनक उवाच ।

याज्ञवल्क्येन योगश्च कथितो मे शुभप्रदः ।
पूर्णशान्तिप्रदो विप्र गाणेशो नात्र संशयः ॥ ५ ॥

एकाक्षरं गणेशस्य ददौ मन्त्रं सुसिद्धिदम् ।
मह्यं स कृपया योगिन् साधनं प्रजगाम ह ॥ ६ ॥

तथा मया महायोगिन् साधितं ज्ञानमुत्तमम् ।
गणेशकृपयाऽहं तु योगी जातो गुरुर्यथा ॥ ७ ॥

अतोऽहं गणनाथश्च न भिन्नौ मुनिसत्तम ।
गणेशस्य कृपा कुत्र वर्तते भेददायिनी ॥ ८ ॥

मया यच्चिन्तितं तत्तत् कथं ददाति विघ्नपः ।
अयोगिनामिदं सर्वं भ्रान्तिदं भवतीत्यहो ॥ ९ ॥

पञ्चधा चित्तवृत्तिश्च तासां प्रकाशकारकः ।
चिन्तामणिः स्वयं साक्षात् खेलति हृदि संस्थितः ॥ १० ॥

जनकः कुत्र योगीन्द्र वर्तते वद साम्प्रतम् ।
तस्योपरि गणेशस्य कृपादिकमिदं मुने ॥ ११ ॥

अहं हर्ता अहं कर्ताऽहं पाता च मदात्मनाम् ।
भ्रान्तवद्भाषणं योग्यं नैव ते योगिसत्तम ॥ १२ ॥

जनकस्य वचः श्रुत्वा नारदः क्रोधसंयुतः ।
उवाच तं महाभागं निर्भर्त्स्य जनकं पुनः ॥ १३ ॥

नारद उवाच ।

ज्ञानमत्तोऽसि राजेन्द्र नश्वरस्त्वं कथं भवेः ।
गणेशाकाररूपश्च देहवान् भ्रमधारकः ॥ १४ ॥

ब्रह्मणस्पतिनामा वै गणेशो वेदवादतः ।
शरीरे तस्य सा सत्ता वर्तते पूर्णभावतः ॥ १५ ॥

योगिदेहेन सा सत्ता कदापि नृप वर्तते ।
समाधिना च योगीन्द्रो गणेशः कथितो बुधैः ॥ १६ ॥

प्रारब्धदेहधारित्वान्नरो योगी न संशयः ।
नरतुल्या शरीरेस्य भवेत् सत्ता हि सर्वदा ॥ १७ ॥

गर्विष्ठो योगमाहात्म्याज्जनक त्वां विशेषतः ।
भविता गर्वभङ्गस्ते गजाननप्रसादतः ॥ १८ ॥

एवमुक्त्वा नृपं योगी कैलासे गणपं ययौ ।
तं प्रणम्य विनीतः स वृत्तान्तं प्रजगाद ह ॥ १९ ॥

पुनः प्रणम्य विघ्नेशं ययौ स्वेच्छाचरो मुनिः ।
नारदो गणनाथस्य गानासक्तो महामतिः ॥ २० ॥

ततो गजाननो भूपं वृद्धब्राह्मणरूपधृक् ।
आययौ जनकं कुष्ठी कृमिभाराकुलः पतन् ॥ २१ ॥

कम्पेन संयुतः सोऽपि दुर्गन्धेन समावृतः ।
पूयशोणितघर्मौघैर्व्याप्तश्च मक्षिकावृतः ॥ २२ ॥

द्वारपालेन राज्ञश्चाज्ञया तत्र प्रवेशितः ।
ययाचे तं नृपं विप्रो भोजनं तोषकारकम् ॥ २३ ॥

राज्ञा सम्पूजितो विप्रो बुभुजेऽन्नं समागतम् ।
अन्नं पुनर्ययाचे तं पुष्कलं प्रददौ नृपः ॥ २४ ॥

तदेव तेन सम्भुक्तं पुना राजा भयाकुलः ।
अयुतानां समं तस्मै ददावन्नं सुतुष्टिदम् ॥ २५ ॥

[[६४]]

भक्षयित्वा तदपि स ययाचेऽन्नं महामुनिः ।
ततोऽपक्वं ददौ तस्मै तद् बभक्ष द्विजोत्तमः ॥ २६ ॥

ततो राजा पुरे संस्थं भूमिस्थं प्रददौ पुनः ।
अन्नं बभक्ष तत् सोऽपि ययाचे तं धरापतिम् ॥ २७ ॥

पुरप्रान्ते स्थिता ग्रामास्तेभ्यो राज्ञा समाहृतम् ।
अन्नं दत्तं च विप्रेण भक्षितं सकलं प्रभो ॥ २८ ॥

ययाचे स नृपं विप्रो देह्यन्नं राजसत्तम ।
राज्ञा लज्जासमायुक्तो न किञ्चित्तमुवाच ह ॥ २९ ॥

राजानं मुनिवर्यश्च जगाद प्रहसन्निव ।
त्वं गणेशो न सन्देहः कथं सत्ताविवर्जितः ॥ ३० ॥

अकर्तुं कर्तुमद्यैवान्यथा कर्तुं गजाननः ।
समर्थस्त्वं कथं राजंस्तूष्णीं तिष्ठसि तद् वद ॥ ३१ ॥

भ्रान्तो योगमदेनासि राजेन्द्रात्र न संशयः ।
प्रत्यक्षं नरतुल्योऽसि न गणेशो मतः कदा ॥ ३२ ॥

एवमुक्त्वा गणेशानो ब्राह्मणस्य स्वरूपधृक् ।
बहिर्निःसृत्य लोकान् स ययाचेऽन्नं क्षुधातुरः ॥ ३३ ॥

लोकाः सर्वे समूचुस्तं सर्वेषां गृहगं मुने ।
राज्ञा समाहृतं चान्नं त्वया सर्वं प्रभक्षितम् ॥ ३४ ॥

नास्मद्गेहेऽधुना किञ्चिदन्नं त्वं गच्छ वाडव ।
सर्वभक्षः कुतो यातः कोऽसि न ज्ञायते जनैः ॥ ३५ ॥

श्रुत्वा सोऽपि हसन् विप्रो बभ्राम यत्र तत्र तु ।
पुरप्रान्ते गतो दैवाद् ददर्शद् वाडवालयम् ॥ ३६ ॥

त्रिशिरा मुनिवर्यश्चायाचिता वृत्तिधारकः ।
गाणपत्याग्रणीः पत्न्या स विरोचनया युतः ॥ ३७ ॥

तं ददर्श गणेशानः प्रविवेश तदाश्रमम् ।
सर्वापकारसंयुक्तं धातुधान्यादिवर्जितम् ॥ ३८ ॥

ययाचे तं महाभागमन्नं तृप्तिकरं मुने ।
दीयतां मे क्षुधार्ताय गाणपत्यस्वरूपधृक् ॥ ३९ ॥

जगाद त्रिशिरास्तत्र ब्राह्मणं वाक्यमुत्तमम् ।
मद्गृहे नैव विप्रेन्द्र धान्यं किञ्चित् प्रवर्तते ॥ ४० ॥

दरिद्राणां महाराजोऽहमेको नात्र संशयः ।
मत्समो मानवो युक्तो दारिद्र्येण न तिष्ठति ॥ ४१ ॥

दूर्वाङ्कुराः समानीता गणेशपूजनाय च ।
तेष्वेको विद्यते विप्र नान्यत् किञ्चिद् विचारय ॥ ४२ ॥

तस्य तद् वचनं श्रुत्वा जगाद क्षुधितो द्विजः ।
भक्त्या देहि महाभाग दूर्वाङ्कुरं क्षुधापहम् ॥ ४३ ॥

ततो विरोचना विप्रं ददौ नत्वा गजाननम् ।
ध्यात्वा दूर्वाङ्कुरं तस्मै नानान्नं कल्प्य तत्र सा ॥ ४४ ॥

भक्त्या दत्तं तया विप्रो बभक्ष प्रीतिसंयुतः ।
तेन दूर्वाङ्कुरेणैव सन्तृप्तोऽभून् महामते ॥ ४५ ॥

भक्त्या तुष्टो ददौ विप्रं दर्शनं गणनायकः ।
गजवक्त्रादिचिह्नैश्च युतं रूपं परात्परम् ॥ ४६ ॥

दृष्ट्वा लम्बोदरं तौ तु प्रणेमतुः पुनः पुनः ।
तं साश्रुनयनौ पूज्य तुष्टुवतुः कृताञ्जली ॥ ४७ ॥

विरोचनात्रिशिरसावूचतुः ।
गणेशाय नमस्तुभ्यं नमः सर्वप्रियङ्कर ।
ब्रह्मणे ब्रह्मनाथाय विघ्नेशाय नमो नमः ॥ ४८ ॥

हेरम्बाय परेशाय मूषकध्वजिने नमः ।
आत्मनेऽनात्मने तुभ्यं नमो लम्बोदराय वै ॥ ४९ ॥

अनामय ह्यनाधार सर्वाधार सुमूर्तये ।
वक्रतुण्डाय सर्वेषां नमः पूज्याय ते नमः ॥ ५० ॥

[[६५]]

आदिमध्यान्तहीनाय तदाकाराय ढुण्ढये ।
ज्येष्ठराजाय सर्वेषां मात्रे पित्रे नमो नमः ॥ ५१ ॥

सर्वादिशूर्पकर्णाय पूर्णाय धरणीधर ।
शेषनाभिविभूषाय नमश्चिन्तामणे नमः ॥ ५२ ॥

सिद्धिबुद्धिप्रदात्रे ते स्वानन्दे वासकारिणे ।
भक्तेभ्यः शान्तिदात्रे वै शान्तिस्थाय नमो नमः ॥ ५३ ॥

सिद्धिबुद्धिवरायैव नमो मूषकवाहन ।
गजाननाय ज्येष्ठेभ्यः पदज्येष्ठप्रदायिने ॥ ५४ ॥

धन्यौ माता पिता नाथ कुलशीलादिकं च मे ।
येन दृष्टो गणाधीशो वेदान्तागोचरो विभुः ॥ ५५ ॥

वेदा विदुर्नो न च योगिनोऽयं ब्रह्मादयो वेदविदः शिवादयः ।
शान्त्या प्रलभ्यं गणनाथमेवं पश्यावहे चित्रमिदं न संशयः ॥ ५६ ॥

परात्परस्त्वं परमप्रमेयः कथं महात्मन् सदने गतो मम ।
न मत्समो ह्यण्डकटाहमध्ये गणेश ते पादसमीपगादहो ॥ ५७ ॥

एवं संस्तुवतस्तस्य सस्त्रीकस्य महामुने ।
अत्यन्तभक्तिमाहात्म्यात् कण्ठरोधः समाभवत् ॥ ५८ ॥

ननर्त परमानन्दयुक्तस्तत्र प्रजापते ।
सरोमाञ्चो न सस्मार यथा भ्रान्तश्च साश्रुकः ॥ ५९ ॥

ततस्तं गणनाथो वै जगाद वचनं हितम् ।
स्वयं साश्रुः सरोमाञ्चो भक्तिं दृष्ट्वा महामुने ॥ ६० ॥

श्रीगणेश उवाच ।

भवत्कृतमिदं स्तोत्रं मम प्रीतिकरं बहु ।
भविष्यति जनानां वै मुने मद्भक्तिवर्धनम् ॥ ६१ ॥

यः पठिष्यति यो मर्त्यः श्रोष्यते सर्वमालभेत् ।
भुक्तिं मुक्तिं ब्रह्मभूयं सर्वदा मत्प्रियो भवेत् ॥ ६२ ॥

वरान् वृणु महायोगिंस्त्रिशिरो मनसीप्सितान् ।
सर्वं दास्यामि भक्त्या ते तोषितोऽहं न संशयः ॥ ६३ ॥

गणेशवचनं श्रुत्वा सस्त्रीकस्त्रिशिराः पुनः ।
उवाच तं प्रणम्यादौ भक्त्या नम्रो महामुनिः ॥ ६४ ॥

त्रिशिरा उवाच ।

मां मोहयसि किं नाथ न वृणोमि गजानन ।
सर्वं भ्रान्तिप्रदं मत्वा भक्तिं याचे त्वयि स्थिराम् ॥ ६५ ॥

श्रुत्वा जगाद तं विघ्नराजोऽसौ विस्मितोऽभवत् ।
अहो यः सुदृढां भक्तिमेकां वृणोति वाडवः ॥ ६६ ॥

श्रीगणेश उवाच ।

पूर्णां भक्तिं महायोगिन् लभसे नात्र संशयः ।
मदीयां ते वशे नित्यं भविष्यामि तया किल ॥ ६७ ॥

एवमुक्त्वाऽन्तर्दधेऽसौ गणेशो ब्रह्मनायकः ।
सस्त्रीकस्त्रिशिरास्तत्र खेदयुक्तो बभूव ह ॥ ६८ ॥

गणेशकृपया तत्र गृहं तस्य महामुनेः ।
शुशुभे रत्नसंयुक्तं सुवर्णभित्तिराजितम् ॥ ६९ ॥

द्वारि नाना जनास्तत्र सुवर्णयष्टिधारकाः ।
स्थितास्तथा स्त्रियो दासाः सेवां कर्तुं सुलालसाः ॥ ७० ॥

नानासम्पत्तिसंयुक्तं दृष्ट्वाऽसौ विस्मितोऽभवत् ।
तावद्दासाश्च तं गृह्य सेवां चक्रुः सुभाविकाः ॥ ७१ ॥

तद् दृष्ट्वा परमाश्चर्यं मुनिः पत्नीं समब्रवीत् ।
माया भक्तिप्रणाशार्थं दत्ता विघ्नेश्वरेण च ॥ ७२ ॥

अतो यत्नसमायुक्ता भुङ्क्ष्व भोगान् महासति ।
एवं मदविहीनौ तौ परं बुभुजतुः सुखम् ॥ ७३ ॥

[[६६]]

दानमार्गेण स ददौ द्रव्यं नानाविधं विधे ।
तथापि तादृशं तत्र रेजे सोऽपि सुविस्मितः ॥ ७४ ॥

एतत्ते कथितं किञ्चित् दूर्वामाहात्म्यमुत्कटम् ।
गणेशतोषकं पूर्णं सर्वसिद्धिप्रदायकम् ॥ ७५ ॥

गणेशरोमकूपेषु ब्रह्माण्डानि ह्यनेकशः ।
ब्रह्म नानाविधं देहे स्थितं तस्य प्रजापते ॥ ७६ ॥

तत्सर्वं तृप्तिमायाति तृप्ते विघ्नेश्वरे परे ।
फलं तस्य च लोके को वर्णयेद्वद मानद ॥ ७७ ॥

त्रैलोक्यादिकमेतस्मान्न तुल्यं दूर्वया भवेत् ।
अपारपुण्यदा प्रोक्ता गणेशे तोषकारिणी ॥ ७८ ॥

दूर्वाया महिमा दक्ष कथितो ब्रह्मदायकः ।
भुक्तिमुक्तिप्रदः पूर्णः पठते शृण्वते भवेत् ॥ ७९ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेपञ्चमे खण्डे लम्बोदरचरिते त्रिशिरसश्चरितवर्णनं नाम एकोनत्रिंशत्तमोऽध्यायः ॥