॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
अत्र ते वर्णयिष्येहमितिहासं पुरातनम् ।
दूर्वाया महिमा यत्र ज्ञायते मानवैः परः ॥ १ ॥
दण्डकारण्यदेशस्थो बभूवान्त्यजजः पुमान् ।
पिशुनो नाम दुर्बुद्धिः पापकर्मपरायणः ॥ २ ॥
चौरकर्मा वने गत्वा जनान् जघान दारुणः ।
क्वचित् परस्त्रियं दृष्ट्वैकाकिनीमयभत् खलः ॥ ३ ॥
शिश्नोदरपरो भूत्वा विचचार वनान्तरे ।
ग्रामे च नगरे वाऽपि शस्त्रधारी दुरात्मवान् ॥ ४ ॥
ब्रह्महत्यादिकं पापमपारं स चकार ह ।
न वक्तुं शक्यते दक्ष मया तस्य चरित्रकम् ॥ ५ ॥
एकदा वनसंस्थोऽयं द्विजं दृष्ट्वा महाखलः ।
कोटरात् स विनिःस्मृत्याधावच्छस्त्रधरः स्वयम् ॥ ६ ॥
तमागतं समालोक्य कालं दण्डधरं यथा ।
पपाल स द्विजस्तस्मात् हाहाकारकरो भृशम् ॥ ७ ॥
द्विजशब्दं समाकर्ण्य क्षत्रिया आगता वनात् ।
दैवयोगेन पञ्चैव समीपे मार्गयायिनः ॥ ८ ॥
तैः शस्त्रैः स हतः पापी ममार च पपात ह ।
ब्राह्मणो हर्षसंयुक्तः स्वाश्रमं चागतोऽभवत् ॥ ९ ॥
ततो यामाः प्रगृह्यैव पिशुनं तं महाखलम् ।
रौरवे ते विनिक्षिप्य नरके पाचयंस्तदा ॥ १० ॥
पञ्चमे दिवसे प्राप्ते तत्राश्चर्यं बभूव वै ।
नरकः शान्तरूपश्च यातनावर्जितोऽभवत् ॥ ११ ॥
तं दृष्ट्वा परमाश्चर्यं यमदूता यमं ययुः ।
वृत्तान्तं कथयामासुर्नरकस्य सुशान्तिजम् ॥ १२ ॥
तच्छ्रुत्वा विस्मितो धर्मो ध्यानसंस्थो बभूव ह ।
ज्ञात्वा तान् कथयामास स्मृत्वा लम्बोदरं प्रभुः ॥ १३ ॥
धर्मराज उवाच ।
पिशुनोऽयं महापापी चाण्डालो नाऽत्र संशयः ।
न योग्यो नरके दूता अधुना पुण्यवानभूत् ॥ १४ ॥
यत्राऽयं तु मृतस्तत्र गाणपत्यः समागतः ।
तस्य मस्तकगा दूर्वा पपात पिशुनोपरि ॥ १५ ॥
यस्य स्पर्शो भवेद् दूता अस्थिकस्य शवस्य वा ।
तस्य पापं लयं सर्वं गमिष्यति न संशयः ॥ १६ ॥
पुण्यराशिर्भवेत् सोऽपि सर्वमान्यो विशेषतः ।
अत एनं तु निष्कास्यानयन्तु मम सन्निधौ ॥ १७ ॥
यमस्य वचनं श्रुत्वा विस्मितास्ते समाययुः ।
निष्कासितुं समुद्युक्तास्तावच्चित्रं बभूव ह ॥ १८ ॥
गणेशदूतसंयुक्तं विमानं नेतुमाययौ ।
तं गृह्य गाणपत्यास्ते ययुः स्वानन्दकं पुरम् ॥ १९ ॥
पिशुनं ब्रह्मभूतं ते चक्रुर्हर्षसमन्विताः ।
पूर्वदेहस्य दूर्वायाः स्पर्शे भक्तिपरायणाः ॥ २० ॥
धर्मोऽतिविस्मितो भूत्वा तान् जगाद स्वसेवकान् ।
अहो पश्यत दूतेशा दूर्वामाहात्म्यमुत्कटम् ॥ २१ ॥
धन्योऽयं पिशुनो पापी यस्य देहे समागता ।
दूर्वा यया विशेषेण योगिनां पदगोऽभवत् ॥ २२ ॥
महिमानं तु दूर्वायाः को जानाति समग्रकम् ।
शवस्पर्शेन दूतेशा ब्रह्मभूतपदप्रदम् ॥ २३ ॥
तानुक्त्वा साश्रुनेत्रः स बभूव रविनन्दनः ।
गणेशं मन्यते नित्यं भजते भक्तिसंयुतः ॥ २४ ॥
इदं दूर्वाभवं चित्रं माहात्म्यं यः शृणोति चेत् ।
पठति तस्य विघ्नेशो वाञ्छितं ददते सदा ॥ २५ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेपञ्चमे खण्डे लम्बोदरचरिते दूर्वापत्रस्पर्शमहिमावर्णनं नामाष्टाविंशतितमोऽध्यायः ॥
[[६३]]