॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
दूर्वायाश्चरितं हर्षकारकं ब्रूहि मुद्गल ।
अहो शम्यासमं नास्ति मन्दारेण पवित्रकम् ॥ १ ॥
मुद्गल उवाच ।
पुराऽऽदौ देवदेवेशो ब्रह्मा सृष्ट्वा चराचरम् ।
तेषामन्नार्थमत्यन्तचिन्तायुक्तो बभूव ह ॥ २ ॥
ध्यात्वा गजाननं देवं संस्थितः प्रपितामहः ।
तस्य रोमभ्य एका वै देवी सन्निःसृता बभौ ॥ ३ ॥
सर्वतः पाणिपादां तां सहस्रवदनां पराम् ।
सहस्रावयवैः सर्वैः शोभमानां ददर्श सः ॥ ४ ॥
ततोऽतिहर्षितो ब्रह्मा बभूवे सर्वधारकः ।
ज्ञात्वा तामन्नरूपां वै सर्वपोषणकारिणीम् ॥ ५ ॥
धातारं तं प्रणम्याऽसौ संस्थिता करसम्पुटा ।
आज्ञां कुरु जगद्धातः किं करोमि पितामह ॥ ६ ॥
ब्रह्मोवाच ।
सर्वेषामन्नभूता त्वं दूर्वानाम्नी भविष्यसि ।
तपस्व च ततः सर्वमन्नं सृज विधानतः ॥ ७ ॥
तथेति तं प्रणम्यैव तताप तप उत्तमम् ।
गणेशं मनसि ध्यात्वा निराहारसमन्विता ॥ ८ ॥
एकाक्षरस्य मन्त्रस्य जपेन द्विरदाननः ।
दिव्यवर्षसहस्रेण ययौ तां वरदायकः ॥ ९ ॥
तं दृष्ट्वा सहसोत्थाय प्रणनाम पुपूज सा ।
अथर्वशिरसा देवं तुष्टाव करसम्पुटा ॥ १० ॥
तामुवाच गणेशानः सृष्टिं नानाविधां सदा ।
करिष्यसि महाभागे सर्ववन्द्या भविष्यसि ॥ ११ ॥
एवमुक्त्वा गणाधीशोऽन्तर्धानं प्रजगाम ह ।
साऽपि हर्षसमायुक्ता सृष्टिं कर्तुं मनो दधे ॥ १२ ॥
तस्या मस्तकभागाद् वै स्वर्गान्नं विविधं महत् ।
निःसृतं तेन स्वर्गस्था भुञ्जते विविधान् रसान् ॥ १३ ॥
उदराद् भूमिसंस्थानां निःसृतं विविधं विधे ।
अन्नं तेनैव भूमिस्था भुञ्जते विविधान् रसान् ॥ १४ ॥
पातालवासिनां पद्भ्यामन्नं नानाविधं परम् ।
भुञ्जते षड्रसान्नित्यं निःसृतं तेन तद्गताः ॥ १५ ॥
अङ्गप्रत्यङ्गरूपेभ्यो नानान्नं ससृजे प्रभो ।
देवी तेन तु सन्तुष्टा बभूवुः सर्वजन्तवः ॥ १६ ॥
हृष्टपुष्टजनान् वीक्ष्य ब्रह्मा सन्तोषमादधे ।
तामागत्य द्विजैर्मन्त्रैरभिषेकं चकार ह ॥ १७ ॥
अन्नानामाधिपत्ये चाभिषिक्ता ब्रह्मणा पुरा ।
शुशुभे सर्वमान्या सा देवी दूर्वा विशेषतः ॥ १८ ॥
राज्यश्रीसंयुता देवी मदयुक्ता बभूव ह ।
विसस्मार जपं मन्त्रं गणेशस्य प्रजापते ॥ १९ ॥
ततो विघ्नाकुला जाता स्पर्धां चक्रे विशेषतः ।
पार्वत्या नित्यमानन्दादन्नपूर्णाहमादरात् ॥ २० ॥
जगदम्बा च सर्वेषामन्नपूर्णत्वकारणात् ।
साऽहमन्नस्वरूपस्था वृथेयं गर्वमादधे ॥ २१ ॥
तस्याश्चेष्टितमाज्ञाय क्रोधयुक्ता जगन्मयी ।
दौरात्म्यसहनं कृत्वा ह्यतिष्ठच्छिवसन्निधौ ॥ २२ ॥
एकदा चन्द्रगेहे वै बभूव ह महोत्सवः ।
तत्र देवादिकाः सर्वे सस्त्रीकाश्च समाययुः ॥ २३ ॥
तत्र दूर्वा मदोत्सिक्ता निनिन्द जगदम्बिकाम् ।
वृथेयं जगदम्बा वै नाम्ना ख्याता बभूव ह ॥ २४ ॥
इत्यादिविविधैर्वाक्यैर्निनिन्द जगदम्बिकाम् ।
ततः क्रोधसमायुक्ता पार्वती तां शशाप ह ॥ २५ ॥
पार्वत्युवाच ।
मदीयरोमकूपस्था निःसृता त्वं न संशयः ।
वृथा मां स्पर्धसे दुष्टे पतस्व तृणरूपिणी ॥ २६ ॥
पृथिव्यां तृणरूपा च सा बभूव प्रजापते ।
तदादि सर्ववन्द्येयं दूर्वा परमपावनी ॥ २७ ॥
ततोऽतिदुःखसंयुक्ता सस्मार द्विरदाननम् ।
भो क्षमस्वापराधं मे मन्त्रत्यागकृतं प्रभो ॥ २८ ॥
गत्वा वनान्तरे दूर्वा तताप तप उत्तमम् ।
ध्यात्वा विघ्नेश्वरं देवं मन्त्रजपपरायणा ॥ २९ ॥
गते वर्षशते पूर्णे प्रसन्नोऽभूद् गजाननः ।
तामाययौ वरं दातुं भक्तिस्थां भजनप्रियः ॥ ३० ॥
आगतं गणराजं सा दृष्टा ननाम भावतः ।
संहृष्टा पूज्य तुष्टाव कृत्वा करपुटं विधे ॥ ३१ ॥
दूर्वोवाच ।
गणेशाय नमस्तुभ्यं विघ्नराजाय ते नमः ।
भक्तानां विघ्नसंहर्त्रे त्वभक्तानां भयङ्कर ॥ ३२ ॥
अनन्तायाप्रमेयाय नानालीलाधराय च ।
हेरम्बाय महेशानां नमः पूज्याय ते नमः ॥ ३३ ॥
सर्वपूज्याय सर्वादिपूज्याय ब्रह्मरूपिणे ।
ब्रह्माकाराय सर्वेश ब्रह्मणस्पतये नमः ॥ ३४ ॥
अनाकाराय साकारमूर्तये ब्रह्मरूपिणे ।
शान्तिभ्यः शान्तिदात्रे ते परेशाय नमो नमः ॥ ३५ ॥
लम्बोदराय चौरेशवाहनाय परात्मने ।
चतुर्भुजाय सर्वेषां मात्रे पित्रे नमो नमः ॥ ३६ ॥
ज्येष्ठेभ्यो ज्येष्ठराजाय ज्येष्ठपदप्रदायिने ।
महोदराय पूर्णाय पूर्णानन्दाय ते नमः ॥ ३७ ॥
स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिमयाय च ।
सिद्धिबुद्धिपते नाथ भक्तेशाय नमो नमः ॥ ३८ ॥
किं स्तौमि त्वां गणाधीश यत्र वेदा विसिस्मिरे ।
अतस्त्वां प्रणमाम्येव तेन तुष्टो भव प्रभो ॥ ३९ ॥
एवं स्तुत्वा गणेशानं भक्तियुक्ता ननर्त ह ।
जगाद गणराजस्तु दूर्वां तां हर्षसंयुतः ॥ ४० ॥
श्रीगणेश उवाच ।
त्वया कृतमिदं स्तोत्रमपराधसहं भवेत् ।
मां स्तौति तस्य दूर्वेऽहमपराधं सहाम्यहम् ॥ ४१ ॥
यं यं चिन्तयते कामं तं तं दास्यामि सर्वदा ।
भुक्तिमुक्तिप्रदं स्तोत्रं भविष्यति सुसिद्धिदम् ॥ ४२ ॥
वरं वरय दास्यामि चित्तस्थं भक्तितोषितः ।
क्रोधयुक्तोऽपि देवि त्वां मन्त्रत्यागकरीं पुनः ॥ ४३ ॥
श्रुत्वा तं भयसंयुक्ता जगाद वाक्यमुत्तमम् ।
दूर्वा लम्बोदरं प्रीत्या साश्रुनेत्रा प्रजापते ॥ ४४ ॥
दूर्वोवाच ।
वरदोसि यदा नाथ तदा ते भक्तिमुत्तमाम् ।
दृढां देहि गणाध्यक्ष तया सर्वं शुभं भवेत् ॥ ४५ ॥
अन्यच्च मदसंयुक्तां जगदम्बां गजानन ।
स्पर्धेहं तत्कलांशा वै तया शप्ताऽतिदारुणम् ॥ ४६ ॥
तृणरूपा भविष्यामि पतिष्यामि धरातले ।
तदर्थं त्वामनुप्राप्ता रक्ष मां महतो भयात् ॥ ४७ ॥
श्रीगजानन उवाच ।
मा कुरुष्व वृथा चिन्तां दूर्वे मे शरणागते ।
सर्वं शुभं करिष्यामि भविष्यामि नियन्त्रितः ॥ ४८ ॥
अंशेन तृणरूपा त्वं भविष्यसि महीतले ।
देवी देहधरा स्वर्गे चरिष्यसि यथा पुरा ॥ ४९ ॥
पृथिव्यां तृणरूपा त्वममृतरूपधारिका ।
शतमूला प्रकाण्डाद् वै प्ररोहा च शताङ्कुरा ॥ ५० ॥
सर्वमान्या सर्वपूज्या देवादीनां सदा प्रिया ।
भविष्यसि न सन्देहो मद्वरादन्ननायिके ॥ ५१ ॥
[[२७]]
महामङ्गलदा प्रोक्ता मम प्रीतिविवर्धिनी ।
भविष्यसि तु लोकानां शुभमङ्गलदायिका ॥ ५२ ॥
त्वत्पत्रेण नरा भूमावर्चयिष्यन्ति देवपान् ।
न त्वत्समं तु पत्रेषु पुण्यदं प्रभविष्यति ॥ ५३ ॥
शक्तेश्चैवावतारा ये लक्ष्मीललितिकादयः ।
तासां प्रिया विशेषेण भविष्यसि महाशुभे ॥ ५४ ॥
शापिता गिरिपुत्र्या त्वं सा त्वां नैव स्पृशेत् कदा ।
अन्यत्र मान्यभावेन भविष्यसि न संशयः ॥ ५५ ॥
मदीया भक्तिरत्यन्तं दृढा ते प्रभविष्यति ।
मच्चित्ता मद्गतप्राणा भविष्यसि च दूर्विके ॥ ५६ ॥
मदीयामिच्छसि भक्तिमतस्तेऽहं सुहर्षितः ।
करिष्यामि सदा देवि मम प्रीतिविवर्धिनीम् ॥ ५७ ॥
दूर्वापत्रं विना देवि पूजयिष्यन्ति मां नराः ।
तेषां नैव फलं तस्याः पूजायाः प्रभविष्यति ॥ ५८ ॥
दूर्वासमं न मे किञ्चित् पूजायां सुप्रियं भवेत् ।
विना दूर्वां निराहारी भविष्यामि निरन्तरम् ॥ ५९ ॥
त्यक्त्वा दूर्वादलं ये वै पूजयिष्यन्ति मानवाः ।
शत्रवस्ते मता नित्यं नरकेषु पचन्तु ते ॥ ६० ॥
येनार्पितं च पूजायां दूर्वापत्रं महामते ।
तेनापारमयं सर्वं दत्तं मह्यं विशेषतः ॥ ६१ ॥
दूर्वापत्रेण सन्तुष्टो दास्यामि सकलं च मे ।
ऐश्वर्यं तदपि प्राज्ञे न समं दूर्वया भवेत् ॥ ६२ ॥
ये मद्भक्ताश्च तैर्नित्यं कर्तव्यं दूर्वया युतम् ।
पूजनं मे सदा देवि जितोऽहं नात्र संशयः ॥ ६३ ॥
एवमुक्त्वा गणेशानोऽन्तर्दधे च प्रजापते ।
दूर्वा हर्षसमायुक्ता विघ्नेशं भजते परम् ॥ ६४ ॥
यथा लम्बोदरेणैव कथितं तादृशं नराः ।
देवेशाद्यास्ततश्चक्रुः पार्वती सा विशेषतः ॥ ६५ ॥
सर्वमङ्गलरूपा सा बभूवे पापनाशिनी ।
गणेशवरदानेन गाणपत्या तथाऽभवत् ॥ ६६ ॥
एतत्ते कथितं सर्वं दूर्वामाहात्म्यमुत्तमम् ।
शृण्वते पठते तस्मै भुक्तिमुक्तिप्रदं भवेत् ॥ ६७ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेपञ्चमे खण्डे लम्बोदरचरिते दूर्वोत्पत्तिकथनं नाम सप्तविंशतितमोऽध्यायः ॥