२६ शमी-मन्दार-स्पर्श-महिमा

श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

विश्वास-प्रस्तुतिः

ततो धौम्यं समागम्य
शौनको हर्ष-संयुतः।
कथयाम् आस वृत्तान्तं
सोऽपि संहर्षितोऽभवत् ॥१॥

मूलम्

ततो धौम्यं समागम्य शौनको हर्षसंयुतः।
कथयामास वृत्तान्तं सोऽपि संहर्षितो ऽभवत् ॥१॥

विश्वास-प्रस्तुतिः

धन्यो मे वृक्षगः पुत्रः
सर्वसिद्धिप्रदायकः ।
साक्षाद् गणेश-रूपश् च
सर्वेषां वन्द्य आदरात् ॥२॥

मूलम्

धन्यो मे वृक्षगः पुत्रः सर्वसिद्धिप्रदायकः ।
साक्षाद्गणेशरूपश्च सर्वेषां वन्द्य आदरात् ॥२॥

विश्वास-प्रस्तुतिः

शमी-समीप-गो हर्ष-
संयुक्तस् तत और्वकः
तताप तप उग्रं स
शमी-संयोग-कारणात् ॥३॥

मूलम्

शमीसमीपगो हर्षसंयुक्तस्तत और्वकः।
तताप तप उग्रं स शमीसंयोगकारणात् ॥३॥

विश्वास-प्रस्तुतिः

स एव मरणे तत्र
शमी-गर्भ-स्थितो ह्य् अभूत्।
अग्निर् और्वाभिधानश् च
गाणपत्यो महायशाः॥४॥

मूलम्

स एव मरणे तत्र शमीगर्भस्थितो ह्यभूत्।
अग्निरौर्वाभिधानश्च गाणपत्यो महायशाः॥४॥

विश्वास-प्रस्तुतिः

कल्पान्ते गणनाथं
ययौ योग-समन्वितः।

शौनकश् च तथा दुण्ढिम्
अभजत् स्नेह-संयुतः॥५॥

मूलम्

कल्पान्ते गणनाथं स ययौ योगसमन्वितः।
शौनकश्च तथा ढुण्ढिमभजत् स्नेहसंयुतः॥५॥

विश्वास-प्रस्तुतिः

मन्दार-मूल-जां मूर्तिं
कृत्वा पूजा-परायणः ।
शमी-मन्दार-दूर्वाभिस्
तोषयाम् आस विघ्नपम् ॥६॥

मूलम्

मन्दारमूलजां मूर्तिं कृत्वा पूजापरायणः ।
शमीमन्दारदूर्वाभिस्तोषयामास विघ्नपम् ॥६॥

विश्वास-प्रस्तुतिः

शमी-मन्दार-मालाभिः
शुशुभे ब्राह्मणोत्तमः ।
गाणपत्य-स्वरूपेण
तथा धौम्यो बभूव ह ॥७॥

मूलम्

शमीमन्दारमालाभिः शुशुभे ब्राह्मणोत्तमः ।
गाणपत्यस्वरूपेण तथा धौम्यो बभूव ह ॥७॥

विश्वास-प्रस्तुतिः

भ्रूशुण्डी तद्-भवं वृत्तं
श्रुत्वा हर्ष-समन्वितः।
आगत्य स्वाश्रमे संस्थौ
ननाम वृक्ष-सत्तमौ ॥८॥

मूलम्

भ्रूशुण्डी तद्भवं वृत्तं श्रुत्वा हर्षसमन्वितः।
आगत्य स्वाश्रमे संस्थौ ननाम वृक्षसत्तमौ ॥८॥

विश्वास-प्रस्तुतिः

नित्यं पुपूज च शमीं
मन्दारं भक्ति-संयुतः ।
शमी-मन्दार-दूर्वाभिः
पूजयाम् आस विघ्नपम् ॥९॥

मूलम्

नित्यं पुपूज च शमीं मन्दारं भक्तिसंयुतः।
शमीमन्दारदूर्वाभिः पूजयामास विघ्नपम् ॥९॥

विश्वास-प्रस्तुतिः

शमी-मन्दार-मालाभिर्
भूषितो मुनि-सत्तमः ।
शुशुभे गाणपत्येषु
गण-राज इवापरः॥१०॥

मूलम्

शमीमन्दारमालाभिर्भूषितो मुनिसत्तमः ।
शुशुभे गाणपत्येषु गणराज इवापरः ॥१०॥

विश्वास-प्रस्तुतिः

एवं ये ये स्थिता दक्ष
गाणपत्या विशेषतः ।
ते ते सर्वे शमी-मन्दा-
र-पूजा-संयुता बभुः
॥११॥+++(यतिभङ्गः)+++

मूलम्

एवं ये ये स्थिता दक्ष गाणपत्या विशेषतः ।
ते ते सर्वे शमीमन्दारपूजासंयुता बभुः ॥११॥

विश्वास-प्रस्तुतिः

एतत् ते कथितं सर्वं
शमी-मन्दार-सम्भवम् ।
माहात्म्यं पुनर् अन्यत् त्वं
शृणु पापहरं परम् ॥१२॥

मूलम्

एतत्ते कथितं सर्वं शमीमन्दारसम्भवम् ।
माहात्म्यं पुनरन्यत्त्वं शृणु पापहरं परम् ॥१२॥

विश्वास-प्रस्तुतिः

द्राविडे शूद्र-योनि-स्थो
बभूवे पाप-कारकः ।
वनं गत्वा जनान् हत्वा
द्रव्य-लोभी दुरात्मवान् ॥१३॥

मूलम्

द्राविडे शूद्रयोनिस्थो बभूवे पापकारकः ।
वनं गत्वा जनान् हत्वा द्रव्यलोभी दुरात्मवान् ॥१३॥

विश्वास-प्रस्तुतिः

एकदा वन-मध्य-स्थो
ऽभवत् व्याघ्रेण धर्षितः।
पपात भय-भीतश् च
सद्यस् तेन प्रभक्षितः॥१४॥

मूलम्

एकदा वनमध्यस्थोऽभवत् व्याघ्रेण धर्षितः।
पपात भयभीतश्च सद्यस्तेन प्रभक्षितः॥१४॥

विश्वास-प्रस्तुतिः

तत्र वायुबलेनैव शमीपत्रं समाययौ ।
तस्य स्पर्शोऽभवत्तस्य दैवयोगात् प्रजापते ॥१५॥

[[५७]]

विश्वास-प्रस्तुतिः

तं नेतुं यमदूताश्च समाजग्मुर्महाबलाः ।
गाणेशास्तत्र संयाताः समकाले नराधमम् ॥ १६ ॥

यमदूतांस्तिरस्कृत्य गाणेशास्तं प्रगृह्य वै ।
गन्तुं समुद्यता यावत्तावत्ते तान् प्रदुद्रुवुः ॥ १७ ॥

मुसलेन हताः पेतुर्यमदूता महीतले ।
गाणेशास्तं प्रगृह्यैव ब्रह्मभूतं प्रचक्रिरे ॥ १८ ॥

यमदूता यमं गत्वा शोकदुःखसमन्विताः ।
वृत्तान्तं कथयामासुः क्रोधेन परिपूरिताः ॥ १९ ॥

यामा ऊचुः ।

विश्वास-प्रस्तुतिः

स्वामिन् शास्त्रकराः केचिद्बभूवुर्भूमिमण्डले ।
त्वदाज्ञावशगं सर्वं वर्तते कुत्र तद् गतम् ॥ २० ॥

त्वं साक्षाद्धर्मराजश्च यथा वेदार्थवान् प्रभुः ।
वर्तसे तेन सर्वं वै त्वदाज्ञावशगं मतम् ॥ २१ ॥

शम्भुविष्णुमुखा देवा धर्माधारा भवन्ति वै ।
धर्मयुक्तस्वभावेन वर्तेरन्नात्र संशयः ॥ २२ ॥

महापापी विशालाक्षो नाम शूद्रो ममार ह ।
तं गृहीतुं वयं तत्र गताः पाशधराः प्रभो ॥ २३ ॥

अकस्मात्तत्र संयाता पुरुषाः परमाद्भुताः ।
शुण्डादण्डधराः सर्वे चतुर्बाहुविराजिताः ॥ २४ ॥

अस्मांस्ते तु तिरस्कृत्य तं शूद्रं गृह्य सूर्यज ।
गन्तुं समुद्यता यावत्तावद्योद्धुं वयं स्थिताः ॥ २५ ॥

निपात्य नो महावीर्या मुसलेन प्रगृह्य तम् ।
गताः कुत्र न जानीमोऽधुना सर्वे महामते ॥ २६ ॥

अतस्तं यत्नसंयुक्तो मदं तेषां हरस्व च ।
एवमुक्त्वा प्रणम्यैनं स्थिताः प्राञ्जलयोऽभवन् ॥ २७ ॥

मूलम्

अतस्तं यत्नसंयुक्तो मदं तेषां हरस्व च ।
एवमुक्त्वा प्रणम्यैनं स्थिताः प्राञ्जलयोऽभवन् ॥ २७ ॥

मुद्गल उवाच ।

विश्वास-प्रस्तुतिः

तेषां तद्वचनं श्रुत्वा ध्यानस्थोऽभून् महामतिः ।
यमः सर्वं विदित्वा तु भयं दध्रे महायशाः ॥ २८ ॥

ध्यात्वा गजाननं देवं हृष्टरोमा च साश्रुकः ।
हृदि प्रणम्य विघ्नेशमुवाच भयसङ्कुलः ॥ २९ ॥

मदीयकिङ्करैः स्वामिन्नपराधः कृतो महान् ।
तं क्षमस्व दयासिन्धो प्रभो ह्यज्ञानसंयुतैः ॥ ३० ॥

गाणपत्यैर्महाभागैर्विवादो नैव शोभनः ।
स एव तु मया प्राप्तो भाग्यहीनबलेन च ॥ ३१ ॥

एवं क्षमाप्य विघ्नेशं स्थितं मनसि किङ्करान् ।
आकार्य भानुजः सर्वान् जगाद वचनं हितम् ॥ ३२ ॥

यम उवाच ।

विश्वास-प्रस्तुतिः

मन्दारमालाशमिकाष्ठजा च यस्यैव देहे भवति प्रमाणम् ।
पुष्पं तयोः पत्रयुतं च शूराः सन्त्यज्य दूरं चरत प्रभीताः ॥ ३३ ॥

दूर्वायुतं विघ्नहरस्य गाथां सङ्गायमानं यदि पापयुक्तम् ।
पूजादिकारं गणनायकस्य सन्त्यज्य दूरं चरत प्रभीताः ॥ ३४ ॥

गणेश हेरम्ब गजाननेति महोदर स्वानुभवप्रकाशिन् ।
वरिष्ठ सिद्धिप्रिय बुद्धिनाथ वदन्तमेवं त्यजत प्रभीताः ॥ ३५ ॥

अनेकविघ्नान्तक वक्रतुण्ड स्वसञ्ज्ञवासिंश्च चतुर्भुजेति ।
कवीश देवान्तकनाशकारिन् वदन्तमेवं त्यजत प्रभीताः ॥ ३६ ॥

महेशसूनो गजदैत्यशत्रो वरेण्यसूनो विकट त्रिनेत्र ।
परेश धरणीधर एकदन्त वदन्तमेवं त्यजत प्रभीताः ॥ ३७ ॥

प्रमोदमोदेति नरान्तकारे षडूर्मिहन्तर्गजकर्ण ढुण्ढे ।
द्वन्द्वारिसिन्धौ स्थिरभावकारिन् वदन्तमेवं त्यजत प्रभीताः ॥ ३८ ॥

[[५८]]

विश्वास-प्रस्तुतिः

विनायक ज्ञानविघातशत्रो पराशरस्यात्मज विष्णुपुत्र ।
अनादिपूज्याखुग सर्वपूज्य वदन्तमेवं त्यजत प्रभीताः ॥ ३९ ॥

विधेर्ज लम्बोदर धूम्रवर्ण मयूरपालेति मयूरवाहिन् ।
सुरासुरैः सेवितपादपद्म वदन्तमेवं त्यजत प्रभीताः ॥ ४० ॥

वरिन् महाखुध्वज शूर्पकर्ण शिवाज सिंहस्थ अनन्तवाह ।
दितौज विघ्नेश्वर शेषनाभे वदन्तमेवं त्यजत प्रभीताः ॥ ४१ ॥

अणोरणीयन् महतो महीयन् रवेर्ज योगेश वरिष्ठराज ।
निधीश मन्त्रेश च शेषपुत्र वदन्तमेवं त्यजत प्रभीताः ॥ ४२ ॥

वरप्रदातर्ह्यदितेश्च सूनो पराशरज्ञानद तारवक्त्र ।
गुहाग्रज ब्रह्मप पार्श्वपुत्र वदन्तमेवं त्यजत प्रभीताः ॥ ४३ ॥

सिन्धोश्च शत्रो परशुप्रपाणे शमीश पुष्पप्रिय विघ्नहारिन् ।
दूर्वाभरैरर्चित देवदेव वदन्तमेवं त्यजत प्रभीताः ॥ ४४ ॥

धियः प्रदातश्च शमीप्रियेति सुसिद्धिदातश्च सुशान्तिदातः ।
अमेयमायामितविक्रमेमि वदन्तमेवं त्यजत प्रभीताः ॥ ४५ ॥

द्विधा चतुर्थीप्रिय कश्यपाज्ज धनप्रद ज्ञानप्रदप्रकाश ।
चिन्तामणे चित्तविहारकारिन् वदन्तमेवं त्यजत प्रभीताः ॥ ४६ ॥

यमस्य शत्रो अभिमानशत्रो विधेर्जहन्तः कपिलस्य सूनो ।
विदेह स्वानन्द अयोगयोग वदन्तमेवं त्यजत प्रभीताः ॥ ४७ ॥

गणस्य शत्रो कमलस्य शत्रो समस्थ भावज्ञ च भालचन्द्र ।
अनादिमध्यान्तमयप्रचारिन् वदन्तमेवं त्यजत प्रभीताः ॥ ४८ ॥

विभो जगद्रूप गुणेश भूमन् पुष्टेः पते आखुगतेति बोध ।
कर्तश्च पातश्च तु संहरेति वदन्तमेवं त्यजत प्रभीताः ॥ ४९ ॥

इदमष्टोत्तरशतं नाम्नां तत् प्रपठन्ति ये ।
शृण्वन्ति तेषु कुरुत भीता मा वै प्रवेशनम् ॥ ५० ॥

भुक्तिमुक्तिप्रदं ढुण्ढेर्धनधान्यप्रवर्धनम् ।
ब्रह्मभूयकरं स्तोत्रं जपतो नित्यमादरात् ॥ ५१ ॥

यत्र कुत्र गणेशस्य चिह्नयुक्तानि वै भटाः ।
धामानि तत्र कुरुत सम्भीता मा प्रवेशनम् ॥ ५२ ॥

तेन संस्थापिताः सर्वे स्वस्वकार्येषु सेवकाः ।
केशाद्यास्तत्र के यूयं वयं भजत तं सदा ॥ ५३ ॥

एवमुक्त्वा यमः सर्वान् किङ्करान् मौनमादधे ।
यामाः सर्वे गणेशानं भजन्ते भावसंयुताः ॥ ५४ ॥

इदं शमीभवं पुण्यं माहात्म्यं यः शृणोति चेत् ।
पठति सिद्धिदं तस्य मन्दारस्य भविष्यति ॥ ५५ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेपञ्चमे खण्डे लम्बोदरचरिते शमीमन्दारस्पर्शमहिमावर्णनं नाम षड्विंशतितमोऽध्यायः ॥

[[५९]]