खं. ५ अ. २५ [[५३]]
श्रीगणेशाय नमः ॥
दक्ष उवाच ।
विश्वास-प्रस्तुतिः
शमी-मन्दार-माहात्म्यं
वद मे करुणा-निधे ।
कथं विघ्नेश्वरस्यैव
प्रियौ तौ सम्बभूवतुः ॥१॥
मूलम्
शमीमन्दारमाहात्म्यं वद मे करुणानिधे ।
कथं विघ्नेश्वरस्यैव प्रियौ तौ सम्बभूवतुः ॥१॥
मुद्गल उवाच ।
विश्वास-प्रस्तुतिः
और्वो नामाऽभवद् विप्रः
श्रौत-स्मार्त-क्रिया-परः।
स्व-धर्म-रतया पत्न्या
ब्रह्म-निष्ठो महा-यशाः ॥२॥
मूलम्
और्वो नामाऽभवद्विप्रः श्रौतस्मार्तक्रियापरः।
स्वधर्मरतया पत्न्या ब्रह्मनिष्ठो महायशाः ॥२॥
विश्वास-प्रस्तुतिः
तयोः कालेन सञ्जाता
पुत्री तेजस्विनी प्रभो।
तस्या नाम द्विजौ तौ तु
शमीकेति प्रचक्रतुः ॥३॥
मूलम्
तयोः कालेन सञ्जाता पुत्री तेजस्विनी प्रभो।
तस्या नाम द्विजौ तौ तु शमीकेति प्रचक्रतुः ॥३॥
विश्वास-प्रस्तुतिः
सा कन्या रूप-संयुक्ता
गुण-युक्ता प्रजा-पते।
सप्त-वर्ष-वयः संस्था
बभूव जनक-प्रिया ॥४॥
मूलम्
सा कन्या रूपसंयुक्ता गुणयुक्ता प्रजापते।
सप्तवर्षवयः संस्था बभूव जनकप्रिया ॥४॥
विश्वास-प्रस्तुतिः
तद्-अर्थं ब्राह्मणः सोऽपि
वरम् इच्छन् समाययौ ।
शौनकस्याश्रमं, तत्र
ददर्श मुनि-सत्तमम् ॥५॥
मूलम्
तदर्थं ब्राह्मणः सोऽपि वरमिच्छन् समाययौ ।
शौनकस्याश्रमं तत्र ददर्श मुनिसत्तमम् ॥५॥
विश्वास-प्रस्तुतिः
पूजितः शौनकेनैव
मन्दारं शिष्यम् उत्तमम् ।
शौनकस्य ददर्शाऽसौ
विद्याढ्यं धौम्य-नन्दनम् ॥६॥
मूलम्
पूजितः शौनकेनैव मन्दारं शिष्यमुत्तमम् ।
शौनकस्य ददर्शाऽसौ विद्याढ्यं धौम्यनन्दनम् ॥६॥
विश्वास-प्रस्तुतिः
सुशीलं गुरु-सेवायां
निरतं धर्म-लालसम् ।
हर्ष-युक्तो ऽभवत् तत्र
मेने जामातरं हृदि ॥७॥
मूलम्
सुशीलं गुरुसेवायां निरतं धर्मलालसम् ।
हर्षयुक्तोऽभवत्तत्र मेने जामातरं हृदि ॥७॥
विश्वास-प्रस्तुतिः
विचार्य शौनकेनैव
स्वगृहं प्रत्यपद्यत ।
सुदिने तं समानाय्य
ददौ कन्यां महात्मने ॥८॥
मूलम्
विचार्य शौनकेनैव स्वगृहं प्रत्यपद्यत ।
सुदिने तं समानाय्य ददौ कन्यां महात्मने ॥८॥
विश्वास-प्रस्तुतिः
तेन युक्ता शमी तत्र
शुशुभे रूप-संयुता।
रत्न-काञ्चनयोर् योगस्
तथा जातः प्रजापते ॥९॥
मूलम्
तेन युक्ता शमी तत्र शुशुभे रूपसंयुता।
रत्नकाञ्चनयोर्योगस्तथा जातः प्रजापते ॥९॥
विश्वास-प्रस्तुतिः
पुनर्गते कियत् काले
यौवनस्थां विभाव्य ताम् ।
शमीकां स समानेतुं
मन्दारः प्रययौ स्वयम् ॥१०॥
मूलम्
पुनर्गते कियत्काले यौवनस्थां विभाव्य ताम् ।
शमीकां स समानेतुं मन्दारः प्रययौ स्वयम् ॥१०॥
विश्वास-प्रस्तुतिः
तं प्रपूज्य ददौ कन्याम्
और्वो हर्ष-समन्वितः।
मन्दारः श्वशुरं नत्वा
मार्ग-संस्थो बभूव ह ॥११॥
मूलम्
तं प्रपूज्य ददौ कन्यामौर्वो हर्षसमन्वितः।
मन्दारः श्वशुरं नत्वा मार्गसंस्थो बभूव ह ॥११॥
विश्वास-प्रस्तुतिः
कदा भ्रूशुण्डि-नामा यो
गाणेशश् च महा-यशाः।
विश्रान्तिम् आश्रमे तस्य
चक्रतुर् दम्पती परे ॥१२॥
मूलम्
कदा भ्रूशुण्डिनामा यो गाणेशश्च महायशाः।
विश्रान्तिमाश्रमे तस्य चक्रतुर्दम्पती परे ॥१२॥
विश्वास-प्रस्तुतिः
स्वकाश्रम-विहारार्थं
भ्रूशुण्डी सङ्गतोऽभवत् ।
तं दृष्ट्वा शुण्डया युक्तं
जहसतुश् च मूर्खवत् ॥१३॥
मूलम्
स्वकाश्रमविहारार्थं भ्रूशुण्डी सङ्गतोऽभवत् ।
तं दृष्ट्वा शुण्डया युक्तं जहसतुश्च मूर्खवत् ॥१३॥
विश्वास-प्रस्तुतिः
शुण्डाया अपमानेन
पापं प्राप्तं महाद्भुतम् ।
तेन सम्प्रेरितो योगी
चुकोप रक्तलोचनः ॥१४॥
मूलम्
शुण्डाया अपमानेन पापं प्राप्तं महाद्भुतम् ।
तेन सम्प्रेरितो योगी चुकोप रक्तलोचनः ॥१४॥
विश्वास-प्रस्तुतिः
उवाच तौ महायोगी
भ्रूशुण्डी च - द्विजाधमौ ।
दृष्ट्वा जहसथुः शुण्डां
पादपौ भवतं रुषा ॥१५॥
मूलम्
उवाच तौ महायोगी भ्रूशुण्डी च द्विजाधमौ ।
दृष्ट्वा जहसथुः शुण्डां पादपौ भवतं रुषा ॥१५॥
विश्वास-प्रस्तुतिः
शुण्डाया अपमानं यः
करिष्यति नराधमः।
स मे शत्रुर् न सन्देहो
गजास्यस्यापमानतः ॥१६॥
मूलम्
शुण्डाया अपमानं यः करिष्यति नराधमः।
स मे शत्रुर्न सन्देहो गजास्यस्यापमानतः ॥१६॥
विश्वास-प्रस्तुतिः
तौ तं भ्रूशुण्डिनं विप्रौ
प्रणेमतुः सुदुःखितौ ।
अज्ञानेन कृतं हास्यं
क्षन्तुम् अर्हसि योगिप ॥१७॥
मूलम्
तौ तं भ्रूशुण्डिनं विप्रौ प्रणेमतुः सुदुःखितौ ।
अज्ञानेन कृतं हास्यं क्षन्तुमर्हसि योगिप ॥१७॥
विश्वास-प्रस्तुतिः
उच्छापं वद विप्रेश
दासौ ते नात्र संशयः।
अत्यन्तं गण-राजस्य
प्रियौ कुरु च मानद ॥१८॥
मूलम्
उच्छापं वद विप्रेश दासौ ते नात्र संशयः।
अत्यन्तं गणराजस्य प्रियौ कुरु च मानद ॥१८॥
विश्वास-प्रस्तुतिः
ततोऽतिकरुणाविष्टो
जगाद मुनि-सत्तमः ।
शुण्डाया अपमानेन
मया शप्तौ न संशयः ॥१९॥
मूलम्
ततोऽतिकरुणाविष्टो जगाद मुनिसत्तमः ।
शुण्डाया अपमानेन मया शप्तौ न संशयः ॥१९॥
विश्वास-प्रस्तुतिः
अतः शुण्डाधरो देवः
प्रसन्नश् च भविष्यति ।
तदा सर्वं शुभं पूर्णं युवयोर्
वाञ्छितं भवेत् ॥२०॥
मूलम्
अतः शुण्डाधरो देवः प्रसन्नश्च भविष्यति ।
तदा सर्वं शुभं पूर्णं युवयोर्वाञ्छितं भवेत् ॥२०॥
विश्वास-प्रस्तुतिः
ममाधीनं न किञ्चिद् वै
शाप-दाता गजाननः।
क्रोध-हीनस्य मे क्रोधः
प्रेरितस्य समाययौ ॥२१॥
मूलम्
ममाधीनं न किञ्चिद्वै शापदाता गजाननः।
क्रोधहीनस्य मे क्रोधः प्रेरितस्य समाययौ ॥२१॥
विश्वास-प्रस्तुतिः
एवम् उक्त्वा महा-योगी
स्वासन-स्थो बभूव ह ।
तौ सद्यो वृक्ष-योनि-स्थौ
बभूवतुः प्रजापते ॥२२॥
मूलम्
एवमुक्त्वा महायोगी स्वासनस्थो बभूव ह ।
तौ सद्यो वृक्षयोनिस्थौ बभूवतुः प्रजापते ॥२२॥
विश्वास-प्रस्तुतिः
अथ मासे गते विप्रः
शौनकश् चिन्तयान्वितः ।
शिष्यान् गृह्य ययौ विप्रम्
और्वं दुःखान् महामुनिः ॥२३॥
मूलम्
अथ मासे गते विप्रः शौनकश्चिन्तयान्वितः ।
शिष्यान् गृह्य ययौ विप्रमौर्वं दुःखान् महामुनिः ॥२३॥
विश्वास-प्रस्तुतिः
तं पप्रच्छ शनैः सोऽपि
मन्दारः कुत्र वर्तते ।
शमीकाया आनयने
प्रेषितोऽयं मया सुतः ॥२४॥
मूलम्
तं पप्रच्छ शनैः सोऽपि मन्दारः कुत्र वर्तते ।
शमीकाया आनयने प्रेषितोऽयं मया सुतः ॥२४॥
विश्वास-प्रस्तुतिः
ततस् तं शोक-संयुक्तम्
और्वो जगाद विस्मितः।
दत्वा कन्यां मया सद्यः
प्रेषितश् च त्वदन्तिके ॥२५॥
मूलम्
ततस्तं शोकसंयुक्तमौर्वो जगाद विस्मितः।
दत्वा कन्यां मया सद्यः प्रेषितश्च त्वदन्तिके ॥२५॥
[[५४]]
विश्वास-प्रस्तुतिः
श्रुत्वैवं शोक-संयुक्ता
और्व-शौनक-मुख्यकाः ।
तयोः शोधन-कामास् ते
निसस्रुुस् त्वरितास् ततः ॥२६॥
मूलम्
श्रुत्वैवं शोकसंयुक्ता और्वशौनकमुख्यकाः ।
तयोः शोधनकामास्ते निसस्रुस्त्वरितास्ततः ॥२६॥
विश्वास-प्रस्तुतिः
तत्र मार्गे जनान् सर्वान्
ग्राम-स्थान् वन-संस्थितान् ।
पप्रच्छुस् ते समूचुस् तान्
मास-मात्राद् गतौ किल ॥२७॥
मूलम्
तत्र मार्गे जनान् सर्वान् ग्रामस्थान् वनसंस्थितान् ।
पप्रच्छुस्ते समूचुस्तान् मासमात्राद् गतौ किल ॥२७॥
विश्वास-प्रस्तुतिः
एवं विचार्य ते याता
भ्रूशुण्ड्याश्रमम् उत्तमम् ।
तत्र विश्रान्ति-कृत्-स्थाने
जनानां ददृशुस् तरू ॥२८॥
मूलम्
एवं विचार्य ते याता भ्रूशुण्ड्याश्रममुत्तमम् ।
तत्र विश्रान्तिकृत् स्थाने जनानां ददृशुस्तरू ॥२८॥
विश्वास-प्रस्तुतिः
अनुपेतौ ततो ज्ञात्वा
शौनको ध्यानम् आश्रितः ।
ज्ञात्वा भृशुण्डिना शप्तौ
वृत्तान्तं तान् अवेदयत् ॥२९॥
मूलम्
अनुपेतौ ततो ज्ञात्वा शौनको ध्यानमाश्रितः ।
ज्ञात्वा भ्रूशुण्डिना शप्तौ वृत्तान्तं तानवेदयत् ॥२९॥
विश्वास-प्रस्तुतिः
ततः सर्वान् महायोगी
विसृज्य तपसि स्थितौ।
शौनकौर्वौ महादुःखाद्
गणेशाराधने रतौ ॥३०॥
मूलम्
ततः सर्वान् महायोगी विसृज्य तपसि स्थितौ।
शौनकौर्वौ महादुःखाद् गणेशाराधने रतौ ॥३०॥
विश्वास-प्रस्तुतिः
अ-वायु-भक्ष-भावेन
ध्यानेन गणनायकम् ।
तोषयाम् आसतुः, प्रीत्या
तयोर् अघ-विमुक्तये ॥३॥
मूलम्
अवायुभक्षभावेन ध्यानेन गणनायकम् ।
तोषयामासतुः प्रीत्या तयोरघविमुक्तये ॥३॥
विश्वास-प्रस्तुतिः
एवं द्वादश-वर्षेषु
गतेषु द्वि-रदाननः ।
आययौ तौ वरं दातुं
भृशं तत् क्लेश-तापितः ॥३२॥
मूलम्
एवं द्वादशवर्षेषु गतेषु द्विरदाननः ।
आययौ तौ वरं दातुं भृशं तत् क्लेशतापितः ॥३२॥
विश्वास-प्रस्तुतिः
दृष्ट्वा विघ्नेश्वरं तौ तु
प्रणम्यापूज्य हर्षतः ।
गणाध्यक्षं तुष्टुवतुः
प्रणम्य करसम्पुटैः ॥३३॥
मूलम्
दृष्ट्वा विघ्नेश्वरं तौ तु प्रणम्यापूज्य हर्षतः ।
गणाध्यक्षं तुष्टुवतुः प्रणम्य करसम्पुटैः ॥३३॥
शौनकौर्वौ उचतुः ।
विश्वास-प्रस्तुतिः
नमस् ते गज-वक्त्राय
विघ्नेशाय परात्मने ।
अपाराय महेशाय
हेरम्बाय नमो नमः ॥३४॥
मूलम्
नमस्ते गजवक्त्राय विघ्नेशाय परात्मने ।
अपाराय महेशाय हेरम्बाय नमो नमः ॥३४॥
विश्वास-प्रस्तुतिः
संसारार्णव-ताराय
माया-मोह-हराय ते ।
ब्रह्मेशाय शिवादिभ्यो
योग-दाय नमो नमः ॥३५॥
मूलम्
संसारार्णवताराय मायामोहहराय ते ।
ब्रह्मेशाय शिवादिभ्यो योगदाय नमो नमः ॥३५॥
विश्वास-प्रस्तुतिः
ज्येष्ठानां ज्येष्ठ-राजाय
सर्वेषां पूज्य-मूर्तये ।
आदि-पूज्याय देवाय
चान्तःस्थाय नमो नमः ॥३६॥
मूलम्
ज्येष्ठानां ज्येष्ठराजाय सर्वेषां पूज्यमूर्तये ।
आदिपूज्याय देवाय चान्तःस्थाय नमो नमः ॥३६॥
विश्वास-प्रस्तुतिः
अनादये च सर्वेषां
मात्रे पित्रे परात्मने ।
स्वानन्द-वासिने तुभ्यं
गणेशाय नमो नमः ॥३७॥
मूलम्
अनादये च सर्वेषां मात्रे पित्रे परात्मने ।
स्वानन्दवासिने तुभ्यं गणेशाय नमो नमः ॥३७॥
विश्वास-प्रस्तुतिः
शूर्पकर्णाय शूराय
लम्बोदराय ढुण्ढये।
विघ्नकर्त्रे ह्यभक्तानां
भक्तानां विघ्नहारिणे ॥३८॥
मूलम्
शूर्पकर्णाय शूराय लम्बोदराय ढुण्ढये।
विघ्नकर्त्रे ह्यभक्तानां भक्तानां विघ्नहारिणे ॥३८॥
विश्वास-प्रस्तुतिः
ब्रह्मेशाय नमस् तुभ्यं
ब्रह्म-भूत-प्रदाय च ।
योगेशाय सुशान्ताय
शान्ति-दाय नमो नमः ॥३९॥
मूलम्
ब्रह्मेशाय नमस्तुभ्यं ब्रह्मभूतप्रदाय च ।
योगेशाय सुशान्ताय शान्तिदाय नमो नमः ॥३९॥
विश्वास-प्रस्तुतिः
गुणान्तं न ययुर् यस्य
शिव-विष्ण्व्-आदयो ऽमराः।
योगिनः स-गुणस्यापि
निर्गुणस्याऽत्र का कथा ॥४०॥+++(5)+++
मूलम्
गुणान्तं न ययुर्यस्य शिवविष्ण्वादयोऽमराः।
योगिनः सगुणस्यापि निर्गुणस्याऽत्र का कथा ॥४०॥
विश्वास-प्रस्तुतिः
नमो नमः प्रसन्नस् त्वं
भव स्वामिन् गजानन ।
धौम्य-पुत्रं च मन्दारं
शिष्यं मे तारयाऽधुना॥४१॥
मूलम्
नमो नमः प्रसन्नस्त्वं भव स्वामिन् गजानन ।
धौम्यपुत्रं च मन्दारं शिष्यं मे तारयाऽधुना॥४१॥
विश्वास-प्रस्तुतिः
तारयस्व शमीम् और्व-
कन्यां तां नाथ विघ्नप ।
वृक्ष-योनि-गतौ तौ तु
मानुषौ कुरु तादृशौ ॥४२॥
मूलम्
तारयस्व शमीमौर्वकन्यां तां नाथ विघ्नप ।
वृक्षयोनिगतौ तौ तु मानुषौ कुरु तादृशौ ॥४२॥
विश्वास-प्रस्तुतिः
भक्तिं ते देहि हेरम्ब
यया भ्रान्ति-विनश्यति ।
दासौ ते पाद-पद्मस्य
वाञ्छितं कुरु सर्वदा ॥४३॥
मूलम्
भक्तिं ते देहि हेरम्ब यया भ्रान्तिर्विनश्यति ।
दासौ ते पादपद्मस्य वाञ्छितं कुरु सर्वदा ॥४३॥
विश्वास-प्रस्तुतिः
तयोर् वचनम् आकर्ण्य
जगाद गणनायकः।
तौ भक्तौ तपसा युक्तौ
भक्तिबद्ध-स्वभावतः ॥४४॥
मूलम्
तयोर्वचनमाकर्ण्य जगाद गणनायकः।
तौ भक्तौ तपसा युक्तौ भक्तिबद्धस्वभावतः ॥४४॥
श्रीगजानन उवाच ।
विश्वास-प्रस्तुतिः
भ्रूशुण्डिना च विप्रर्षी
शप्तौ तौ दम्पती पुरा।
ज्ञात्वा मदीय-तुण्डस्य +
अपमानान् नात्र संशयः ॥४५॥
मूलम्
भ्रूशुण्डिना च विप्रर्षी शप्तौ तौ दम्पती पुरा।
ज्ञात्वा मदीयतुण्डस्यापमानान्नात्र संशयः ॥४५॥
विश्वास-प्रस्तुतिः
भ्रशुण्डिनो ऽतिभक्तस्य
मम मिथ्यावचः कदा।
न करोमि महाभागौ
देहाद् अधिक एव सः ॥४६॥+++(५)+++
मूलम्
भ्रूशुण्डिनोऽतिभक्तस्य मम मिथ्यावचः कदा।
न करोमि महाभागौ देहादधिक एव सः ॥४६॥
विश्वास-प्रस्तुतिः
भ्रशण्डिनो ऽपमानश् च
क्रियते विविधैर् जनैः।
न तत्र कोप-संयुक्तो
भवते मुनि-सत्तमः ॥४७॥
मूलम्
भ्रूशुण्डिनोऽपमानश्च क्रियते विविधैर्जनैः।
न तत्र कोपसंयुक्तो भवते मुनिसत्तमः ॥४७॥
विश्वास-प्रस्तुतिः
मदीयम् अपमानं स
सहते न कदाचन ।
अतोऽहं तस्य वाक्यं वै
न करोमि निरर्थकम् ॥४८॥+++(५)+++
मूलम्
मदीयमपमानं स सहते न कदाचन ।
अतोऽहं तस्य वाक्यं वै न करोमि निरर्थकम् ॥४८॥
विश्वास-प्रस्तुतिः
भवद्भ्यां तपसा बद्धः
करिष्यामि हितावहम् ।
शृणुतं मे वचो रम्यं
वरं दास्यामि मुख्यकम् ॥४९॥
मूलम्
भवद्भ्यां तपसा बद्धः करिष्यामि हितावहम् ।
शृणुतं मे वचो रम्यं वरं दास्यामि मुख्यकम् ॥४९॥
विश्वास-प्रस्तुतिः
मन्दारस्य च शम्याश् च
मूले स्थास्यामि निश्चलः ।
मद्रूपौ वृक्षजातीनां
सर्ववन्द्यौ भविष्यतः॥५०॥
मूलम्
मन्दारस्य च शम्याश्च मूले स्थास्यामि निश्चलः ।
मद्रूपौ वृक्षजातीनां सर्ववन्द्यौ भविष्यतः॥५०॥
[[५५]]
विश्वास-प्रस्तुतिः
देवास् तौ प्रणमस्यन्ति
किं पुनर् जन्तवो मताः।
दर्शनात् स्पर्शनाच् चैव
पापघ्नौ तौ भविष्यतः ॥५१॥
मूलम्
देवास्तौ प्रणमस्यन्ति किं पुनर्जन्तवो मताः।
दर्शनात् स्पर्शनाच्चैव पापघ्नौ तौ भविष्यतः ॥५१॥
विश्वास-प्रस्तुतिः
मत्-प्रियौ सर्व-भावेन
देवानां प्रिय-रूपिणौ।
भविष्यतो विशेषेण
वृक्षराजौ महामुनी ॥५२॥
मूलम्
मत्प्रियौ सर्वभावेन देवानां प्रियरूपिणौ।
भविष्यतो विशेषेण वृक्षराजौ महामुनी ॥५२॥
विश्वास-प्रस्तुतिः
शमी-पत्रेण मां विप्रा
पूजयिष्यन्ति मानवाः ।
तेषां वाञ्छां सदाऽहं वै
पूरयिष्यामि शाश्वतीम् ॥५३॥
मूलम्
शमीपत्रेण मां विप्रा पूजयिष्यन्ति मानवाः ।
तेषां वाञ्छां सदाऽहं वै पूरयिष्यामि शाश्वतीम् ॥५३॥
विश्वास-प्रस्तुतिः
मन्दार-पुष्पम् एकं
समर्पयिष्यति मे नरः।
तेन हृष्टो भविष्यामि
फलं दास्यामि वाञ्छितम् ॥५४॥
मूलम्
मन्दारपुष्पमेकं समर्पयिष्यति मे नरः।
तेन हृष्टो भविष्यामि फलं दास्यामि वाञ्छितम् ॥५४॥
विश्वास-प्रस्तुतिः
कृता नाना-विधा पूजा
मदीया मानवेन च ।
दूर्वाहीना वृथा सर्वा
भवत्य् अत्र न संशयः ॥५६॥
मूलम्
कृता नानाविधा पूजा मदीया मानवेन च ।
दूर्वाहीना वृथा सर्वा भवत्यत्र न संशयः ॥५६॥
विश्वास-प्रस्तुतिः
अद्य प्रभृति विप्रेशौ
शमी-पत्रेण संयुता।
मन्दार-कुसुमेनैव
सफला सा भविष्यति ॥५६॥
मूलम्
अद्य प्रभृति विप्रेशौ शमीपत्रेण संयुता।
मन्दारकुसुमेनैव सफला सा भविष्यति ॥५६॥
विश्वास-प्रस्तुतिः
शमी-पत्रं नरेणैव
भवेन् मयि समर्पितम् ।
न तु ऋतु-शतेनैव
तुल्यं, तेभ्यो ऽधिकं मतम् ॥५७॥
मूलम्
शमीपत्रं नरेणैव भवेन् मयि समर्पितम् ।
न तु ऋतुशतेनैव तुल्यं तेभ्योऽधिकं मतम् ॥५७॥
विश्वास-प्रस्तुतिः
शमी-पत्रेण सन्तुष्टो
भविष्यामि निरन्तरम्।
मन्दारपुष्पकेणैव
को वदेत् तु तयोः फलम् ॥५८॥
मूलम्
शमीपत्रेण सन्तुष्टो भविष्यामि निरन्तरम्।
मन्दारपुष्पकेणैव को वदेत्तु तयोः फलम् ॥५८॥
विश्वास-प्रस्तुतिः
नित्यं शमीं नमेद् यस् तु
पूजयेद् वा तु संस्पृशेत् ।
स सप्त-कुल-संयुक्तः
स्वानन्दं मे गमिष्यति ॥५९॥
मूलम्
नित्यं शमीं नमेद्यस्तु पूजयेद्वा तु संस्पृशेत् ।
स सप्तकुलसंयुक्तः स्वानन्दं मे गमिष्यति ॥५९॥
विश्वास-प्रस्तुतिः
तथा मन्दार-वृक्षं यो
नमेत् सम्पूजयेन् नरः।
संस्पृशेत् सोऽपि स्वानन्दं
व्रजेत् सप्त-कुलैर् युतः॥६०॥
मूलम्
तथा मन्दारवृक्षं यो नमेत् सम्पूजयेन्नरः।
संस्पृशेत् सोऽपि स्वानन्दं व्रजेत् सप्तकुलैर्युतः॥६०॥
विश्वास-प्रस्तुतिः
प्रदक्षिणां प्रकुर्वीत
शमी-मन्दार-वृक्षयोः ।
सप्त-द्वीप-वती-पृथ्व्याः
कृता तेन प्रदक्षिणा ॥६१॥
मूलम्
प्रदक्षिणां प्रकुर्वीत शमीमन्दारवृक्षयोः ।
सप्तद्वीपवती पृथ्व्याः कृता तेन प्रदक्षिणा ॥६१॥
विश्वास-प्रस्तुतिः
यदि भावेन वृक्षस्य
प्रदक्षिणा कृता भवेत् ।
शत-भूमि-प्रदाक्षिण्य-
समं पुण्यं लभेन् नरः ॥६२॥
मूलम्
यदि भावेन वृक्षस्य प्रदक्षिणा कृता भवेत् ।
शतभूमिप्रदाक्षिण्यसमं पुण्यं लभेन्नरः ॥६२॥
विश्वास-प्रस्तुतिः
बहुनाऽत्र किम् उक्तेन
मद्-रूपौ वृक्ष-जातिषु ।
तयोश् च महिमानं को
भवेद् वर्णयितुं क्षमः ॥६३॥
मूलम्
बहुनाऽत्र किमुक्तेन मद्रूपौ वृक्षजातिषु ।
तयोश्च महिमानं को भवेद्वर्णयितुं क्षमः ॥६३॥
विश्वास-प्रस्तुतिः
वृक्ष-बुद्ध्या शमीं यो वै
मन्दारं यदि पश्यति ।
स नारकी नरो विप्रौ
भविष्यति न संशयः॥६४॥
मूलम्
वृक्षबुद्ध्या शमीं यो वै मन्दारं यदि पश्यति ।
स नारकी नरो विप्रौ भविष्यति न संशयः॥६४॥
विश्वास-प्रस्तुतिः
शमीं मन्दारकं वीक्ष्य
न नमेद् यो नराधमः।
दक्षिणं कुरुते नैव
नष्ट-पुण्यो भवेत् तदा ॥६५॥
मूलम्
शमीं मन्दारकं वीक्ष्य न नमेद्यो नराधमः।
दक्षिणं कुरुते नैव नष्टपुण्यो भवेत्तदा ॥६५॥
विश्वास-प्रस्तुतिः
शमीं यश् छेदयेद् वापि
मन्दारं मुनि-सत्तमौ ।
नरकेषु महापापी
पतिष्यति न संशयः ॥६६॥
मूलम्
शमीं यश्छेदयेद्वापि मन्दारं मुनिसत्तमौ ।
नरकेषु महापापी पतिष्यति न संशयः ॥६६॥
विश्वास-प्रस्तुतिः
शाखां पत्रं तु यः पापी
छेदयिष्यति मानवः।
नारकी स भवेन् नूनं
दर्शनात् पापदो भवेत् ॥६७॥
मूलम्
शाखां पत्रं तु यः पापी छेदयिष्यति मानवः।
नारकी स भवेन्नूनं दर्शनात् पापदो भवेत् ॥६७॥
विश्वास-प्रस्तुतिः
शमीं यो निन्दयेद् वा यो
मन्दारं वृक्ष-सत्तमम् ।
सर्व-भाग्य-विहीनः स
नारकी जायते ततः ॥६८॥
मूलम्
शमीं यो निन्दयेद्वा यो मन्दारं वृक्षसत्तमम् ।
सर्वभाग्यविहीनः स नारकी जायते ततः ॥६८॥
विश्वास-प्रस्तुतिः
मद्रूपेणैव मन्दारं
शमीं यस्तु प्रपश्यति ।
स भुक्त्वा विविधान् भोगान्
अन्ते स्वानन्दगो भवेत् ॥६९॥
मूलम्
मद्रूपेणैव मन्दारं शमीं यस्तु प्रपश्यति ।
स भुक्त्वा विविधान् भोगानन्ते स्वानन्दगो भवेत् ॥६९॥
विश्वास-प्रस्तुतिः
मन्दार मूलम् आदाय
मूर्तिं कृत्वा मदीयिकाम् ।
पूजयिष्यति मद्-भक्तास्
तेषां साध्योऽहम् अञ्जसा ॥७०॥
मूलम्
मन्दारमूलमादाय मूर्तिं कृत्वा मदीयिकाम् ।
पूजयिष्यन्ति मद्भक्तास्तेषां साध्योऽहमञ्जसा ॥७०॥
विश्वास-प्रस्तुतिः
मन्दार-मूल-जा मूर्तिः
सद्यः सिद्धि-प्रदायिका।
तद्वन् नैवान्य-सम्भूता
मम मूर्तिर् भविष्यति ॥७१॥
मूलम्
मन्दारमूलजा मूर्तिः सद्यः सिद्धिप्रदायिका।
तद्वन्नैवान्यसम्भूता मम मूर्तिर्भविष्यति ॥७१॥
विश्वास-प्रस्तुतिः
मन्दार-मूर्ति-गं पूजेत्
शमी-पत्रेण भावतः ।
दूर्वा-मन्दार पुष्पैश् च
त्रयं सुदुर्लभं मतम् ॥७२॥
मूलम्
मन्दारमूर्तिगं पूजेत् शमीपत्रेण भावतः ।
दूर्वामन्दारपुष्पैश्च त्रयं सुदुर्लभं मतम् ॥७२॥
विश्वास-प्रस्तुतिः
शमी मन्दार-दूर्वाश् च
त्रयम् एकत्र कारितम् ।
भक्तेन, स तु मत्-तुल्यो
पूजायां मे भविष्यति ॥७३॥
मूलम्
शमी मन्दारदूर्वाश्च त्रयमेकत्र कारितम् ।
भक्तेन स तु मत्तुल्यो पूजायां मे भविष्यति ॥७३॥
विश्वास-प्रस्तुतिः
शमी-मन्दार-जां मालां
कृत्वा जपं समाचरेत् ।
अनन्त-फल-भोक्ताऽसौ
भविष्यति न संशयः ॥७४॥
मूलम्
शमीमन्दारजां मालां कृत्वा जपं समाचरेत् ।
अनन्तफलभोक्ताऽसौ भविष्यति न संशयः ॥७४॥
विश्वास-प्रस्तुतिः
शमी-मन्दार-जां मालां
दधानः पुरुषो भवेत् ।
तस्य देहं समालोक्य
विघ्ना नश्यन्ति पापकाः ॥७॥
मूलम्
शमीमन्दारजां मालां दधानः पुरुषो भवेत् ।
तस्य देहं समालोक्य विघ्ना नश्यन्ति पापकाः ॥७॥
विश्वास-प्रस्तुतिः
अन्ते शमी-भवं पत्रं
मन्दार-कुसुमं तथा ।
दूर्वा-पत्रं धृतं येन,
धरिष्यति यमो न तम् ॥७६॥
मूलम्
अन्ते शमीभवं पत्रं मन्दारकुसुमं तथा ।
दूर्वापत्रं धृतं येन धरिष्यति यमो न तम् ॥७६॥
विश्वास-प्रस्तुतिः
शमी-मन्दार-सामीप्ये
पूजयेन् मां च मानवः ।
तेनाप्य् असङ्ख्यका पूजा
कृता मे नाऽत्र संशयः ॥७७॥
मूलम्
शमीमन्दारसामीप्ये पूजयेन् मां च मानवः ।
तेनाप्यसङ्ख्यका पूजा कृता मे नाऽत्र संशयः ॥७७॥
विश्वास-प्रस्तुतिः
एवम् उक्त्वा पुनस् तौ स
जगाद गण-नायकः ।
मद्-भक्तिं यदि विप्रेशाव्
इच्छथो भाव-संयुतौ ॥७८॥
मूलम्
एवमुक्त्वा पुनस्तौ स जगाद गणनायकः ।
मद्भक्तिं यदि विप्रेशाविच्छथो भावसंयुतौ ॥७८॥
विश्वास-प्रस्तुतिः
तदा मन्दार-वृक्षस्य
मूलजां मूर्तिम् आदरात् ।
कृत्वा पूजां प्रकुर्वाथां
यथा विधि-समन्वितौ ॥७९॥
मूलम्
तदा मन्दारवृक्षस्य मूलजां मूर्तिमादरात् ।
कृत्वा पूजां प्रकुर्वाथां यथा विधिसमन्वितौ ॥७९॥
विश्वास-प्रस्तुतिः
शमी-मन्दार-दूर्वाभिः
सन्तुष्टोऽहं भवामि तु ।
नान्यथा पूर्ण-भावेन
मम तुष्टि-करं भवेत् ॥८०॥
मूलम्
शमीमन्दारदूर्वाभिः सन्तुष्टोऽहं भवामि तु ।
नान्यथा पूर्णभावेन मम तुष्टिकरं भवेत् ॥८०॥
विश्वास-प्रस्तुतिः
तुलसी-वर्जितां पूजां
मदीयां कुरुतं सदा।
शमी-मन्दार-मालाभिर्
जपं मे कुरुतं सदा ॥८१॥
मूलम्
तुलसीवर्जितां पूजां मदीयां कुरुतं सदा।
शमीमन्दारमालाभिर्जपं मे कुरुतं सदा ॥८१॥
विश्वास-प्रस्तुतिः
एवम् उक्त्वा गणाधीशस्
तत्रैवान्तर् अधीयत ।
विप्रौ बभूवतुर् हर्ष-
समायुक्तौ विशेषतः ॥८२॥
मूलम्
एवमुक्त्वा गणाधीशस्तत्रैवान्तरधीयत ।
विप्रौ बभूवतुर्हर्षसमायुक्तौ विशेषतः ॥८२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेपञ्चमे खण्डे लम्बोदरचरिते शमीमन्दारवरप्रदानं नाम पञ्चविंशतितमोऽध्यायः ॥