२४ गाणपत्यस्वरूपवर्णनम्

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

यदि क्षत्रियवंशस्थो दीक्षामिच्छति शाश्वतीम् ।
गाणेशीं शृणु वक्ष्यामि विधिं तस्य प्रजापते ॥ १ ॥

ब्राह्मणस्यैव हस्तेन कारयेदेतदादरात् ।
मन्त्रमात्रं जपेत् सोऽपि न होमादि स्वहस्ततः ॥ २ ॥

शस्त्रविद्यां परित्यज्य दण्डादिकमशेषतः ।
गाणपत्यो भवेत् सोऽपि क्षत्रियो नात्र संशयः ॥ ३ ॥

वैश्यः स्ववृत्तिजं कर्म क्रयविक्रयकं परम् ।
त्यजेत्ततो गणेशस्य दीक्षायां योग्यतामियात् ॥ ४ ॥

शूद्राणां नाममन्त्रश्च वक्तव्यो ब्राह्मणैः सदा ।
हिंसादिकमथो त्यक्त्वा शूद्रो दीक्षां लभेत् पराम् ॥ ५ ॥

[[२४]]

नाममन्त्रेण सर्वं वै कुर्यात् शूद्रः स्वयं विधिम् ।
गणेश्वरस्य पूजादि न श्लोकादि समुच्चरेत् ॥ ६ ॥

न होमादिभवं कर्म प्रायश्चित्तं चरेत्तथा ।
गाणपत्यो भवेच्छूद्रो दीक्षायुक्तो महायशाः ॥ ७ ॥

गणेशदीक्षया युक्तो भवेद् विपथगो यदि ।
स एव विघ्नसंयुक्तो भविष्यति प्रकोपतः ॥ ८ ॥

अथ दीक्षितजन्तूनां चिह्नानि ते वदाम्यहम् ।
तैर्युक्तान् गाणपत्यान् वै परान् जानाति मानवः ॥ ९ ॥

प्रातः स्नानादिकं कृत्वा सन्ध्यां शाखोक्तमार्गतः ।
आगमोक्तां च वेदोक्तां पूजां कृत्वा समापयेत् ॥ १० ॥

अर्चनं द्वादशाङ्गेषु यः कुर्यान् मन्त्रपूर्वकम् ।
सर्वाङ्गलेपनेनैव तत्र मन्त्रान् शृणु प्रभो ॥ ११ ॥

गणेशोच्छिष्टगन्धं वै गृह्यादौ नियतो न्यसेत् ।
स्वानन्दवासिने जप्त्वा नमो मूर्धानमर्चयेत् ॥ १२ ॥

ललाटं गणनाथाय नम उच्चार्य चार्चयेत् ।
दक्षिणं कर्णमूलं च गजकर्णाय वै नमः ॥ १३ ॥

वामकर्णं तथा दक्ष शूर्पकर्णाय ते नमः ।
अर्चयेच्च ततः कण्ठं विघ्नेशाय ततः पठन् ॥ १४ ॥

बाहुं दक्षिणगं तद्वद् हेरम्बाय नमोऽर्चयेत् ।
वामं समर्चयेत् सुज्ञः सिद्धिनाथाय वै नमः ॥ १५ ॥

हृदयं चार्चयेत्तत्र बुद्धीशाय नमो विधे ।
उदरं नाभिसंस्थानं नमो लम्बोदराय ते ॥ १६ ॥

दक्षिणं चैव कुक्षिं स वक्रतुण्डाय वै नमः ।
वामं तु चिन्तामणये ह्यर्चयेन्नात्र संशयः ॥ १७ ॥

पृष्ठदेशं नाभिसममर्चयेत् ढुण्ढये नमः ।
एते द्वादश मन्त्राश्च कथितास्ते प्रजापते ॥ १८ ॥

ललाटं चार्चयेत् सुज्ञः सर्वभद्रविधानतः ।
अङ्गानि स तथा दक्ष नाभेरूर्ध्वं समर्चयेत् ॥ १९ ॥

सर्वाङ्गलेपनं शस्तं गाणेशानां विशेषतः ।
रक्तचन्दनसंयुक्तो गन्धस्तेषां मतः सदा ॥ २० ॥

मालां शमीभवां वाऽपि प्रभो मन्दारवृक्षजाम् ।
प्रशस्तां स्वगले बाहौ सर्वसिद्धिप्रदायिनीम् ॥ २१ ॥

धारयेन्नात्र सन्देहो देवकाष्ठप्रमाणतः ।
अन्यकाष्ठभवां मालां धारयेन्न कदाचन ॥ २२ ॥

वैष्णवानां यथा दक्ष तुलसीकाष्ठसम्भवा ।
तथा वै गाणपत्यानां शमीमन्दारसम्भवा ॥ २३ ॥

तदभावे प्रजानाथ विद्रुमजां तु धारयेत् ।
अथवाऽक्षमयीं मालां धारयेन् मन्दमार्गतः ॥ २४ ॥

सदा शुचिस्वभावस्थो मित्रशत्रुत्ववर्जितः ।
द्वन्द्वभावविनिर्मुक्तो गाणपत्यश्चरेन् महीम् ॥ २५ ॥

शुक्लकृष्णचतुर्थीजं व्रतं नित्यं समाचरेत् ।
गाणपत्यानि सर्वाणि व्रतानि श्रद्धयान्वितः ॥ २६ ॥

अन्यदेवप्रियं दक्ष व्रतं तीर्थं चरेत्तथा ।
शक्तियुक्तो भवेत् सोऽपि तदा सर्वं प्रतिष्ठितम् ॥ २७ ॥

क्षेत्राणि गाणपत्यानि चरेन्नियमसंयुतः ।
अन्यानि शक्तियुक्तश्चेत् निश्चितं मुनिभिः पुरा ॥ २८ ॥

यथा गणेश्वरो देवः सर्वेषामादिपूज्यकः ।
अन्यदेवस्य भक्तानां तथा तस्य व्रतादिकम् ॥ २९ ॥

गाणेशानां यथा दक्ष एक एव गणेश्वरः ।
आवश्यकेन तद्वद्व्रतादिकं च समाचरेत् ॥ ३० ॥

सदा गणेशनाम्नश्च कीर्तनं तत्र वर्तते ।
कथा नानाविधा रम्याः कथयन्ति परस्परम् ॥ ३१ ॥

[[५२]]

चरित्राणि गणेशस्य गायेयुर्हर्षसंयुताः ।
पात्रीभूतान् जनान् दृष्ट्वा बोधयन्ति सुसिद्धये ॥ ३२ ॥

अत्र ते कथयिष्यामि संवादं नारदेन्द्रजम् ।
एकदा नारदो योगी भ्रमन्निन्द्रं समाययौ ॥ ३३ ॥

इन्द्रेण पूजितः सोपि गाणेशं गानमाकरोत् ।
तं प्रणम्य महेन्द्रश्च जगाद वाक्यमुत्तमम् ॥ ३४ ॥

इन्द्र उवाच ।

वद ब्रह्मन् महाभाग चिह्नानि गणपात्मनाम् ।
कैश्चिह्नैः संयुता नित्यं गाणपत्याश्चरन्ति हि ॥ ३५ ॥

नारद उवाच ।

सर्वाङ्गे चन्दनालेपो रक्तचन्दनसंयुतः ।
शमीमन्दारमाला च तेषां हस्ते गले भवेत् ॥ ३६ ॥

सदा गणेशनाम्नश्च श्रवणे तत्पराः स्मृताः ।
कीर्तने भावसंयुक्ताः गाणपत्या इमे बुधाः ॥ ३७ ॥

द्वन्द्वस्य भावो हृदि नोभवेत् कदा ये निःस्पृहा योगधराः सुनिर्मलाः ।
गाणेश्वरा वन्दनशीलकाः सदा तान् गाणपत्यान् प्रवदन्ति योगिनः ॥ ३८ ॥

नित्यं स्वधर्मेण च संयुतास्तथा न मानयन्ति ह्यपवर्गकं कदा ।
भक्तौ निमग्ना गणराजवर्त्मनि तान् गाणपत्यान् प्रवदन्ति योगिनः ॥ ३९ ॥

न स्थानगेहादिकमाश्रयन्ति ये प्रारब्धमात्रेत्यवलम्बिनोऽपरे ।
चिन्तामणौ चित्तनिवेशकाः सदा तान् गाणपत्यान् प्रवदन्ति योगिनः ॥ ४० ॥

श्रौते तथा स्मार्तभवे सुकर्मणि संसक्तदेहा गणराजसिद्धये ।
सर्वाणि कर्माणि समर्प्य नैज्यपे तान् गाणपत्यान् प्रवदन्ति योगिनः ॥ ४१ ॥

निन्दां स्तुतिं वीक्ष्य विकारवर्जिताः कान्तासुवर्णादिषु भावहीनकाः ।
प्राटन्ति विघ्नेश्वरभक्तिलालसा तान् गाणपत्यान् प्रवदन्ति योगिनः ॥ ४२ ॥

आच्छादिता ये न च केन भावितास्तिरस्कृता देववरिष्ठभोजिनः ।
जीवैर्हता दोषविहीनचेतसस्तान् गाणपत्यान् प्रवदन्ति योगिनः ॥ ४३ ॥

नेच्छन्ति कैलासविकुण्ठकादिकं न ब्रह्मभूयं न रसां रसातलम् ।
भक्तिं सदेच्छन्ति गणेशभाविकान् तान् गाणपत्यान् प्रवदन्ति योगिनः ॥ ४४ ॥

मुद्गल उवाच ।

एवमुक्त्वा महेन्द्रं स नारदः स्वेच्छया मुनिः ।
ययौ विघ्नेश्वरं गायन् यत्र तत्र प्रजापते ॥ ४५ ॥

एतत्ते गाणपत्यानां स्वरूपं कथितं मया ।
श्रवणात् पापसम्भूतमज्ञानं नाशमाव्रजेत् ॥ ४६ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेपञ्चमे खण्डे लम्बोदरचरिते गाणपत्यस्वरूपवर्णनं नाम चतुर्विंशतितमोऽध्यायः ॥

[[५३]]