२३ गाणपत्यदीक्षावर्णनम्

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

अथो शृणु महाभाग गाणपत्यस्वरूपकम् ।
येन त्वं गाणपत्ये वै पदे सुनिपुणो भवेः ॥ १ ॥

नरो गणेशभक्तिं यो भवेत् कर्तुं समुद्यतः ।
गणेशप्रीतिकामार्थं दीक्षायुक्तो भवेदयम् ॥ २ ॥

गाणपत्यं सुशान्तिस्थं गुरुं वेदार्थपारगम् ।
नत्वा तं संवदेत् पूर्वं दीक्षां देहि महाप्रभो ॥ ३ ॥

त्वमेव गणराजोऽसि गाणपत्यपरायणः ।
मां कुरुष्व महाभाग गाणपत्यं सुशीलकम् ॥ ४ ॥

एवं पृष्टो गुरुः शिष्यं वदेद् दृष्ट्वा सुशीलगम् ।
श्रौतस्मार्तक्रियायुक्तं गणेशभावलालसम् ॥ ५ ॥

ततस्तं शिक्षयेदादौ धर्मान् गाणेशकान् परान् ।
तांस्तुभ्यं कथयाम्येव शृणु सर्वसुखप्रदान् ॥ ६ ॥

[[४९]]

परान्नं भक्षयेन्नैवालोकयेन्न रजस्वलाम् ।
परस्त्रीगमनं क्वापि न कुर्यान् मनसाऽपि सः ॥ ७ ॥

स्वार्थाय क्रोधसंयुक्तो न भवेल्लोभसंयुतः ।
अभक्ष्यभक्षणं नैव कुर्यात् हिंसां कदापि न ॥ ८ ॥

गुरुद्रोहं च पैशून्यं ज्येष्ठानामपमानकम् ।
वेदशास्त्रादिमार्गेभ्यो हीनं नैव समाचरेत् ॥ ९ ॥

इहामुत्र विरक्तः स भवेद्ब्रह्मपरायणः ।
इत्यादिविविधान् धर्मानुपदिश्य मनुं दिशेत् ॥ १० ॥

आदौ कृच्छ्रादिकं तस्मै दापयेच्च ततः परम् ।
गाणपत्यान् समाज्ञाप्य सुदिनं त्ववलोकयेत् ॥ ११ ॥

अथवा गणराजस्योत्सवदां तिथिमादरात् ।
चतुर्थीं शुक्लपक्षस्थां वा कृष्णामवलोकयेत् ॥ १२ ॥

गणेशप्रियकालं वा समालोक्य सुसिद्धिदः ।
गुरुः शिष्याय मन्त्रं वै दद्याद्भक्त्यर्थमादरात् ॥ १३ ॥

शृणु तत्र विधिं दक्ष कथयामि सुखप्रदम् ।
शुचौ मण्डपिकां कृत्वा गोमयेनाऽवलेपयेत् ॥ १४ ॥

मृन्मयां तु स्वयं तत्र वेदिं कुर्याद्विचक्षणः ।
चतुरस्रां च तन्मध्ये दिक्षु संस्थापयेद् घटान् ॥ १५ ॥

आदौ गणेशयन्त्रं स्वं कुङ्कुमेनात्र कारयेत् ।
स्वेष्टमष्टगणेशानान् पूजयेद् विधिपूर्वकम् ॥ १६ ॥

दीक्षायुक्तांश्च गाणेशान् पूजयेत् स ततः परम् ।
तेभ्यो भूषणवस्त्रादीन् दापयेच्छाठ्यवर्जितः ॥ १७ ॥

गाणेशेनैव मन्त्रेण स जपं कारयेत्तु तैः ।
पुरश्चरणसङ्ख्याकमथवा लक्षमादरात् ॥ १८ ॥

अथवा दशसाहस्रमथवा च सहस्रकम् ।
तद्दशांशेन होमं वै कुर्यात्तत्र महामतिः ॥ १९ ॥

ततो बलिप्रदानं वै कुर्यात् पूर्णाहुतिं ततः ।
पुनः सम्पूज्य विघ्नेशं स प्रणम्य ततो गुरुम् ॥ २० ॥

प्रार्थयेत् सर्वभावेन शिष्यं मां तारय प्रभो ।
मन्त्रं देहि महाभाग गाणपत्यं विशेषतः ॥ २१ ॥

पुनर्गुरुं समभ्यर्च्य ततः सकलशं पुनः ।
स्थापयेत् स्वेष्टदेवाढ्यं गाणेशेनैव मन्त्रतः ॥ २२ ॥

तत्र विघ्नेश्वरं ध्यात्वा पूजयेत् स्वल्पमार्गतः ।
ततो वस्त्रं समाच्छाद्य मस्तके गुरुसंयुतः ॥ २३ ॥

प्रणम्य स्वगुरुं तत्र प्रार्थयेद्वद मन्त्रकम् ।
संसारतारणार्थाय देहि मन्त्रं द्विजोत्तम ॥ २४ ॥

एवं गुरुर्महर्षिश्च प्रार्थितस्तं सुशिक्ष्य वै ।
गणेशं मनसा ध्यात्वा मन्त्रं शिष्याय दापयेत् ॥ २५ ॥

ततस्तान् कलशान् गृह्य पूर्वदिक्क्रमतश्च तैः ।
अष्टोत्तरशतं मन्त्रं जपंस्तं स्नापयेद्गरुः ॥ २६ ॥

एकैकसिद्धिदः प्रोक्तः कलशः स्नानमात्रतः ।
ब्रह्मभूयकरः प्रोक्तो मध्यमः सर्वसिद्धिदः ॥ २७ ॥

स्नातं शिष्यं समादाय गणेशं प्रणिपत्य च ।
शिष्येण पूजयेद्देवं ततस्तं स विसर्जयेत् ॥ २८ ॥

प्रणमेद् गाणपत्यांस्तांस्ततो दद्याच्च दक्षिणाम् ।
पुष्कलां शाठ्यहीनः स भोजयेत्तान् महायशाः ॥ २९ ॥

मोदकापूपलड्डूकपायसान्नैर्महामते ।
सूक्ष्मतन्दुलसंयुक्तैर्नानापक्वान्नमिश्रितैः ॥ ३० ॥

यथेष्टं भोजयित्वा वै प्रणमेत् स पुनः पुनः ।
प्रार्थयेत्तान् विशेषेण तारितोऽहं भवार्णवात् ॥ ३१ ॥

सम्भारं गुरवे दद्याद्गुरुवंशं नमेत् सदा ।
गाणपत्यान् प्रदृश्यैवोत्थाय तांश्च नमेन्नरः ॥ ३२ ॥

[[५०]]

गाणपत्यान् समालोक्य न नमेद्यः प्रजापते ।
तेन विघ्नेश्वरः साक्षाद्धिंसितो नाऽत्र संशयः ॥ ३३ ॥

एवं दीक्षां समागृह्य गणेशं पूजयेत् सदा ।
तत्समीपे तु मन्त्रस्य पुरश्चरणकं चरेत् ॥ ३४ ॥

अथ धर्मान् प्रवक्ष्यामि शृणु तान् सुसमाहितः ।
दन्तकाष्ठमभुक्त्वा तु न गच्छेद्गणपालयम् ॥ ३५ ॥

मैथुनं यदि कृत्वा देवालयं च गमिष्यति ।
स सद्यो भ्रंशमागच्छेदतः स्नात्वा च तं व्रजेत् ॥ ३६ ॥

अशुद्धवस्त्रसंयुक्तो विघ्नराजं न संस्पृशेत् ।
परवस्त्रधरो भूत्वा पूजयेन्न गणाधिपम् ॥ ३७ ॥

छिद्रयुक्तं न वस्त्रं स धारयेद्देवपूजने ।
मौनेन पूजयेद्देवं यथाविधि गणेश्वरम् ॥ ३८ ॥

गणेशपूजने सक्तो यदि वाचं वदेन्नरः ।
पूजान्तरायदोषेण विघ्नयुक्तो भवेन्नरः ॥ ३९ ॥

अभ्यङ्गसंयुतो यस्तु स्नानहीनो यदा भवेत् ।
देवालयं समागच्छेत्तदा भ्रंशमवाप्नुयात् ॥ ४० ॥

उपानत्स्पर्शसंयुक्तः पादक्षालनवर्जितः ।
गणेशानालयं गच्छेद्विघ्नयुक्तो भवेन्नरः ॥ ४१ ॥

गन्धादिचर्चितो भूत्वा यो नार्च्य गणनायकम् ।
देवालयं गतो दैवाल्लभेद् भ्रंशं स मानवः ॥ ४२ ॥

अजीर्णदोषसंयुक्तो यस्तिष्ठेद्देवसन्निधौ ।
उद्गाराधः समीरेण विघ्नयुक्तो भवेत्तु सः ॥ ४३ ॥

भेरीशब्दमनावाद्य गणेशालयगो भवेत् ।
स भ्रंशं च लभेद्दक्ष देवगुह्यप्रभञ्जनात् ॥ ४४ ॥

देवालयं समागत्याऽनृतवाचं वदेन्नरः ।
अथवा देवस्तुत्यादिहीनां स भ्रंशितामियात् ॥ ४५ ॥

नित्यं तत्र प्रजानाथ संयतो देवसन्निधौ ।
मर्यादां पालयंस्तिष्ठेत् स ईप्सितफलं लभेत् ॥ ४६ ॥

यथाशास्त्रं विचारेण गणेशं सर्वसिद्धिदम् ।
यो भजेत् गाणपत्यस्तं स गणेशो भवेन्नरः ॥ ४७ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेपञ्चमे खण्डे लम्बोदरचरिते गाणपत्यदीक्षावर्णनं नाम त्रयोविंशोऽध्यायः ॥