२२ शक्तिपुत्रचरितम्

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

लम्बोदरावतारो मूषकगोऽयं प्रकीर्तितः ।
स एव शक्तिपुत्रोऽभूत्तच्छृणुष्व प्रजापते ॥ १ ॥

शक्तिलोकस्थिता देवी निर्ममे सकलं जगत् ।
तद्रक्षणविहारार्थं त्रिधाऽभूत् साऽपि मायया ॥ २ ॥

महाकाली तथा दक्ष महालक्ष्मीः प्रकीर्तिता ।
महासरस्वती प्रोक्ता भक्तानां भेदनाशनात् ॥ ३ ॥

ताभ्यो नानाविधा जाता देव्यो दुर्गादिकाः किल ।
देवीभिः सहिता साऽपि तताप तप उत्तमम् ॥ ४ ॥

एकाक्षरविधानेन दिव्यवर्षसहस्रकम् ।
ततः प्रसन्नभावन विघ्नेशो वरदोऽभवत् ॥ ५ ॥

स्तुतः सम्पूजितस्ताभिर्वरं चित्तेप्सितं ददौ ।
बहुत्वान्नो कथयितुं भवेच्छक्यं प्रजापते ॥ ६ ॥

वरस्यैव प्रभावेण स्वस्वकार्यरता बभुः ।
देव्यो लम्बोदरं नित्यं भजन्ते कुलदैवतम् ॥ ७ ॥

आदिशक्तिर्महामाया शान्त्यर्थं पुनरारभत् ।
तपो दुष्करमत्यन्तं ततः शान्तिमवाप सा ॥ ८ ॥

तथापि तपसा युक्ता पुपूज गणनायकम् ।
ततो वर्षेषु पूर्णेषु शते हृदि समागतः ॥ ९ ॥

तं दृष्ट्वा हृदि संस्थं सा तुष्टाव विविधैः स्तवैः ।
ततो बहिर्विनिःसृत्य जगाद जगदम्बिकाम् ॥ १० ॥

पुत्रोऽहं ते महाभागे ध्यानजो नाऽत्र संशयः ।
पश्य मां त्वं महामाये स्थितं लम्बोदरं बहिः ॥ ११ ॥

सा प्रबुद्धा बहिर्लम्बोदरं वीक्ष्य तुतोष ह ।
अथर्वशिरसा देवी ?तुष्टावापूज्य साश्रुका ॥ १२ ॥

[[२३]]

तुष्टस्तां गणराजश्च जगाद वृणु वाञ्छितम् ।
दास्यामि भक्तियुक्तायै पुत्रोऽहं पालयस्व माम् ॥ १३ ॥

शक्तिरुवाच ।
अनेन वपुषा नाथ स्थिरो भव गजानन ।
भक्तिं देहि दृढां वत्स तव पादाम्बुजे पराम् ॥ १४ ॥

योगिनां ध्यानजं ब्रह्म पुत्रो वेदे प्रकीर्तितः ।
तत्र किं चित्रमेवेदं विनायक कृतं त्वया ॥ १५ ॥

श्रुत्वा तां गणराजस्तु जगाद वचनं हितम् ।
मन्मूर्तिस्थापनं कृत्वा पूजयस्व निरन्तरम् ॥ १६ ॥

पुत्रवत्सलतां तत्र कुलदेवत्वमादरात् ।
ब्रह्मभावं तथा देवि कुरु त्वं सर्वदा मयि ॥ १७ ॥

तत्र पूजोपचाराद्यैः पूजयस्व निरन्तरम् ।
तया त्वं कृतकृत्या च भक्तियुक्ता भविष्यसि ॥ १८ ॥

एवमुक्त्वाऽन्तर्दधेऽसौ लम्बोदरः प्रजापते ।
शक्तिस्तथैव कृत्वा तं भजते ब्रह्मनायकम् ॥ १९ ॥

एवं नानाऽवताराश्च लम्बोदरस्य मानद ।
भक्तानां सर्वसिद्ध्यर्थं भजतां परमाद्भुताः ॥ २० ॥

रक्तदन्तादिभिश्चैव देवीभिस्तपसा प्रभुः ।
आराधितो वधार्थाय दैत्यानां गणनायकः ॥ २१ ॥

देवीभिः संस्तुतो देवः प्रसन्नो वरदोऽभवत् ।
वरस्यैव प्रभावेण हता दैत्या अनेकशः ॥ २२ ॥

योगनिष्ठा महादेव्योऽभजंस्तं विघ्ननाशनम् ।
कुलदैवतभावेन शान्त्यर्थं च प्रजापते ॥ २३ ॥

ते सर्वे गणराजा वै स्मृता लम्बोदरात्मकाः ।
ज्ञातव्याः सर्वभावेन ब्रह्मभूतपदप्रदाः ॥ २४ ॥

इदं लम्बोदरस्यैवावतारस्य कथामृतम् ।
शृणोति पठते वापि स सर्वफलभाग् भवेत् ॥ २५ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेपञ्चमे खण्डे लम्बोदरचरिते शक्तिपुत्रचरितं नाम द्वाविंशोऽध्यायः ॥