२१ मूषकगावतारचरितम्

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

मायाकरासुरं वीक्ष्य तुतोष गणनायकः ।
मूषकं स समारुह्य ययौ सङ्ग्राममण्डलम् ॥ १ ॥

चतुरायुधसंयुक्तं दृष्ट्वा विघ्नेश्वरं खलः ।
दैत्यानाज्ञापयामास देवानां हननाय सः ॥ २ ॥

ततो दैत्यगणाः सर्वे क्रोधयुक्ता महाबलाः ।
ववृषुः शस्त्रधाराभिर्मेघा इव सुदुर्मदाः ॥ ३ ॥

दृष्ट्वा देवगणाः क्रुद्धा युयुधुस्तान् समागतान् ।
एवं युद्धं महाघोरं सैन्ययोरुभयोरभूत् ॥ ४ ॥

परस्परं मम्रुरेत्य सम्मुखं ते जयेप्सवः ।
रक्तौघैः सरितस्तत्र सञ्जाता भयदायिकाः ॥ ५ ॥

कदाचिज्जयिनो दैत्याः कदाचिदमरा मृधे ।
न रात्रौ विश्रमं ते तु चक्रिरे क्रोधसंयुताः ॥ ६ ॥

एवं दिनानि सप्तैव युयुधुः शस्त्रकोविदाः ।
पलायन्तामरा भिन्ना हाहारवकरा भृशम् ॥ ७ ॥

तद् दृष्ट्वा शङ्करः क्रुद्ध आययौ रणमण्डले ।
ततो विष्णुमुखा देवा युयुधुः क्रोधसंयुताः ॥ ८ ॥

तेषां शस्त्रप्रहारेण मृता दैत्या अनेकशः ।
प्रजापते पलायन्त भयभीता दिशो दश ॥ ९ ॥

मूर्च्छिता दैत्यराजास्ते सर्वे भूतलमाश्रिताः ।
दृष्ट्वा सिंहरवं मायाकरः कृत्वा समागतः ॥ १० ॥

क्रोधयुक्तो महादैत्यः शस्त्रवृष्टिं चकार ह ।
तया देवाः क्षता भूमौ पेतुः सर्वे प्रजापते ॥ ११ ॥

अग्न्यस्त्रेण महादैत्यः पातयामास शङ्करम् ।
अन्ये दाहयुताः सर्वे पलायन्त दिशो दश ॥ १२ ॥

एवं मूषकगस्तस्य बलं दृष्ट्वा तुतोष ह ।
स्वयं समागतो हर्षाद्रणभूमौ महाबलः ॥ १३ ॥

दृष्ट्वा मूषकसंस्थं तमवोचद् दैत्यनायकः ।
क्रोधयुक्तः प्रहस्याऽऽदौ वचनं मद्यपो यथा ॥ १४ ॥

मायाकरासुर उवाच ।

किं सङ्ग्रामाय विघ्नेश मया सह समागतः ।
एकबाणेन हत्वा त्वां हनिष्यामि सुरान् मुनीन् ॥ १५ ॥

चतुःपदार्थरूपं वै जगत् सर्वं प्रवर्तते ।
तस्मान्मे मरणं नास्ति किं करिष्यसि देवप ॥ १६ ॥

ब्रह्माण्डं निर्जितं येन तेन सार्धं गजानन ।
योद्धुमिच्छसि बालः सन् बालभावान्न संशयः ॥ १७ ॥

नत्वा मां स्वगृहं याहि न हनिष्यामि निश्चितम् ।
त्वामज्ञानसमायुक्तं प्रेरकांस्तान्निहन्म्यहम् ॥ १८ ॥

नाम मूषकगस्तेचाखुतुल्यस्त्वं मतो मम ।
मूर्खवन्नैव जानासि मां सर्वभयदायकम् ॥ १९ ॥

एवं मायाकरं वीक्ष्य ब्रुवन्तं स्वपराक्रमम् ।
मूषकगस्तमेवं वै जगाद वचनं हितम् ॥ २० ॥

मूषकग उवाच ।

किं मां वदसि दैत्येन्द्र नाऽहं बालोऽसुराधम ।
स्वानन्दवासकारी वै त्वां हन्तुं रूपवान् परः ॥ २१ ॥

हनिष्यामि न सन्देहश्चतुर्भिर्वर्जितोऽधुना ।
बालस्य पश्य मे मूर्ख पौरुषं दैत्यनायक ॥ २२ ॥

इत्युक्त्वा क्रोधसंयुक्तः कमलं निजहस्तगम् ।
बिन्दुब्रह्ममयं ज्योतिस्तत्याज मूषकेशगः ॥ २३ ॥

आगतं कमलं दृष्ट्वा ज्योतीरूपमयं महत् ।
मायाकरासुरस्तद्वै जग्राह बलगर्वितः ॥ २४ ॥

गृहीतं दैत्यराजेन हस्तगं न च हस्तगम् ।
पपात कण्ठदेशेऽस्य ममार दैत्यनायकः ॥ २५ ॥

कमलं गणराजस्य हस्तगं पुनरञ्जसा ।
बभूव चासुरेशाना विस्मिताः सम्बभूविरे ॥ २६ ॥

[[२१]]

अहो मायाकरो राजा कथं ममार गर्वितः ।
शरीरं यादृशं तस्य तादृशं दृश्यतेऽधुना ॥ २७ ॥

तेजः समागतं ह्यत्र तेन तेजो हृतं मृधे ।
शस्त्रघातविहीनोऽयं ममार दैत्यनायकः ॥ २८ ॥

ततो दैत्यगणाः सर्वे भयभीताः समन्ततः ।
पातालं विविशुर्दक्ष देवा हर्षयुता बभुः ॥ २९ ॥

मूषकगं नमस्कृत्य मुनिभिस्तत्त्वकोविदैः ।
सर्वे पुपूजुर्देवेशास्तुष्टुवुः करसम्पुटैः ॥ ३० ॥

देवर्षय ऊचुः ।
सर्वेषां भोगभोक्त्रे मूषकगाय नमो नमः ।
सर्वदेवाधिदेवाय गणेशाय नमो नमः ॥ ३१ ॥

लम्बोदराय विघ्नानां नायकाय परात्मने ।
भक्तानां विघ्नहर्त्रे ते विघ्नदात्रे दुरात्मनाम् ॥ ३२ ॥

हेरम्बाय नमस्तुभ्यं भक्तवत्सलरूपिणे ।
स्वानन्दवासिने चैव परेशाय नमो नमः ॥ ३३ ॥

महोदराय पूज्याय सर्वेषां सर्वरूपिणे ।
सर्वादिपूज्यकायैव वक्रतुण्डाय ते नमः ॥ ३४ ॥

त्रिनेत्राय चतुर्हस्तकमलस्य धराय ते ।
मूषकोपरिसंस्थाय ज्येष्ठराजाय ते नमः ॥ ३५ ॥

अमेयाय गणाध्यक्ष शूर्पकर्णप्रधारिणे ।
सर्वेशाय नमस्तुभ्यं ब्रह्मणे ब्रह्मरूपिणे ॥ ३६ ॥

अनादये तथा मध्ये नानारूपधराय ते ।
अन्ते तादृशरूपाय त्रिस्वरूपाय वै नमः ॥ ३७ ॥

शेषपुत्राय शैवाय पाराशर्याय ते नमः ।
सर्वेषां जनकायैव मात्रे ब्रह्मेश ते नमः ॥ ३८ ॥

स्रष्ट्रे पात्रे च संहर्त्रे गणेशाय नमो नमः ।
शान्तिरूपाय शान्तिभ्यः शान्तिदाय नमो नमः ॥ ३९ ॥

अपारगुणधाराय योगिनां हृदि संस्थित ।
तत् किं स्तुमो नः प्रसीद गणाधीश नमो नमः ॥ ४० ॥

एवं स्तुत्वा गणेशानं प्रणेमुस्ते सुरर्षयः ।
प्रसन्नात्मा मूषकगस्तानुवाच प्रहर्षितः ॥ ४१ ॥

मूषकग उवाच ।

कृतं मे स्तवनं सर्वैर्भवद्भिः सर्वदं भवेत् ।
यद्यदिच्छथ तत्तद्दास्यामि वै भक्तितन्त्रितः ॥ ४२ ॥

पठतां शृण्वतां नित्यं स्वाधीनोऽहं भवामि च ।
भुक्तिमुक्तिप्रदं पूर्णं पुत्रपौत्रादिवर्धनम् ॥ ४३ ॥

वरं वृणुत देवेशा देवा मुनिसमन्विताः ।
दास्यामि स्तोत्रतुष्टोऽहं वाञ्छितं नात्र संशयः ॥ ४४ ॥

देवर्षय ऊचुः ।
मायाकरासुरस्यैव त्वया नाशः कृतो महान् ।
तेन तुष्टा गणाधीश किं वदामो वरं परम् ॥ ४५ ॥

भक्तिं देहि दृढां नाथ त्वदीयां शान्तिदायिनीम् ।
तया वयं गणेशान कृतकृत्या न संशयः ॥ ४६ ॥

तथेति तानुवाचाथ गणेशोऽन्तर्दधे स्वयम् ।
देवाः खिन्ना ययुः सर्वे स्वस्वस्थानं निरामयाः ॥ ४७ ॥

मुनयः स्वाश्रमं जग्मुर्महाहर्षसमन्विताः ।
पूर्ववत् कर्मकर्तारो बभूवुः सर्वजन्तवः ॥ ४८ ॥

शेषः सम्मूर्च्छितस्तत्र पपात धरणीतले ।
हृदि तस्य गणेशानः प्रकटोऽभूच्च तत्क्षणात् ॥ ४९ ॥

जगाद तं महानागं मन्मूर्तिस्थापनं कुरु ।
तत्र पूजापरो भूत्वा कालं क्राम च सर्पप ॥ ५० ॥

पातालविवरे क्षेत्रं भविष्यति सुसिद्धिदम् ।
तत्र मां पूजयिष्यन्ति तेभ्यः सर्वं ददाम्यहम् ॥ ५१ ॥

[[२२]]

एवमुक्त्वाऽन्तर्दधेऽसौ गणेशो ब्रह्मनायकः ।
शेषः स्वगृहमागत्य तथा चक्रे स भावतः ॥ ५२ ॥

शतयोजनपर्यन्तं क्षेत्रं गणपतेः स्मृतम् ।
पाताले सिद्धिदं सर्वं स्वानन्दं कथ्यतेऽपरम् ॥ ५३ ॥

तत्र पूजनमात्रेण वाञ्छितं लभते नरः ।
अनुष्ठानविधानेन ब्रह्मभूयं लभेत्तथा ॥ ५४ ॥

इदं ते कथितं दक्ष मूषकगस्य चेष्टितम् ।
भुक्तिमुक्तिप्रदं पूर्णं श्रवणात् पठनान्नृणाम् ॥ ५५ ॥

जगत्सु ब्रह्मसु स्थित्वा चौरवद् गणनायकः ।
भुनक्ति भोगकान् सर्वांस्तेनाऽयं मूषकध्वजः ॥ ५६ ॥

भक्तानां स्मरणेनाऽयं पुण्यपापभवं मलम् ।
हृत्वा ब्रह्ममयांस्तांश्च कुरुते मूषकध्वजः ॥ ५७ ॥

ज्येष्ठशुक्लचतुर्थ्यां महोत्सवो वै प्रवर्तते ।
जनुस्तिथिर्गणेशस्याङ्गारकी मध्यगे रवौ ॥ ५८ ॥

स्तेयानां विविधानां स राजवाहोऽयमुच्यते ।
ततो मूषकगो लम्बोदरः प्रोक्तः प्रजापते ॥ ५९ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेपञ्चमे खण्डे लम्बोदरचरिते मूषकगावतारचरितं नाम एकविंशतितमोऽध्यायः ॥