॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
मूषकगवचः श्रुत्वा देवेन्द्रा हर्षिता बभुः ।
ऊचुः प्राञ्जलयस्तं ते विघ्नेशं विघ्नवारणम् ॥ १ ॥
देवर्षय ऊचुः ।
चतुर्ब्रह्ममयं देव वाहनं ते प्रवर्तते ।
स्वानन्दे मूषकाख्यं च सर्वभोगकरं परम् ॥ २ ॥
अधुना भोगकारं तु चतुर्भिः शिवमुख्यकैः ।
कृतं स्वस्वकलांशेन वाहनं ते गजानन ॥ ३ ॥
जीवेषु सर्वभोक्ता वै चौरवत् परमेश्वरः ।
तदेव वाहनं तेऽभूद् गृहाण स्तेयरूपिणम् ॥ ४ ॥
एवमुक्त्वा गणेशानं देवा मुनिसमन्विताः ।
तुष्टुवुस्तं महावीर्यं मूषकं मूषकाकृतिम् ॥ ५ ॥
देवर्षय ऊचुः ।
नमस्ते स्तेयरूपाय सर्वहृत्स्थाय धीमते ।
अन्तर्भोगकरायैव मूषकाय नमो नमः ॥ ६ ॥
मायया स्तेयरूपिण्या मोहयित्वा चराचरम् ।
चौरवद्भोगकर्ता त्वं चौररूपाय ते नमः ॥ ७ ॥
चराचरमयायैव चराचरधराय ते ।
सर्वाधीशाय लोकाय कालकालाय ते नमः ॥ ८ ॥
अनादये महेशाय चतुर्वर्गप्रदायिने ।
गणेशवाहनायैव गणेशध्वजसंस्थित ॥ ९ ॥
सर्वत्रग गणाधीशस्त्वया हृत्स्थ न संशयः ।
चालकात्मकवीर्यं यद्गणेशस्य त्वमञ्जसा ॥ १० ॥
ब्रह्माकारशरीराय स्तेयानां स्वस्वरूपिणे ।
नमो नमः परेशाय चतुर्मयस्वरूपिणे ॥ ११ ॥
चतुर्णां गणपः पाता त्वया तद्रूपधारिणा ।
भव वाहनमुख्यं वै गणेशस्याऽधुना प्रभो ॥ १२ ॥
इति स्तुतः प्रसन्नात्मा मूषकस्तानुवाच ह ।
भविष्यामि महाभागा वाहनं गणपस्य च ॥ १३ ॥
एवमुक्त्वा गणेशानं प्रभुं तुष्टाव लब्धधीः ।
मूषको दर्शनेनैव हर्षयुक्तो महाद्युतिः ॥ १४ ॥
मूषक उवाच ।
देवाय योगरूपाय नमो मूषकगाय ते ।
गणेशाय परेशाय परात्परतराय ते ॥ १५ ॥
अनन्ताय महेशाय महेशैः संस्तुताय च ।
विघ्नेशाय महाविघ्नधारिणे ते नमो नमः ॥ १६ ॥
अनन्तसूनवे तुभ्यं दैत्यदानवमर्दिने ।
देवानां पालकायैव हेरम्बाय नमो नमः ॥ १७ ॥
स्वानन्दवासिने तुभ्यं भक्तस्वानन्ददायिने ।
ब्रह्मणे ब्रह्मणां चैव पतये ते नमो नमः ॥ १८ ॥
चतुर्णां चालकायैव चतुःसंयोगमूर्तये ।
चतुर्णां पददात्रे ते तैर्हीनाय नमो नमः ॥ १९ ॥
योगेशयोगरूपाय योगिभ्यो योगदायिने ।
शान्तिरूपाय वै तुभ्यं शान्तिदाय नमो नमः ॥ २० ॥
मूषकवाहनायैव मूषकध्वजिने नमः ।
सिद्धिबुद्धिपते नाथ भक्तेशाय नमो नमः ॥ २१ ॥
वेदवाक्यप्रमाणेन मां कुरुष्व गजानन ।
वाहनं भक्तिसंयुक्तं सेवायै ते नमो नमः ॥ २२ ॥
इदं मूषकगो नाम मदीयं तु त्वया धृतम् ।
अतोऽभेदमयीं भक्तिं देहि नाथ नमो नमः ॥ २३ ॥
मदीयनाथरूपेण नाम ते चाऽभवत् प्रभो ।
ततो मूषकगो भक्तं मां कुरुष्व महाद्भुतम् ॥ २४ ॥
एवं स्तुत्वा गणाधीशं प्रणनाम स दण्डवत् ।
भक्तिसंयुतमुत्थाप्य गणाधीशो जगाद तम् ॥ २५ ॥
मूषकग उवाच ।
वाहनं मे सदा साधो भविष्यसि महामते ।
मदीया भक्तिरत्यन्तं सुदृढा ते भविष्यति ॥ २६ ॥
[[४४]]
त्वया कृतमिदं स्तोत्रं मदीयं भक्तिदं भवेत् ।
धर्मार्थकाममोक्षाणां दायकं सर्वदं परम् ॥ २७ ॥
पठते शृण्वते चैतत् पुत्रपौत्रादिकप्रदम् ।
यद्यदिच्छति तत्तद्वै सफलं प्रभविष्यति ॥ २८ ॥
अन्यत्त्वं शृणु मे वाक्यं देवैर्विप्रैः कृतं महत् ।
स्तवनं सर्वमान्यं ते भविष्यति न संशयः ॥ २९ ॥
यस्त्वां स्तोष्यति चौरेशस्तोत्रेणानेन मानवः ।
स सर्वं लभते नित्यमीप्सितं नाऽत्र संशयः ॥ ३० ॥
अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो भविष्यति ।
मदीयकृपया सोऽपि त्वत्समो मे प्रियो भवेत् ॥ ३१ ॥
एवमुक्त्वा महादेवं मूषकं गणनायकः ।
तमारुह्य ययौ तत्र यत्र दैत्याधिपोऽभवत् ॥ ३२ ॥
ते देवराजास्तमनुदेवाश्च मुनयः प्रभो ।
नागाः शेषमुखाः सर्वे ययुर्ब्रह्मसमन्विताः ॥ ३३ ॥
ब्रह्माणं प्रेषयामास मूषकगः प्रतापवान् ।
दूतं मायाकरस्याऽग्रे बोधार्थं नीतिपालकः ॥ ३४ ॥
गत्वा तमसुरं ब्रह्मा जगाद वचनं हितम् ।
आखुवाहं च शरणं याहि नो चेन् मरिष्यसि ॥ ३५ ॥
चतुर्णां ब्रह्मणां मूषकगो योगे प्रकीर्तितः ।
स्वानन्दवासकारी स गणेशोऽयं विचारय ॥ ३६ ॥
सुरासुरमयश्चायं गच्छतं भक्तिसंयुतः ।
मम पुत्रत्वमापन्नो हितं ते प्रवदाम्यहम् ॥ ३७ ॥
ब्रह्मणो वचनं श्रुत्वा क्रोधयुक्तस्तमब्रवीत् ।
मायाकरासुरः पापी पापयुक्तेन चेतसा ॥ ३८ ॥
मायाकरासुर उवाच ।
त्वं देवपक्षगो भूत्वा मोहनार्थं समागतः ।
पञ्चमं ब्रह्म सर्वत्र योगरूपं प्रतिष्ठति ॥ ३९ ॥
तदेव नागतं कुत्र न गतं च प्रजापते ।
समागतं गणेशानं तं हनिष्यामि सामरम् ॥ ४० ॥
त्वं गच्छ दूतरूपेणागतस्तस्मान् महामते ।
सहामि तेऽपराधं वै नोचेद्धन्मि सुरप्रियम् ॥ ४१ ॥
ततो ब्रह्मा गणेशानमाययौ प्रणिपत्य तम् ।
वृत्तान्तं कथयामास तच्छ्रुत्वा क्रोधमादधे ॥ ४२ ॥
देवानाज्ञापयामास जेतुं मूषकगोऽपि तम् ।
ततस्ते शस्त्रसङ्घातैर्जघ्नुर्दैत्यगणान् मृधे ॥ ४३ ॥
असुराः छिन्नभिन्नास्ते पपलुर्गुल्मसंस्थिताः ।
सभासीनं समाचख्युर्वचो मायाकरासुरम् ॥ ४४ ॥
दैत्या ऊचुः ।
किं स्थितोऽसि महावीर देवाः क्रोधसमन्विताः ।
आगता नगरं सर्वं तेषामस्त्रैः सुपीडितम् ॥ ४५ ॥
तेषां तद्वचनं श्रुत्वा क्रोधयुक्तः समाययौ ।
प्रधानैरसुरैः सर्वैः संवृतो रणमण्डलम् ॥ ४६ ॥
मायाकरं समालोक्य पपलुर्देवसत्तमाः ।
आगम्य तं मूषकगं शशंसुश्चेष्टितं महत् ॥ ४७ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेपञ्चमे खण्डे लम्बोदरचरिते मूषकगमायाकरासुरसमागमो नाम विंशोऽध्यायः ॥
[[४५]]