१९ मूषकदेवसमागमः

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

हृदयाद्बहिरागत्य शेषस्य गणनायकः ।
पुत्रभावेन संस्थोऽभून् मूषकारूढ आदरात् ॥ १ ॥

तत उत्थाय शेषस्तं प्रणनाम कृताञ्जलिः ।
पूजयामास सर्वेशं पुनः स प्रणतोऽभवत् ॥ २ ॥

अथर्वोपनिषद्भिस्तं तुष्टाव करसम्पुटैः ।
नागेशः प्रार्थयामास भक्तिनम्रात्मकन्धरः ॥ ३ ॥

शेष उवाच ।

योगेशस्त्वं गणाध्यक्ष ब्रह्मणां नायकः स्मृतः ।
कथं मे पुत्रभावेन संस्थितोऽसि विडम्बनम् ॥ ४ ॥

ततो गजाननस्तं वै मोहयामास मायया ।
मोहितो नागराजस्तं पुत्रं मेने गजाननम् ॥ ५ ॥

शेषः सस्त्रीक आगृह्य लालयामास बालकम् ।
क्रमेण पञ्चवर्षस्थो बभूवे तद्गृहे प्रभुः ॥ ६ ॥

अथ शृणु प्रजानाथ वृत्तान्तं दैत्यसम्भवम् ।
मायाकरासुरो दुष्टश्चकार कर्मखण्डनम् ॥ ७ ॥

आसुरं कर्म सर्वत्र कृतं तेन दुरात्मना ।
तेनोपोषणसंयुक्ता बभूवुर्देवनायकाः ॥ ८ ॥

ततो हाहाकृतं सर्वैर्वर्णाश्रमयुतैर्जनैः ।
न स्वाहा न स्वधाद्यं वै कर्तुं केनाऽपि शक्यते ॥ ९ ॥

ततो मुनिवराः सर्वे देवाः शम्भुपुरोगमाः ।
विचारं दैत्यनाशार्थं चक्रुर्भयसमन्विताः ॥ १० ॥

तत्रोवाच महायोगी बृहस्पतिरुदारधीः ।
गणेशं भक्तिसंयुक्ता भजध्वं पदप्राप्तये ॥ ११ ॥

[[४१]]

चतुःपदार्थसंयोगे गणेशो निजबोधकः ।
चतुर्भिर्वर्जितश्चाऽयं हनिष्यति महाखलम् ॥ १२ ॥

श्रुत्वा ते गुरुसंयुक्तास्तपस्तेपुर्महत् प्रभो ।
निराहारादिसंयुक्ता नानाऽनुष्ठानतत्पराः ॥ १३ ॥

गते वर्षशते पूर्णे प्रसन्नोऽभूद् गजाननः ।
आययौ तान् वरान् दातुं भक्त्या तुष्टो महायशाः ॥ १४ ॥

तं दृष्ट्वा हर्षसंयुक्ता देवा मुनय आदरात् ।
प्रणेमुः पूजयामासुस्तुष्टुवुर्विविधैः स्तवैः ॥ १५ ॥

वरयामासुरादृत्य गणेशं सर्वनायकम् ।
दैत्यं जहि गणाध्यक्ष प्रभो मायाकरासुरम् ॥ १६ ॥

तथा मायाविहीनां वै भक्तिं देहि त्वदीयकाम् ।
दासास्ते पादपद्मस्य वयं सर्वे न संशयः ॥ १७ ॥

श्रुत्वा तान् गणराजस्तु जगाद हर्षसंयुतः ।
मायाकरं हनिष्यामि शेषपुत्रोऽहमञ्जसा ॥ १८ ॥

यदि मे वाहनं तत्र मुख्यं भवति देवपाः ।
चतुर्देवमयं विप्रास्तदाऽऽरोहं करोम्यहम् ॥ १९ ॥

मदीया भक्तिरुग्रा वो भविष्यति तु निश्चितम् ।
सुदृढा मे सदा दासा भविष्यथ विशेषतः ॥ २० ॥

एवमुक्त्वाऽन्तर्दधेऽसौ गणेशो देवनायकः ।
शेषध्यानात् समुद्भूतो भक्तानां कार्यसिद्धये ॥ २१ ॥

अथो देवर्षिमुख्यास्ते विचारं चक्रुरञ्जसा ।
चतुर्देवमयं तस्य वाहनं कीदृशं भवेत् ॥ २२ ॥

सर्वांस्तत्र शिवः साक्षादुक्तवान् वाक्यमुत्तमम् ।
वेदमूर्तिमयो देवः सर्वेषां गुरुरञ्जसा ॥ २३ ॥

शिव उवाच ।

अयं मूषकवाहश्च वेदेषु कथितोऽभवत् ।
मूषस्तेये तथा धातुर्ज्ञातव्यः स्तेयबह्मधृक् ॥ २४ ॥

नामरूपात्मकं सर्वं तत्राऽसद्ब्रह्म वर्तते ।
नामरूपेषु ये भोगास्तेषां भोक्ता स्वमायया ॥ २५ ॥

भोगेषु भोगभोक्ता यस्तदाकारेण वर्तते ।
अहङ्कारयुतास्ते वै न जानन्ति विमोहिताः ॥ २६ ॥

वयं भोक्तार एवं ते मानयन्ति विशेषतः ।
ईश्वरः सर्वभोक्ता च चौर्यवृत्तिषु संस्थितः ॥ २७ ॥

स एव मूषकः प्रोक्तो मनुजानां प्रचालकः ।
मायया गूढरूपो भोगान् भुनक्ति स चोरवत् ॥ २८ ॥

तद्वज्जीवनगो देवः सूर्य आत्मा विशेषतः ।
नाना जीवेषु भोगान् भुनक्ति वै चौरवत् स्वयम् ॥ २९ ॥

समेषु सर्वभोक्ता च विष्णुस्तद्वन्न संशयः ।
सदसन्मयरूपश्च चौरवन् मायया प्रभुः ॥ ३० ॥

सहजेषु तथा देवः शिवो भोक्ता तुरीयगः ।
चौरवन्नाऽत्र सन्देहो युतो निर्मोहमायया ॥ ३१ ॥

भोक्तारं चौरभावस्थं वाहनं कुरुत प्रियाः ।
मूषकाकृतिरूपं वै दीयतां गणपाय तत् ॥ ३२ ॥

श्रुत्वा ते हर्षिताः सर्वे शिवं देवर्षयोऽब्रुवन् ।
साधु साधु त्वया प्रोक्तं सर्वज्ञस्त्वं सदाशिव ॥ ३३ ॥

ततो गणेश्वरं ध्यात्वा चतुर्भिः कल्पितं वपुः ।
तत्र स्वांशं ददुर्देवा भोक्तृरूपं प्रजापते ॥ ३४ ॥

तदंशेन सजीवोऽभून मूषको बलसंयुतः ।
ब्रह्मा देवर्षिभिः सार्धमभिषेकं चकार ह ॥ ३५ ॥

अन्तर्बाह्यादिकं स्तेयं परं सर्वत्र वर्तते ।
नानाविधं तथैकं च तेषु राजाऽयमुच्यते ॥ ३६ ॥

[[४२]]

अभिषिक्तः स्वयं तत्र मूषको हर्षितोऽभवत् ।
यज्ञभागस्य भोक्ताऽसौ कृतो देवैः सवासवैः ॥ ३७ ॥

सङ्गृह्य सर्वदेवास्तं मुनयः शेषमन्दिरम् ।
आजग्मुस्तान् समालोक्य शेषश्च विस्मितोऽभवत् ॥ ३८ ॥

पूजयामास सर्वान् स नागराजो महायशाः ।
नानाऽऽसनेषु संस्थाप्य पुनस्तान् प्रत्युवाच ह ॥ ३९ ॥

शेष उवाच ।

धन्यं मे जन्म दानं वै तपो ज्ञानं स्वभावजम् ।
पितरो मुनयो देवा दर्शनाद्भवतां किल ॥ ४० ॥

किमर्थमागताः सर्वे वदत मां सुरर्षयः ।
भवतां कृपया युक्तः करिष्यामि सुभक्तितः ॥ ४१ ॥

तस्य तद्वचनं श्रुत्वा शङ्करः सर्वनायकः ।
जगाद नागराजं तं हर्षयन् हर्षवर्धनः ॥ ४२ ॥

शिव उवाच ।

शेष शेष महाभाग धन्यस्त्वं सर्वमण्डले ।
तव पुत्रत्वमापन्नो ब्रह्मणां नायकः प्रभो ॥ ४३ ॥

मूषकगोऽवतारोऽयं पञ्चवर्षवयोन्वितः ।
मा पुत्रं तं विजानीहि तपसा ध्यानजं प्रभुम् ॥ ४४ ॥

तस्येदं वाहनं मुख्यं चतुर्देवकलांशजम् ।
स्तेयधर्मधरं पूर्णं सर्वेषां हृदि वर्तते ॥ ४५ ॥

अस्योपरि समारुह्य मूषकगः प्रतापवान् ।
मायाकरासुरं सद्यो हनिष्यति गणेश्वरः ॥ ४६ ॥

एवं तेषां वचः श्रुत्वा खेदयुक्तः स नागराट् ।
न किञ्चित् सञ्जगौ देवान् पुत्रवत्सलभावतः ॥ ४७ ॥

ततस्तं शङ्करो देव उवाच वचनं पुनः ।
मा खेदं कुरु कल्याण विघ्नहा न मरिष्यति ॥ ४८ ॥

तपोभिर्विविधैर्देवैः मुनिभिः प्रार्थितोऽभवत् ।
मायाकरविनाशाय तव पुत्रो गजाननः ॥ ४९ ॥

त्वयाऽऽदौ तपसा देव आराधितो गजाननः ।
वरदानप्रभावेण तव पुत्रो बभूव ह ॥ ५० ॥

एतस्मिन्नन्तरे मूषकगस्तत्र समागतः ।
नागबालैर्महाभागैः क्रीडायुक्तो गजाननः ॥ ५१ ॥

समुत्तस्थुः प्रणेमुस्तं दृष्ट्वा विप्राः सदेवपाः ।
तुष्टुवुः सामवेदस्थेन स्तोत्रेण गणेश्वरम् ॥ ५२ ॥

ततस्तान् गणराजो वै वचनं हितकारकम् ।
उवाच वृणुत प्राज्ञा वरं मनेप्सितं परम् ॥ ५३ ॥

ततोऽतिहर्षसंयुक्तास्तमूचुस्ते सुरर्षयः ।
मायाकरासुरं स्वामिन् जहि सर्वभयङ्करम् ॥ ५४ ॥

भक्तिं देहि गणाधीश तव पादे च निश्चलाम् ।
दासा वयं गणेशान पालयस्व विशेषतः ॥ ५५ ॥

तथेति तानुवाचाऽथ वाहनं मे न वर्तते ।
अतो योग्यं महादेवा वाहनं दीयतां परम् ॥ ५६ ॥

चतुःपदार्थरूपेभ्यो मरणं न प्रविद्यते ।
मायाकरस्य दुष्टस्य कथं कार्यं मया सुराः ॥ ५७ ॥

चतुःपदार्थरूपं मे वाहनं यदि जायते ।
तदाऽहं तं हनिष्यामि नाऽत्र कार्या विचारणा ॥ ५८ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेपञ्चमे खण्डे लम्बोदरचरिते मूषकदेवसमागमो नाम एकोनविंशतितमोऽध्यायः ॥

[[४३]]