॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
ततः शेषः स्वयं तत्र तताप तप उत्तमम् ।
शमदमपरो भूत्वा योगभूमिमशोधयत् ॥ १ ॥
क्रमेण पञ्चभूमीनां चित्तस्य पारमागतः ।
शान्तिं प्राप्तो महानागोऽभजत्तं गणनायकम् ॥ २ ॥
गाणपत्यस्वभावेनाऽपूजयद् भक्तिसंयुतः ।
एवं तपःप्रभावेण सन्तुष्टोऽभूद् गजाननः ॥ ३ ॥
तमाययौ महाभक्तं ध्यानस्तिमितलोचनम् ।
जगाद स वृणुष्व त्वं वरान् मत्तो सुदुर्लभान् ॥ ४ ॥
तस्य तद्वचनं श्रुत्वा प्रबुद्धो गणनायकम् ।
दृष्ट्वा लम्बोदरं देवं प्रणनाम कृताञ्जलिः ॥ ६ ॥
प्रणम्य विघ्नपं भक्तिसंयुक्तोऽपूजयत् पुनः ।
तुष्टाव सुस्थिरो भूत्वा निबद्धकरसम्पुटः ॥ ६ ॥
शेष उवाच ।
गणेशाय नमस्तुभ्यं सिद्धिबुद्धिपते नमः ।
चिन्तामणे महाविघ्ननाशनाय नमो नमः ॥ ७ ॥
सर्वादिपूज्यरूपाय सर्वपूज्याय ते नमः ।
ज्येष्ठराजाय ज्येष्ठानां मात्रे पित्रे नमो नमः ॥ ८ ॥
[[३८]]
विनायकाय सर्वेषां नायकाय नमो नमः ।
नायकानां प्रचालाय नायकैः सेविताय ते ॥ ९ ॥
विघ्नेशाय च सर्वेषां पदभ्रंशकराय ते ।
अभक्तानां सुभक्तानां विघ्नहन्त्रे नमो नमः ॥ १० ॥
ढुण्ढिराजाय सर्वैश्च ढुण्ढिताय सुसिद्धिद ।
ढुण्ढितानां महाराज परेशाय नमो नमः ॥ ११ ॥
ब्रह्मणां पतये तुभ्यं ब्रह्मेभ्यो ब्रह्मदायिने ।
ब्रह्मभ्यः सुखदायाऽथ शान्तिरूपाय ते नमः ॥ १२ ॥
स्वानन्दवासिने तुभ्यं सदा स्वानन्दमूर्तये ।
नाना विहारकर्त्रे ते समाधये नमो नमः ॥ १३ ॥
मूषकवाहनायैव मूषकप्रियमूर्तये ।
मूषकध्वजिने तुभ्यं स्तेयरूपाय ते नमः ॥ १४ ॥
अयोगाय सदा ब्रह्मन् ब्रह्मणे ब्रह्ममूर्तये ।
असमाधिस्थ हेरम्ब मायाहीनाय ते नमः ॥ १५ ॥
योगाय योगनाथाय योगेभ्यो योगदायिने ।
चित्तवृत्तिविहीनाय गणेशाय नमो नमः ॥ १६ ॥
किं स्तौमि त्वां गणाधीश मनोवाणीविवर्जितम् ।
मनोवाणीमयं स्वामिन् द्वाभ्यां हीनतया स्थित ॥ १७ ॥
अतो वेदादयः सर्वे कुण्ठिता नात्र संशयः ।
योगिनः शुकमुख्याश्चातस्त्वां पश्यामि भाग्यतः ॥ १८ ॥
एवं संस्तुवतस्तस्य भक्तिरससमुद्भवः ।
ननर्त तेन शेषश्च हृष्टरोमाऽश्रुलोचनः ॥ १९ ॥
जगाद गणराजस्तु ततस्तं भक्तमुत्तमम् ।
वरान् वरय शेष त्वं दास्यामि भक्तिभावितः ॥ २० ॥
त्वया कृतमिदं स्तोत्रं शान्तियोगप्रदं भवेत् ।
धर्मार्थकाममोक्षाणां दायकं सर्वसिद्धिदम् ॥ २१ ॥
यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः ।
श्रवणान्नाऽत्र सन्देहो भवेन् मद्भक्तिवर्धनम् ॥ २२ ॥
ततस्तं नागराजश्च जगाद वचनं हितम् ।
प्रणम्य भावसंयुक्तो विघ्नेशं भक्तिलालसः ॥ २३ ॥
शेष उवाच ।
भक्तिं देहि गणाधीश तव पादाम्बुजे पराम् ।
सदा शान्तिस्थमत्यन्तं कुरुष्व गणनायक ॥ २४ ॥
चित्तं पञ्चविधं प्रोक्तं तत्र त्वं सततं प्रभो ।
तिष्ठस्व स्फूर्तिरूपेण मदीयभ्रमनाशकः ॥ २५ ॥
मनश्चञ्चलभावेन संसारविषये रतम् ।
भविष्यति न सन्देहोऽतस्त्वं मे तनयो भव ॥ २६ ॥
संसारे पुत्रभावेन भजिष्यामि निरन्तरम् ।
हृदि शान्त्या तथा देव कुलदैवतरूपिणम् ॥ २७ ॥
गणेशक्षेत्रमत्रैव भवतु त्वत्प्रसादतः ।
सर्वसिद्धिप्रदं नाथ भक्तेभ्यः शान्तिदायकम् ॥ २८ ॥
चित्तभूमिधरं वीक्ष्याऽहं शान्तोऽत्र गजानन ।
धरणीधरसञ्ज्ञं त्वां वदिष्यन्ति जनाः प्रभो ॥ २९ ॥
येनाऽहं वै गणाध्यक्ष त्वद्रूपो नाऽत्र संशयः ।
अतो मदीयनाम्ना त्वं धरणीधरको भव ॥ ३० ॥
अहं धराधरः प्रोक्तः स्थूलशब्दप्रधारकः ।
त्वं चित्तभूमिगः स्वामिन् योगेन धरणीधरः ॥ ३१ ॥
एवमुक्त्वा गणेशानं विरराम च काश्यपः ।
तमुवाच गणाधीशः सन्तुष्टो भक्तवत्सलः ॥ ३२ ॥
श्रीगणेश उवाच ।
त्वयोक्तं सकलं शेष सफलं ते भविष्यति ।
सदा शान्तिस्वरूपस्थो मां भजिष्यसि निश्चितम् ॥ ३३ ॥
[[३९]]
योगशास्त्रस्य कर्ता वै त्वं भविष्यसि मानद ।
न योगे त्वत्समः क्वापि भविष्यति महामते ॥ ३४ ॥
सदा भक्तिकरस्त्वं मे नाभौ तिष्ठ धराधर ।
भ्रमहीनः स्वभावेन मां भजस्व विशेषतः ॥ ३५ ॥
धराधरणदुःखश्रमादिकं वै कदाचन ।
न भविष्यति ते शेष सर्षपेण समा भवेत् ॥ ३६ ॥
तव विष्णुः शरीरस्थः शयिता नित्यमादरात् ।
पुष्पतुल्यो भवेद्देवः सोऽपि ब्रह्माण्डनायकः ॥ ३७ ॥
सदा यज्ञेषु भागस्थो भविष्यसि न संशयः ।
दिक्पालस्त्वं महाभाग सर्वमान्यो न संशयः ॥ ३८ ॥
एवमुक्त्वा गणाधीशो रूपं नानाविधं स्वकम् ।
दर्शयामास शेषाय नाना योगधरं परम् ॥ ३९ ॥
समष्टिव्यष्टिरूपं च ददर्श नादरूपकम् ।
बिन्दुं सोऽहं तथा बोधं विदेहं नागराट् प्रभो ॥ ४० ॥
स्वस्वरूपमयोगस्थं योगशान्तिमयं तथा ।
ददर्श विस्मितः शेषोऽभवत् संशयवर्जितः ॥ ४१ ॥
अन्तर्धानं ययौ सद्यो गणेशो ब्रह्मनायकः ।
शेषस्तत्र गणेशानं स्थापयामास विप्रपैः ॥ ४२ ॥
धरणीधरविघ्नेशोऽभवत्तत्रैव संस्थितः ।
भक्तेभ्यः सिद्धिदाता स यात्रामात्रेण निश्चितम् ॥ ४३ ॥
शेषो जगाम दक्ष स्वभवनं हर्षसंयुतः ।
विघ्नराजस्य नाभौ च स्वयं तिष्ठति नागराट् ॥ ४४ ॥
अनन्यभावसंयुक्तोऽभजत्तं गणनायकम् ।
अथो व्यासावतारश्च बभूवे धर्मपालकः ॥ ४५ ॥
ब्रह्माणं शरणं गत्वा गाणेशं शुश्रुवे मुनिः ।
पुराणं स तथा देवमभजत्तपसा युतः ॥ ४६ ॥
प्रसन्नो गणराजः स तस्मै दत्वा ययौ वरम् ।
वेदशाखादिकं सर्वं चकार भिन्नमादरात् ॥ ४७ ॥
ततो बहौ गते काले मायया भ्रान्तिसंयुतः ।
योगभ्रष्टोऽभवद्योगी चित्तचञ्चलभावतः ॥ ४८ ॥
कदा नदीजले व्यासस्तर्पणं नित्यमाकरोत् ।
तस्याञ्जलौ स्वयं शेषः पपात सूक्ष्मरूपधृक् ॥ ४९ ॥
तं दृष्ट्वा विस्मितो व्यासस्तत्याज स जले भयात् ।
मुनिं तं प्रत्युवाचेदं सर्पोऽङ्गुष्ठप्रमाणकः ॥ ५० ॥
सर्प उवाच ।
जले सत्त्वा महोग्राश्च प्रग्रसिष्यन्ति मां प्रभो ।
रक्षस्व त्वं महाभाग शरणं त्वां समागतम् ॥ ५१ ॥
तच्छ्रुत्वा विस्मितो व्यासस्तं प्रणम्य महायशाः ।
जगाद हर्षसंयुक्तो वचनं स्वहितावहम् ॥ ५२ ॥
व्यास उवाच ।
कस्त्वं वद महाभागाञ्जलौ मम समागतः ।
नरवन्नाथ वदसि न त्वां जानामि भावतः ॥ ५३ ॥
तस्य तद्वचनं श्रुत्वा तं जगाद पतञ्जलिः ।
हर्षयन् हेतुगर्भाभिर्वाग्भिर्हर्षसमन्वितः ॥ ५४ ॥
चिन्तनं यदि सन्त्यक्तं तदा कुत्र प्रवर्तते ।
अपूर्वं मुनिशार्दूल मायया पृच्छसि प्रभो ॥ ५५ ॥
मायया सर्पजातिस्थो नरवद्भाषणं सदा ।
करोति नात्र सन्देहो न तया दुर्लभं भवेत् ॥ ५६ ॥
तस्य तद्वचनं श्रुत्वा तं प्रणम्य मुनिः पुनः ।
पप्रच्छ ते स्वरूपं मे दर्शयस्व नमो नमः ॥ ५७ ॥
ततो नराकृतिर्भूत्वा संस्थितो भगवान् स्वयम् ।
शेषो ब्राह्मणरूपस्थस्तं जगाद महामुनिम् ॥ ५८ ॥
पतञ्जलिरुवाच ।
तवाञ्जलौ महाभाग पतितोऽहं हिताय ते ।
पतञ्जलिं च मां विद्धि मुने शेषं धराधरम् ॥ ५९ ॥
[[४०]]
गणेशाऽनेन विप्रेश प्रेरितं मां विशेषतः ।
भ्रान्तिनाशार्थमेवं ते जानीहि सहसाऽऽगतम् ॥ ६० ॥
ज्ञात्वाऽतिहर्षितो व्यासः प्रणम्य तमुवाच ह ।
चिन्तनं च कथं नाथ त्यक्तव्यं चित्तगेन तु ॥ ६१ ॥
नानाभावमिदं दृष्ट्वा तत्र तत्तादृशं भवेत् ।
चित्तं नागेन्द्रवन्द्य त्वं वदस्वातिमहाद्भुतम् ॥ ६२ ॥
योगशास्त्रं स्वयं तस्मै जगाद स पतञ्जलिः ।
यथा विघ्नेश्वरेणैव दर्शितं तादृशं परम् ॥ ६३ ॥
विप्रेशोऽन्तर्हितो योगी शेषः सर्वार्थदायकः ।
व्यासस्तत्र प्रजानाथ खेदयुक्तो बभूव ह ॥ ६४ ॥
शुश्राव स यथाशास्त्रं परं शेषमुखात् पुरा ।
तथा चित्तं समागृह्य योगिवन्द्यो बभूव ह ॥ ६५ ॥
पञ्चधा चित्तभूमिस्थस्त्यक्त्वा तच्चिन्तनं स्वयम् ।
चिन्तामणौ तदाकारो बभूव मुनिसत्तमः ॥ ६६ ॥
तस्य भाष्यं चकारापि व्यासो गूढार्थसिद्धये ।
नराणां प्रहितार्थाय सुगमार्थं प्रजापते ॥ ६७ ॥
इदं शेषस्य माहात्म्यं कथितं योगशान्तिदम् ।
अधुना शृणु दक्ष त्वं प्रकृतं यत् कथानकम् ॥ ६८ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेपञ्चमे खण्डे लम्बोदरचरिते शेषाख्यानवर्णनं नामाष्टादशोऽध्यायः ॥