॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
पुरा कश्यपविप्रेणाराधितौ तपसा प्रभू ।
शिवविष्णू च पुत्रार्थं मन्त्रध्यानसमाधिना ॥ १ ॥
दश वर्षे गते तौ च वरदौ तं समागतौ ।
सुतौ मुनिवरेणैव वरं दत्त्वा प्रजग्मतुः ॥ २ ॥
तयोरंशेन शेषश्च पुत्रस्तस्य बभूव ह ।
धराधरणभावेन पालको विष्णुरेव सः ॥ ३ ॥
ब्रह्मणो दिवसान्ते स ज्वालया विष्टपं महत् ।
ददाह शङ्करांशश्च महानागः प्रतापवान् ॥ ४ ॥
सहस्रशीर्षा पुरुषः शेष एव स उच्यते ।
मृत्युहीनो ह्यनन्तोऽयं सर्वेषामन्तकोऽभवत् ॥ ५ ॥
लय एकोऽवशेषश्च तेन शेषः प्रकीर्तितः ।
ब्रह्माण्डं धारयामास सर्वाधारो बभूव ह ॥ ६ ॥
उत्पन्नोऽभूत् स्वयं शेषः साक्षाद्धरिहरात्मकः ।
ब्रह्मणागत्य तत्रैवाऽभिषिक्तो राज्यकर्मणि ॥ ७ ॥
नागानामीश्वरो भूत्वा स्थितः सर्वत्र सम्मतः ।
ततः स कश्यपं नत्वा जगाद वचनं हितम् ॥ ८ ॥
शेष उवाच ।
ब्रह्माण्डं धारयामीश कथं सर्वसमाकुलम् ।
तदर्थं मां महायोगिन् शाधि शिष्यं पितः प्रभो ॥ ९ ॥
ततस्तस्मै मुनिश्रेष्ठो ददौ मन्त्रं षडक्षरम् ।
गणेशस्य यथान्यायं शोधयित्वा प्रजापते ॥ १० ॥
ततस्तं प्रणिपत्यैव तताप तप उत्तमम् ।
वने गत्वा गणेशं स ध्यात्वा जपपरायणः ॥ ११ ॥
निराहारेण विघ्नेशं तोषयामास नित्यदा ।
पुपूज भक्तिसंयुक्तस्तुष्टाव विविधैः स्तवैः ॥ १२ ॥
एवं वर्षसहस्रेण प्रसन्नो गणनायकः ।
अस्थिमात्रावशेषं तं त्वचायुक्तं समाययौ ॥ १३ ॥
तं दृष्ट्वा नागपः शेषः प्रणम्योत्थाय चादरात् ।
पुपूज हर्षसंयुक्तस्तुष्टाव करसम्पुटैः ॥ १४ ॥
[[३६]]
ततस्तं गणराजः स जगाद वृणु वाञ्छितम् ।
दास्यामि तपसा तुष्टो यत्ते चित्ते भविष्यति ॥ १५ ॥
शेषः प्रणम्य विघ्नेशं जगाद हर्षसंयुतः ।
ब्रह्माण्डधारणे शक्तिं देहि नाथ नमोऽस्तु ते ॥ १६ ॥
भक्तिं देहि गणाधीश भुक्तिमुक्तिप्रदायिनीम् ।
मृत्युहीनं दिशां नाथं मां कुरुष्व यशोतिगम् ॥ १७ ॥
तथेति गणराजस्तु तमुक्त्वाऽन्तरधात्ततः ।
शेषो हृष्टः स्वयं दक्ष स्वस्थानं प्रजगाम ह ॥ १८ ॥
तदारभ्य स्वयं नागो धराधारो बभूव ह ।
दिक्पालत्वं सदा लेभे मान्यः सर्वार्थदोऽभवत् ॥ १९ ॥
ततो योगबलेनैव नाना मायाविशारदः ।
नाना रूपधरः शेषः शुशुभे सर्वमण्डले ॥ २० ॥
एवं बहौ गते काले हिरण्यकशिपोर्भयात् ।
ऐश्वर्यं नश्वरं मत्वाऽभवत् ज्ञानार्थमुद्यतः ॥ २१ ॥
विपुलं स तपस्तप्त्वा शमदमपरायणः ।
योगभूमिस्थभावेनान्तर्निष्ठश्च बभूव ह ॥ २२ ॥
ततः क्रमेण नागेशः समस्वानन्दगोऽभवत् ।
योगेन तत्र शान्तिं च स दृष्ट्वा संस्थितोऽभवत् ॥ २३ ॥
विष्णुं ज्ञात्वा परं भावं तदर्थं संयतः स्वयम् ।
वैष्णवेनैव मार्गेण तोषयामास केशवम् ॥ २४ ॥
ततस्तं वरदो विष्णुर्ययो शेषेण संस्तुतः ।
याचितो नित्यमेवं मे दर्शनं देहि केशव ॥ २५ ॥
मदीयदेहसंस्थस्त्वं भव नित्यं जनार्दन ।
तथेति तमुवाचाऽसौ नारायणो बभूव ह ॥ २६ ॥
शेषशायी सदा तस्य स देहे संस्थितोऽभवत् ।
तेन संहर्षितोऽत्यन्तं बभूवे नागपालकः ॥ २७ ॥
ततो योगबलेनाऽसौ मायामोहं ददर्श ह ।
समानन्दं द्वन्द्वमयमशान्तोऽपि बभूव ह ॥ २८ ॥
एवं बहौ गते काले योगमार्गरतोऽभवत् ।
समाधिना प्रजानाथ सहजं ब्रह्म संश्रितः ॥ २९ ॥
साहजं शङ्करं ज्ञात्वा शैवमार्गपरोऽभवत् ।
ब्रह्म स्वेच्छामयं दृष्ट्वा शान्तिं प्राप्य समास्थितः ॥ ३० ॥
ततस्तं वरदः शम्भुराययौ तं प्रणम्य सः ।
शेषस्तुष्टाव संहृष्टः शैवैः स्तोत्रैः सदाशिवम् ॥ ३१ ॥
प्रसन्नं शङ्करं दृष्ट्वा ययाचे भक्तिमुत्तमाम् ।
सदा दर्शनभावार्थं सङ्गतिं शङ्करस्य सः ॥ ३२ ॥
तथेति शङ्करो देवः स चकार प्रजापते ।
मस्तके तं बबन्धाऽथ नित्यदर्शनकाङ्क्षिणम् ॥ ३३ ॥
ततोऽतिहर्षितोऽनन्तः शम्भुमार्गपरायणः ।
सिषेवे भावसंयुक्तः शङ्करं वृषभध्वजम् ॥ ३४ ॥
ततो योगबलेनैव शेषस्तत् सहजं परम् ।
मोहहीनं विदित्वा स शान्तिहीनो बभूव ह ॥ ३५ ॥
मनसा शाङ्करं ब्रह्म नामन्यत परं प्रभुम् ।
शिवं नत्वा महानागः पप्रच्छ योगशान्तिदम् ॥ ३६ ॥
पात्रं गणेशयोगे तं ज्ञात्वा शेषं सदाशिवः ।
जगाद गणनाथस्य ज्ञानं सर्वहितावहम् ॥ ३७ ॥
शिव उवाच ।
योगशान्तिप्रदं पूर्णं गणेशं विद्धि मानद ।
सत्यासत्यसमानानि सहजेन युतानि वै ॥ ३८ ॥
ब्रह्माणि यत्र लीयन्ते संयोगेन महामते ।
स्वसंवेद्यं तद्वदन्ति ब्रह्म शान्तिप्रदं परम् ॥ ३९ ॥
संयोगे गणनाथस्य स्वसंवेद्यात्मकं परम् ।
दर्शनं जायते येनाऽभवत् स्वानन्दवासिकः ॥ ४० ॥
[[१८]]
सर्वसंयोगरूपश्च दोषस्तत्र महान् स्मृतः ।
तेन शान्तिप्रदं पूर्णं न मतं योगिभिः कदा ॥ ४१ ॥
स्वसंवेद्यविहीनं यद्ब्रह्म योगमयं भवेत् ।
तत्र सन्दर्शनं तस्य न भवेद्व्यतिरेकतः ॥ ४२ ॥
स्वकीयाऽभेदतस्तत्र निवृत्तिर्जायते नृणाम् ।
तत्र शान्तिः समाख्याता सा न मुख्या मता बुधैः ॥ ४३ ॥
अयोगात्मकरूपश्च दोषः संवर्तते सदा ।
मायाहीनप्रभावेण तिष्ठते गणनायकः ॥ ४४ ॥
संयोगायोगयोर्योगे योगः शान्तिप्रदायकः ।
सा शान्तिः सर्वमान्या वै भवते वेदवादतः ॥ ४५ ॥
संयोगश्च गकारस्थो णकारो योगगः प्रभो ।
तयोरीशो गणेशानो वेदे पश्य विचक्षण ॥ ४६ ॥
पञ्चभूमिमयं चित्तं तदेव बुद्धिभावगम् ।
मोहो भ्रान्तिप्रदस्तेषु सा सिद्धिः सम्मता बुधैः ॥ ४७ ॥
तयोः स्वामी गणेशानः चिन्तामणिः प्रकथ्यते ।
चित्तप्रकाशकः साक्षाच्छान्तिदो योगसेवया ॥ ४८ ॥
तं भजस्व महानाग ततः शान्तिमवाप्स्यसि ।
नान्यथा कोटिवर्षैः कः शान्तिं प्रलभते नरः ॥ ४९ ॥
एवमुक्त्वा महादेवो विरराम स तं प्रभुः ।
प्रणम्य शेषनागश्च ययौ तपोवनं परम् ॥ ५० ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेपञ्चमे खण्डे लम्बोदरचरिते शेषयोगोपदेशवर्णनं नाम सप्तदशोऽध्यायः ॥