१६ शेषातिदुःखवर्णनम्

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

शेषपुत्रस्य माहात्म्यं कथयामि समासतः ।
तच्छृणुष्व प्रजानाथ योगशान्तिप्रदायकम् ॥ १ ॥

एकदा सत्यलोकस्थो ब्रह्मा ध्यानपरायणः ।
बभूव सर्वजन्तूनां हितार्थं मोहितः स्वयम् ॥ २ ॥

सदा सृष्टिर्मदीयेयमखण्डा जायते कथम् ।
तत्र तस्य स्वनिःश्वासात् पुरुषः सम्बभूव ह ॥ ३ ॥

स प्रणम्य विधातारं तुष्टाव विविधैः स्तवैः ।
तमुवाच तदा ब्रह्मा किं वाञ्छसि वदाऽशु मे ॥ ४ ॥

ब्रह्मणो वचनं श्रुत्वा हर्षयुक्तः पुमानभूत् ।
तं जगाद प्रजानाथं भक्तिनम्रात्मकन्धरः ॥ ५ ॥

पुमानुवाच ।
तव निःश्वाससम्भूतं पुत्रं मां पालय प्रभो ।
देहि नाम तथा स्थानं भक्ष्यं नानाविधं विधे ॥ ६ ॥

अन्यत् सुखकरं सर्वं देहि नाथ नमोऽस्तु ते ।
त्वं गतिः सर्वभूतानामधुना मे विशेषतः ॥ ७ ॥

तस्य तद्वचनं श्रुत्वा ब्रह्मा स्नेहयुतोऽभवत् ।
स जगाद तमालिङ्ग्य चुचुम्बे पुत्रवत्सलः ॥ ८ ॥

ब्रह्मोवाच ।
मायादर्शनमात्रेण वर्धसे त्वं महामते ।
मायाकरस्ते विख्यातमतो नाम भविष्यति ॥ ९ ॥

यद्यदिच्छसि तत्तत्ते सफलं च भविष्यति ।
त्रैलोक्ये वसतिः पुत्र गतिरव्याहता भवेत् ॥ १० ॥

चतुःपदार्थसम्भूतं सदा वश्यं भविष्यति ।
चतुर्विधमयेभ्यस्ते मरणं न कदा भवेत् ॥ ११ ॥

युद्धे चतुर्विधं सर्वं प्रजेष्यसि न संशयः ।
सदाऽऽरोग्यादिसंयुक्तो भविष्यसि मदात्मज ॥ १२ ॥

ब्रह्मणो वचनं श्रुत्वा हर्षितोऽभूत् पुमान् स्वयम् ।
मायाकरः प्रणम्यैव तं ययौ स्वेच्छया चरन् ॥ १३ ॥

ततो दानवमुख्यश्च विप्रचित्तिः प्रतापवान् ।
तं दृष्ट्वा बलसंयुक्तं समागत्य ननाम सः ॥ १४ ॥

ज्ञात्वा वृत्तान्तमेतस्य मायाकरस्य दुर्मतिः ।
जगाद तं पुनः सोऽपि विप्रचित्तिः प्रतापवान् ॥ १५ ॥

विप्रचित्तिरुवाच ।
मायाकर महाभाग शृणु मे परमं वचः ।
वराः प्राप्तास्त्वया सर्वे दुर्लभा नात्र संशयः ॥ १६ ॥

तेषां भोगः प्रकर्तव्यस्त्वया नित्यं महामते ।
तदा शोभायुता जाता वरास्ते नान्यथा प्रभो ॥ १७ ॥

यथा रूपवयोयुक्ता नारी स्वपतिना युता ।
नित्यं भुक्ता विशेषेण शोभतेऽतीव मानद ॥ १८ ॥

मिलिता विविधा भोगा भुक्ताश्चेत् सार्थकं भवेत् ।
निक्षिप्ता भोगहीनास्ते शपन्ति पुरुषं सदा ॥ १९ ॥

अतो वरान् महाभाग साधयस्व विशेषतः ।
नोचेत्ते त्वां शपिष्यन्ति वरा भोगविहीनतः ॥ २० ॥

वयं दानवमुख्याश्च त्वदधीना भवामहे ।
अस्माभिर्बलसंयुक्तैर्भुङ्क्ष्व भोगं महाबल ॥ २१ ॥

दानवा बलसंयुक्ता अजेयाः सर्वभावतः ।
त्वदाज्ञावशगा नाथ चरिष्यन्ति न संशयः ॥ २२ ॥

एवं मायाकरस्तेन बोधितो दुष्टधीः स्वयम् ।
तदधीनो बभूवाऽपि ययौ तेन रसातलम् ॥ २३ ॥

तत्र दानवमुख्यैश्च मिलितैर्यमसन्निभैः ।
तैर्मानितो विधेः पुत्रो मायाकरस्तुतोष ह ॥ २४ ॥

ततः शुक्रं समानीय प्रणता दानवा विधे ।
ब्राह्मणैरभिषिक्तं तं कारयामासुरादरात् ॥ २५ ॥

असुराणां महाराजो बभूव ब्रह्मणः सुतः ।
मायाकरोऽतिशुशुभे सर्वेभ्यो भयदायकः ॥ २६ ॥

नानाभोगान् प्रभुञ्जानो बलेन गर्वितोऽभवत् ।
अमन्यतासुराधीश आत्मनः कृतकृत्यताम् ॥ २७ ॥

ततो दानवमुख्यैः स जित्वा पृथ्वीं ससागराम् ।
ततो देवगणान् जित्वेन्द्रासने संस्थितोऽभवत् ॥ २८ ॥

ततः सिषेविरे सर्वे दानवास्तं विशेषतः ।
स्वर्गभोगकरा भूत्वा हर्षिताः स्वजनैः प्रभो ॥ २९ ॥

ततः शिवं समागम्य स युद्धायोद्यतोऽभवत् ।
त्यक्त्वा कैलासमादौ स पपाल शङ्करः स्वयम् ॥ ३० ॥

ततो विकुण्ठगो भूत्वा रराजे दानवाधिपः ।
त्यक्त्वा विकुण्ठमेवं स विष्णुः पपाल भीतितः ॥ ३१ ॥

ततः शान्तिधरं वीक्ष्य तमूचुर्दानवाः पुनः ।
जय त्वं सत्यलोकस्थं ब्रह्माणं देवनायकम् ॥ ३२ ॥

सुरेभ्यः सर्वदाता स पक्षगश्च पितामहः ।
असुराणामहो हन्ता न समो वर्तते कदा ॥ ३३ ॥

तमाश्रित्य महादेवादयोऽभूवंश्च संस्थिताः ।
कालं प्राप्य महावेगा मारयिष्यन्ति नः खलु ॥ ३४ ॥

त्वया सर्वं जितं राजन् तदपि पश्य चेष्टितम् ।
ब्रह्मणा दूतवर्येण सत्कृतो न कदा भवान् ॥ ३५ ॥

मायाकरस्ततस्तेषां वचः श्रुत्वाऽसुरः स्वयम् ।
सत्यं विचार्य धातारमभूत् जेतुं समुद्यतः ॥ ३६ ॥

दानवैर्ब्रह्मलोके तमागतं वीक्ष्य वै विधिः ।
शोकयुक्तः पपालाऽसौ देवौघैः संवृतः प्रभुः ॥ ३७ ॥

ततः स सत्यलोकस्थः शुशुभेऽतीव तत्क्षणात् ।
दानवान् मानयन् दैत्यः सह तैर्बुभुजे सुखम् ॥ ३८ ॥

ततः स सत्यलोके च कैलासे वैष्णवे पदे ।
सौरे शाक्तेऽन्यदेवानां पदेष्वास्थापयत् स्वकान् ॥ ३९ ॥

पुनर्भूमौ समागम्य संस्थितो नगरे स्वके ।
प्रपञ्चाख्ये महादैत्यो दैत्यपैः संवृतो बभौ ॥ ४० ॥

ततो दानवमुख्यांश्च पातालजयने सुरः ।
प्रास्थापयच्च ते सर्वे गताः सर्वे समन्विताः ॥ ४१ ॥

[[३५]]

तैर्जिताः सर्पराजास्ते शेषस्ताञ्छरणं ययौ ।
स्वीकृत्य करभारं स संस्थितो नागपैर्वृतः ॥ ४२ ॥

तथापि दानवास्तत्र संस्थिता भयदायकाः ।
नागानधर्षयन् सर्वे यमकालनिभा बलात् ॥ ४३ ॥

ततोऽतिदुःखितः शेषः सस्मार गणनायकम् ।
निर्विघ्नार्थं प्रजानाथ पुत्रभावार्थमादरात् ॥ ४४ ॥

अन्तर्ध्यानेन विघ्नेशं तोषयामास नागपः ।
ततो वर्षे गते पूर्णे प्रकटोऽभूद् गजाननः ॥ ४५ ॥

हृदयाद् बहिरेवाऽसौ निर्गत्य तमुवाच ह ।
पश्य शेष महाभाग ध्यानजं ते सुतं च माम् ॥ ४६ ॥

दक्ष उवाच ।

स्वल्पायासेन हेरम्बः कथं पुत्रो बभूव ह ।
कथयस्व महायोगिन् शेषस्य चरितं महत् ॥ ४७ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेपञ्चमे खण्डे लम्बोदरचरिते शेषातिदुःखवर्णनं नाम षोडशोऽध्यायः ॥