१५ शक्तिविनायकमाहात्म्यम्

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

सुरथो नाम राजर्षिः प्रधानैर्नयवर्जितैः ।
बलिष्ठैः पीडितोऽत्यन्तं राज्यं त्यक्त्वा वनं ययौ ॥ १ ॥

तत्र मुनिवरेणैवोपदिष्टः शक्तिमाभजत् ।
तस्याश्च कृपया राजा समर्थः प्रबभूव ह ॥ २ ॥

स्वराज्यं प्राप्य राजर्षिश्चक्रे तद्धर्मसंयुतः ।
अभजच्छक्तिमत्यन्तं भावयुक्तेन चेतसा ॥ ३ ॥

ततो मृतः पुनः सोऽपि सावर्णिश्च बभूव ह ।
मनुर्भानुसुतो दक्ष सर्वमान्य उदारधीः ॥ ४ ॥

पूर्वसंस्कारयोगेन शक्तिभक्तो बभूव ह ।
वने गत्वा महाशक्तिं पूजयामास नित्यदा ॥ ५ ॥

उपोषणसमायुक्तस्तताप तप उत्तमम् ।
ध्यात्वा हृदि महामायां नवार्णजपकारकः ॥ ६ ॥

माहात्म्यमपठन्नित्यं शक्त्या भक्तिसमन्वितः ।
एवं वर्षशते पूर्णे प्रसन्नाऽभून् महासती ॥ ७ ॥

अन्ते तत्तपसा युक्तं ज्ञानमार्गपरायणम् ।
ज्ञात्वा लम्बोदरस्तत्र वरदाता समाययौ ॥ ८ ॥

हृदि तस्य स्थितं ध्यानं शक्तेस्तत्र गणेश्वरः ।
शुशुभे रक्तवर्णाभो दृष्ट्वा तं सोऽपि विस्मितः ॥ ९ ॥

ततः शक्तिस्वरूपं स ददर्श पुनरञ्जसा ।
पुनर्लम्बोदरं देवं पुनः शक्तियुतं प्रभुम् ॥ १० ॥

वामाङ्गे संस्थितां शक्तिं हावभावसमन्विताम् ।
भक्तियुक्तां गणेशस्य ततोऽतिविस्मितोऽभवत् ॥ ११ ॥

लम्बोदरार्थजं दक्ष शक्तेश्च कृपया महत् ।
ज्ञानं प्रकटरूपं तद्बभूव हृदये मनोः ॥ १२ ॥

ततो मनुर्विशेषेण भक्तियुक्तो हृदि स्वयम् ।
विचारमकरोत् पूर्णं तच्छृणु त्वं प्रजापते ॥ १३ ॥

लम्बोदरः स्वयं शक्तिः शक्तिर्लम्बोदरात्मिका ।
शक्तेर्लम्बोदरस्यैव नान्तरं विद्यते कदा ॥ १४ ॥

शक्तिर्वामाङ्गसम्भूता दक्षिणाङ्गाद्गणेश्वरः ।
तयोरभेदभावे यद्ब्रह्म स्वानन्दसञ्ज्ञकम् ॥ १५ ॥

क्रीडार्थं भक्तरक्षार्थं देहाकृतिधराविमौ ।
बभूवतुर्न सन्देहस्ततः सर्वमिदं बभौ ॥ १६ ॥

एवं विचारयुक्तः स मनुर्यावत् प्रतापवान् ।
तावत्तौ बहिरायातौ वरदौ च प्रजापते ॥ १७ ॥

हृदि संस्थौ विस्मितः स क्व गतौ शक्तिविघ्नपौ ।
पुनर्ध्यानबलेनैव चिन्तयामास भूमिपः ॥ १८ ॥

[[१५]]

ततस्तं तावूचतुश्च वरं वरय सुव्रत ।
तपसा भक्तिभावेन तुष्टौ दास्यावहे मुने ॥ १९ ॥

तयोर्वचनमाकर्ण्योन्मील्याऽपश्यद्वहिर्मनुः ।
दृष्ट्वा शक्तियुतं देवं प्रणनाम मुदायुतः ॥ २० ॥

पूजयित्वा विधानेन तुष्टाव भक्तिसंयुतः ।
प्रणम्य तौ पुनर्देवौ कृत्वा करपुटं विधे ॥ २१ ॥

सावर्णिरुवाच ।
नमस्ते गणनाथायै नमस्ते गणपालक ।
चतुर्बाहुधरायैव चतुर्बाहुधराय ते ॥ २२ ॥

अनाद्यायै ह्यनाद्याय परेशायै परात्मने ।
भक्तविघ्नहरायै ते भक्तविघ्नहराय च ॥ २३ ॥

हेरम्बायै नमस्तुभ्यं हेरम्बाय नमो नमः ।
लम्बोदरस्वरूपायै नमो लम्बोदराय ते ॥ २४ ॥

नानारूपधरायैव नानारूपधराय च ।
नमो नमो महादेव्यै देवाधिपतये नमः ॥ २५ ॥

गजवक्त्रधरायै ते गजवक्त्रधराय च ।
शूर्पकर्णस्वरूपायै शूर्पकर्णाय ते नमः ॥ २६ ॥

एकदन्तधरायै चैकदन्तरूपिणे नमः ।
मायामोहहरायैव मोहहर्त्रे नमो नमः ॥ २७ ॥

स्वानन्दपुरसंस्थायै नमः स्वानन्दवासिने ।
परश्वादिधरायै च परश्वादिधराय ते ॥ २८ ॥

नमः सर्वप्रबोधायै नमः सर्वप्रबोधक ।
मायिभ्यो मोहदात्र्यै ते मायिभ्यो मोहदाय च ॥ २९ ॥

ढुण्ढिराज्ञ्यै नमस्तुभ्यं ढुण्ढिराजाय ते नमः ।
वक्रतुण्डधरायै ते वक्रतुण्डाय ते नमः ॥ ३० ॥

सर्वादिपूज्यकायै च सर्वादिपूज्यकाय ते ।
नमस्ते सर्वपूज्यायै सर्वपूज्याय ते नमः ॥ ३१ ॥

अनन्तखेलकारिण्यै ह्यनन्तखेलकारिणे ।
नमो नमो महाशक्ते नमः शक्तिधराय ते ॥ ३२ ॥

नानाभेदकरायै ते नानाभेदमयाय च ।
नमो नमः परेशायै परेशाय नमो नमः ॥ ३३ ॥

या शक्तिः सैव विघ्नेशो नान्तरं विद्यते क्वचित् ।
अज्ञानेन महाभागौ स्त्रीपुम्भावः प्रदृश्यते ॥ ३४ ॥

यत्र वेदादयो योगिनो देवेशा विसिस्मिरे ।
तत्र स्तोतुं च कोऽहं तावल्पज्ञानप्रधारकः ॥ ३५ ॥

भवतोर्दर्शनेनैव बोधयुक्तोऽहमञ्जसा ।
तेन स्तुतौ गणाध्यक्षौ योगशान्तिप्रदायकौ ॥ ३६ ॥

प्रयच्छतं महायोगमधुना मे नमाम्यहम् ।
भक्तिं च भवतोर्मे तु सुदृढां दातुमर्हथः ॥ ३७ ॥

इत्युक्त्वा दण्डवद्भूमौ पपात पदयोस्तयोः ।
मनुस्तौ हर्षसंयुक्तावूचतुस्तं महीपतिम् ॥ ३८ ॥

शक्तिविनायकावूचतुः ।
शान्तियोगं महाभाग लभसे योगसेवया ।
भक्तिं दृढां च नौ पादे सदाऽऽदित्यकुमारक ॥ ३९ ॥

भुक्त्वा मन्वन्तरं पूर्णं यशः स्थाप्य जगत्त्रये ।
अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो भविष्यसि ॥ ४० ॥

त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् ।
पठते शृण्वते चैव भविष्यति न संशयः ॥ ४१ ॥

एवमुक्त्वा गणाध्यक्षावन्तर्धानं प्रचक्रतुः ।
मनुः स्वगृहमागत्याऽभजत्तौ भावसंयुतः ॥ ४२ ॥

मन्वन्तरसमा भुक्त्वा ब्रह्मभूतो बभूव ह ।
गाणपत्यो महाभागः सावर्णिः प्र?र्थितोऽभवत् ॥ ४३ ॥

मयाऽवतारः कथितो नाम्ना शक्तिविनायकः ।
सर्वसिद्धिप्रदः पूर्णो लम्बोदरस्य भक्तितः ॥ ४४ ॥

मायया मोहितानां वै भिन्ना शक्तिः प्रदृश्यते ।
या शक्तिः स स्वयं दक्ष लम्बोदरो न संशयः ॥ ४५ ॥

[[३३]]

स्त्रीपुम्भावमयी माया त्यक्तव्या योगसेवया ।
तदा लम्बोदरः प्राप्तो योगिभिर्ब्रह्मनायकः ॥ ४६ ॥

केचिच्छक्तिं वदन्त्येनं केचिल्लम्बोदरं परम् ।
भक्त्या भिन्नं स्वरुच्यर्थं जानीह्यत्र न संशयः ॥ ४७ ॥

असत्स्वानन्दरूपा वै शक्तिर्वेदे प्रकीर्तिता ।
स लम्बोदर आख्यातो गणेशस्यावतारभृत् ॥ ४८ ॥

शक्तिविनायकस्यैतच्चरित्रं यः शृणोति वा ।
पठते भविता तस्य भुक्तिर्मुक्तिर्न संशयः ॥ ४९ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेपञ्चमे खण्डे लम्बोदरचरिते शक्तिविनायकमाहात्म्ये पञ्चदशोऽध्यायः ॥