१४ शिवविष्णुगर्वहरणम्

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

अन्यच्छृणु महाभाग लम्बोदरचरित्रकम् ।
शक्त्यधीनस्वभावाख्यं सर्वसिद्धिप्रदायकम् ॥ १ ॥

एकदा मिलिता देवाः सर्वे तत्र प्रजापते ।
विन्ध्ये देशे महाक्षेत्रे यात्रार्थं गणपस्य च ॥ २ ॥

तत्र वादः समुत्पन्नो मुनीनां सर्वसन्निधौ ।
पञ्च देवाः समानाश्च सगुणा निर्गुणा मताः ॥ ३ ॥

कथं विघ्नेश्वरो देवः सर्वपूज्यो बभूव ह ।
सर्वादौ पूजनीयः स चतुर्भिरपि निश्चितम् ॥ ४ ॥

अन्यदेवस्य भक्तैश्चेष्टदेवादौ गजाननः ।
पूजनीयः प्रयत्नेन किमिदं विपरीतकम् ॥ ५ ॥

गणेशोच्छिष्टभोक्तारो देवा विष्णुशिवादयः ।
इदं किं वेदवादेषु कथितमादिपूज्यतः ॥ ६ ॥

यथा देवाश्च चत्वारस्तथाऽयं गणनायकः ।
स्वस्वभक्तविधानेन पूजनीयो यदा भवेत् ॥ ७ ॥

तदा सर्वं समीचीनं स्वस्वमार्गपरं भवेत् ।
शुभाशुभे गणाधीशः सर्वादौ सम्मतः कथम् ॥ ८ ॥

इति प्राप्ते विवादे तु शक्तिः क्रोधसमन्विता ।
जगाद तान् मुनीन् सर्वान् देवांस्तद्धितकाम्यया ॥ ९ ॥

शक्तिरुवाच ।
लम्बोदरोऽयमेकश्च वेदे सङ्कथितोऽभवत् ।
न वयं तादृशा विप्रा लम्बोदरप्रवाचकाः ॥ १० ॥

तस्योदरात् समुत्पन्नं नाना विश्वं न संशयः ।
नाना ब्रह्म तथेशाश्च तत्रान्ते संस्थिता बभुः ॥ ११ ॥

मध्ये कलांशरूपेण क्रीडते गणनायकः ।
अतः सर्वादिपूज्यः स सर्वपूज्यो बभूव ह ॥ १२ ॥

सर्वेषां जनको माता तथा सर्वप्रदायकः ।
तत्र किं संशयं विप्राः कुरुथ ब्रह्मणस्पतौ ॥ १३ ॥

तस्यास्तद्वचनं श्रुत्वा जगदम्बामुवाच ह ।
शङ्करः क्रोधसंयुक्तस्तथा विष्णुश्च मानद ॥ १४ ॥

शिवविष्णू ऊचतुः ।
किं शक्ते वदसि प्रेम्णा गणेशे भक्तिभाविता ।
वयं पञ्च समानाश्च तत्राधिक्यं न विद्यते ॥ १५ ॥

परस्परं च देवेशि भावयामो न संशयः ।
आधिक्यं तेन किं देवे कत्थसे त्वं गणेश्वरे ॥ १६ ॥

यदि लम्बोदरश्चायमेको देवो न संशयः ।
तस्योदरात् समुत्पन्ना वयं सर्वे सुनिश्चितम् ॥ १७ ॥

तदाधारास्तथाऽन्ते वै तत्र लीना भवामहे ।
तदा वयं सृजामश्च जगद्ब्रह्म कथं वद ॥ १८ ॥

पालयामो हरामश्चाधिकं भवति किं महः ।
तथापि वेदवादेषु वयं लम्बोदरा नहि ॥ १९ ॥

अतो लम्बोदरस्यादौ सामर्थ्यं कीदृशं महत् ।
पश्यामस्त्वत्सन्निधाने पश्चात्तं प्रभजामहे ॥ २० ॥

यदाधिक्यं प्रपश्यामस्तदा सर्वादिपूज्यकम् ।
सर्वपूज्यं करिष्यामो नान्यथा देवि निश्चितम् ॥ २१ ॥

ततः शिवश्च विष्णुश्च कल्पयित्वा ह्यपारकम् ।
नैवेद्यं सत्यसङ्कल्पौ पूजायां संस्थितौ परौ ॥ २२ ॥

एककालसमाविष्टावावाह्य गणनायकम् ।
पुपूजतुर्महाभक्त्या छलधर्मस्वरूपया ॥ २३ ॥

गणेश्वरस्तत्र साक्षात् समायातः प्रजापते ।
दृष्ट्वाऽपारं स नैवेद्यं विस्मितोऽभूत् स्वेचतसि ॥ २४ ॥

ध्यानेनालोक्य विघ्नेशो ज्ञात्वा तयोर्हृदि स्थितम् ।
सत्यसङ्कल्परूपां तां सिद्धिमाकृष्य संस्थितः ॥ २५ ॥

सिद्धिहीनौ विष्णुशिवौ पूजायां निरतौ मुदा ।
नैवेद्यं गणराजाय ददतुः परमं ततः ॥ २६ ॥

[[३०]]

एकग्रासेन नैवेद्यमपारं गणनायकः ।
बभक्ष पुनरूचे तौ क्षुधितोऽहं विशेषतः ॥ २७ ॥

तस्य तद्वचनं श्रुत्वा शिवो विष्णुः पुनः प्रभू ।
नैवेद्यं सत्यसङ्कल्पात् कल्पयामासतुः पुरः ॥ २८ ॥

तथापि न च नैवेद्यं बभूवाणुस्वरूपकम् ।
तेन खेदसमायुक्तौ परस्परमथोचतुः ॥ २९ ॥

सत्यसङ्कल्परूपं यदैश्वर्यं क्व गतं परम् ।
आवां नरसमौ जातौ किं भविष्यति दैवतः ॥ ३० ॥

ब्रह्माणामीश्वराणां च महत् ब्रह्मत्वमैश्वरम् ।
सत्यसङ्कल्पभावाख्यं तेन हीना नराः स्मृताः ॥ ३१ ॥

अधुना किं करिष्यावो जीवतुल्यौ न संशयः ।
अयं लम्बोदरः क्रोधान्नरके पातयिष्यति ॥ ३२ ॥

अथवा मृत्युलोके वै निश्चितं भयमागतम् ।
कं यावः शरणं नाथं छलनायां परायणौ ॥ ३३ ॥

शक्त्या सम्बोधितं पूर्वं तत्राज्ञानसमन्वितौ ।
वादं कृत्वा महाविघ्नमावाभ्यां प्रकटीकृतम् ॥ ३४ ॥

अधुना शरणं श्रेष्ठं शुभदं प्रभविष्यति ।
गणेशश्च विशेषेण ब्रह्मनायक एव सः ॥ ३५ ॥

ततस्तौ भक्षितुं तत्र क्रोधयुक्तो गजाननः ।
बभूवाद्भुतरूपश्च दृष्ट्वा तं सम्प्रपेलतुः ॥ ३६ ॥

शक्तेश्चरणमासाद्य पेततुर्भयविह्वलौ ।
ततः सा तौ समाश्वास्यागृह्य दूर्वां तमाययौ ॥ ३७ ॥

प्रणम्य गणनाथं सोवाच कृत्वा कराञ्जलिम् ।
हृष्टरोमा च सर्वेशी भक्तिनम्रात्मकन्धरा ॥ ३८ ॥

शक्तिरुवाच ।
क्षमापराधमत्युग्रं देवदेवेश ते नमः ।
त्वन्मायागर्वसंयुक्तयोर्विष्णुशिवयोः प्रभो ॥ ३९ ॥

समुत्पन्नौ त्वदुदराद् बालभावधरौ तथा ।
शिवविष्णुगणेशानतयोर्दण्डं च मा कुरु ॥ ४० ॥

सर्वेषां पोषणे स्वामिंस्त्वं शक्तो नात्र संशयः ।
त्वदीयपोषणं पूर्णं त्वमेव कुरुषे सदा ॥ ४१ ॥

एवमुक्त्वा महामाया तस्मै दूर्वाङ्कुरं ददौ ।
मनसा कल्पयामासान्नं चतुर्विधमुत्तमम् ॥ ४२ ॥

ततो दूर्वाङ्कुरेणैव तृप्तोऽभूद्गणनायकः ।
महाभक्तिं ददौ तस्यै शक्तये भक्तवत्सलः ॥ ४३ ॥

प्रसन्नं तं गणाधीशं दृष्ट्वा तत्र समाययौ ।
हरिश्च शङ्करो देवः प्रणम्य प्रोचतुर्वचः ॥ ४४ ॥

क्षमापराधमुग्रं नौ गणाधीश विशेषतः ।
त्वन्मायया मोहितयोः सदा स्वानन्ददायक ॥ ४५ ॥

अधुना ते स्वरूपं यज्ज्ञातं पूर्णं महाप्रभो ।
सर्वादिपूज्य एकस्त्वं सर्वपूज्यो यथातथम् ॥ ४६ ॥

एवमुक्त्वा तुष्टुवतुर्गणेशानं महेश्वरौ ।
अथर्वशिरसा भक्त्या सन्तुष्टः स ततोऽभवत् ॥ ४७ ॥

शक्त्या सम्प्रार्थितस्तत्र भावयुक्तेन चेतसा ।
यथापूर्वं शिवो विष्णुस्तादृशौ स चकार ह ॥ ४८ ॥

सङ्कल्पसिद्धिसंयुक्तौ सम्बभूवतुरीश्वरौ ।
सदा भक्तिसमायुक्तौ भजतो गणनायकम् ॥ ४९ ॥

संशयेन विहीनाश्च जाता देवर्षयो जनाः ।
पूर्णभावयुतं ढुण्ढिमभजंस्ते विमत्सराः ॥ ५० ॥

न गणेशात् परं किञ्चित्तस्मादादौ गणेश्वरः ।
अन्ते सोऽपि न सन्देहो मध्ये नानाविधः स्मृतः ॥ ५१ ॥

सर्वेषां बीजरूपोऽयमतः सर्वादिपूज्यकः ।
सर्वपूज्यो गणेशानो वेदेषु कथितोऽभवत् ॥ ५२ ॥

[[३१]]

गाणपत्यस्वभावस्था बभूवुर्मुनयोऽमलाः ।
यत्र तत्र गणेशानं भजन्ते तेऽधुना प्रभुम् ॥ ५३ ॥

एतल्लम्बोदरस्यैव चरित्रं यः शृणोति वा ।
पठते तस्य विघ्नेशः सर्वदः प्रभविष्यति ॥ ५४ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेपञ्चमे खण्डे लम्बोदरचरिते शिवविष्णुगर्वहरणं नाम चतुर्दशोऽध्यायः ॥