१३ शक्तिवरप्रदानम्

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

पुरा दैत्याधिपः क्रूरो ब्रह्मणो वरदानतः ।
महिषासुरनामाऽथ बभूव भुवनाधिपः ॥ १ ॥

जित्वा देवगणान् सर्वांस्तथा स्वर्गेषु दैत्यपान् ।
स्थापयामास दुर्बुद्धिरवध्यः सर्वभावतः ॥ २ ॥

ततः कर्मविहीनं वै चकार स धरातलम् ।
अभवन्नमराः सर्वे उपोषणपरास्ततः ॥ ३ ॥

ततो देवर्षिभिस्तत्र तपसाऽऽराधिताऽभवत् ।
शक्तिः सर्वमयी साक्षादसत्स्वानन्दवासिनी ॥ ४ ॥

प्रगतेषु सहस्रे वै वर्षेषु प्रकटाऽभवत् ।
वरदानैर्वृता देवी वधाय महिषस्य सा ॥ ५ ॥

पुरुषात्तस्य भवति न भयं महिषस्य च ।
जिता वयं महादेवि रक्ष नो महतो भयात् ॥ ६ ॥

तस्य नाशं कुरुष्व त्वं सर्वेषां सुखकारणात् ।
पुत्रास्ते च वयं देवि रक्ष रक्ष महाभयात् ॥ ७ ॥

तथेति तानुवाचैव सिंहगा क्रोधसंयुता ।
ययौ दैत्यवधार्थं सा महामाया प्रजापते ॥ ८ ॥

स्थिता वनान्तरे धृत्वा मोहिनीरूपकं जगौ ।
गानं रसयुतं शक्तिः शुश्रुवे तत्र कोऽसुरः ॥ ९ ॥

स आगत्य महाशक्तिं दृष्ट्वा मोहयुतोऽभवत् ।
गत्वा दैत्याधिपं सद्यः कथयामास विस्तरात् ॥ १० ॥

न ब्रह्माण्डे समं किञ्चित्तया रूपेण तेजसा ।
स्त्रीरत्नं तद्विजानीहि राज्यभोगि गृहाण च ॥ ११ ॥

दैत्यस्य वचनं श्रुत्वा मोहयुक्तो महासुरः ।
प्रधानं प्रेषयामास तां समानेतुमादरात् ॥ १२ ॥

प्रधानेन महामाया दृष्टा मोहविवर्धिनी ।
मोहितः स उवाचाथ तां सर्वातिगरूपिणीम् ॥ १३ ॥

महिषो देवि सर्वस्य ब्रह्माण्डस्य पतिः परः ।
मृत्युहीनः सदा यौवनशाली शोभया युतः ॥ १४ ॥

तेनाऽहं प्रेषितो नूनं त्वदर्थं रूपशालिनि ।
भव पत्नी महाभागे दैत्येशस्य महात्मनः ॥ १५ ॥

तस्य तद्वचनं श्रुत्वा क्रोधयुक्ता बभूव ह ।
जगाद तं मदोत्सिक्तं दैत्यामात्यं प्रजापते ॥ १६ ॥

शक्तिरुवाच ।
परस्याऽहं महादैत्य स्त्री किं वदसि मां वचः ।
मूढवत्त्वां हनिष्यामि पुनर्भाषणसंयुतम् ॥ १७ ॥

तस्यास्तद्वचनं श्रुत्वा क्रोधयुक्तो महासुरः ।
दैत्यानाज्ञापयामास तां समानेतुमादरात् ॥ १८ ॥

तदाज्ञया महादैत्याः समाजग्मुः समन्ततः ।
तान् दृष्ट्वा क्रोधसंयुक्ता सा बभूव यशस्विनी ॥ १९ ॥

क्रोधानलेन सर्वान् सा ददाह च प्रजापते ।
तद् दृष्ट्वा परमाश्चर्यं पपाल सचिवो भयात् ॥ २० ॥

ज्ञात्वा वृत्तान्तमुग्रं स महिषो मोहसंयुतः ।
स्वयं सैन्यसमायुक्त आययौ तां यशस्विनीम् ॥ २१ ॥

तां दृष्ट्वा कामबाणैः स विद्धो दैत्याधिपः स्वयम् ।
सचिवान् प्रेषयामास धर्तुं समीपसंस्थिताम् ॥ २२ ॥

देव्या शस्त्रप्रहारेण हताः सर्वे प्रजापते ।
ततोऽतिकोपसंयुक्तः स्वयं रणसमागतः ॥ २३ ॥

समागतं महादैत्यं देवी क्रोधसमन्विता ।
धनुः सज्जमथो कृत्वा बाणान् चिक्षेप दारुणान् ॥ २४ ॥

तद्बाणैरपि दैत्येशा मृताः केचिद्रणाजिरे ।
केचिच्छिन्नास्तथा केचिन् मूर्च्छिताः सम्बभूविरे ॥ २५ ॥

ततः कोपयुतो दैत्यो महिषासुरसञ्ज्ञितः ।
युयुधे तां महाभागां नानाशस्त्रास्त्रकैः परैः ॥ २६ ॥

[[२७]]

युद्धं तत्र महाघोरं जातं तद्भयदायकम् ।
सर्वेषां च प्रजानाथ परस्परजयैषिणोः ॥ २७ ॥

एकवर्षं महादैत्यो युयुधे च तया पुरा ।
ततः कोपसमायुक्तः पर्वतं चिक्षिपेऽसुरः ॥ २८ ॥

पर्वताघातमात्रेण मूर्च्छितां जगदम्बिकाम् ।
तादृशीं तां गृहीत्वा स गन्तुं यावन्मनो दधे ॥ २९ ॥

तावत् सा सावधानाऽभूत् दृष्ट्वा दैत्यं महाबलम् ।
अन्तर्धाय स्वमात्मानं ययौ देवी हिमालयम् ॥ ३० ॥

तत्र खेदसमायुक्ता सा चेतसि दधार ह ।
अहोऽहं मनसा सर्वं भस्म कुर्यां क्षणार्धतः ॥ ३१ ॥

स्त्रीहस्तेन महादैत्यो मरिष्यति न संशयः ।
तथाऽपि मां जिगायैव यशोयुक्तोऽभवत् कथम् ॥ ३२ ॥

अतो विघ्नेश्वरेणैव कृतो विघ्नो न संशयः ।
भ्रान्ताऽहं तमपूज्याऽऽदौ गता सङ्ग्राममण्डले ॥ ३३ ॥

अहो शक्तिस्वरूपाऽहं मच्छक्त्या वर्ततेऽखिलम् ।
जिता शक्तिविहीना च जाता कौतुकमुत्तमम् ॥ ३४ ॥

अतः शक्तिरशक्तत्वं ममाधीनं न वर्तते ।
विघ्नराजस्य सत्ता या सत्या साऽन्यत्र भ्रान्तिजा ॥ ३५ ॥

यदा गणेश्वरस्तुष्टस्तदा जीवा महेश्वराः ।
ब्रह्माणि शक्तिरूपाणि शक्तं नान्यत् कदाचन ॥ ३६ ॥

एवं मनसि सन्धार्य सती सन्तापसंयुता ।
त्यक्त्वा सर्वं तपस्तेपे निराहारपरायणा ॥ ३७ ॥

विन्ध्याचलं समासाद्य संस्थिता जगदम्बिका ।
विघ्नराजं हृदि ध्यात्वा जजाप मन्त्रमुत्तमम् ॥ ३८ ॥

एवं वर्षसहस्रेणैकाक्षरं विधिना तथा ।
तपसोग्रेण विघ्नेशः सन्तुष्टस्तां ययौ परम् ॥ ३९ ॥

अस्थिचर्मावशेषां तां वीक्ष्य विस्मितमानसः ।
बोधयामास शक्तिं स विघ्नेशः करुणानिधिः ॥ ४० ॥

विघ्नेश उवाच ।

पश्य शक्ते च मां प्राप्तं यं ध्यायसि निरन्तरम् ।
वरं दातुं वृणुष्व त्वं दास्यामि भक्तियन्त्रितः ॥ ४१ ॥

भक्त्या च तपसा देवि सन्तुष्टं ते विशेषतः ।
तवाधीनं न सन्देहः पश्य मां वरदायिनम् ॥ ४२ ॥

तस्य तद्वचनं श्रुत्वा जगदम्बा बुबोध च ।
अपश्यद्गणराजं तमुत्थाय प्रणनाम सा ॥ ४३ ॥

पुपूज भक्तिसंयुक्ता तुष्टाव करसम्पुटैः ।
पुनः प्रणम्य विघ्नेशं सर्वसिद्धिप्रदायकम् ॥ ४४ ॥

शक्तिरुवाच ।
विघ्नेशाय नमस्तुभ्यं भक्तविघ्नविनाशिने ।
अभक्तानां विशेषेण विघ्नकर्त्रे नमो नमः ॥ ४५ ॥

गणेशाय गणानां वै पालकाय परात्मने ।
गुणरूपाय सर्वत्र संस्थिताय नमो नमः ॥ ४६ ॥

अमेयशक्तये चैवामेयमायाप्रचालक ।
मायाहीनस्वरूपाय मायिभ्यो मोहदायिने ॥ ४७ ॥

ब्रह्मभ्यो ब्रह्मदात्रे ते ब्रह्मणस्पतये नमः ।
ब्रह्मणे ब्रह्मरूपाय हेरम्बाय नमो नमः ॥ ४८ ॥

कर्मणां फलदात्रे ते कर्मणां कर्मधारक ।
कर्मयोगस्वरूपाय परेशाय नमो नमः ॥ ४९ ॥

ज्ञानानां ज्ञानरूपाय ज्ञानिनां ज्ञानधारिणे ।
सदा ज्ञानविहीनाय ज्ञानयोगाय ते नमः ॥ ५० ॥

समाय च स्वरूपाय समेभ्यः साम्यदाय ते ।
आनन्दानन्दकन्दाय समहीनाय ते नमः ॥ ५१ ॥

[[२८]]

सहजाय विहीनाय सहजैः सहजात्मने ।
सहजानां तु योगाय निर्मोहाय नमो नमः ॥ ५२ ॥

स्वानन्दाय सदा स्वानन्दानां स्वानन्दमूर्तये ।
मायायुक्ताय देवेश सर्वाधीशाय ते नमः ॥ ५३ ॥

अयोगाय सदा ब्रह्मनिवृत्तिं धारिणे नमः ।
असम्प्रज्ञातभावाय लम्बोदर नमो नमः ॥ ५४ ॥

शान्तिरूपाय योगाय योगेभ्यो योगदाय ते ।
चित्तभूमिविहीनाय नमश्चिन्तामणे नमः ॥ ५५ ॥

क्षमापराधकं नाथ विस्मृत्या भ्रमसंयुता ।
अप्रपूज्य गणाधीश गता योद्धुं परात्परम् ॥ ५६ ॥

अधुना मे वरं देहि त्वत्पादरसदायकम् ।
महाभक्तिप्रदं नाथ येनाऽहं तोषिता त्वया ॥ ५७ ॥

जयं देहि गणाधीश महिषस्य वधाय वै ।
रतायै देवदेवेश नमस्ते परमेश्वर ॥ ५८ ॥

एवं तस्याः संस्तुवत्या भक्त्या रससमुद्भवः ।
तेन युक्ता ननर्तैव साश्रुनेत्रा प्रजापते ॥ ५९ ॥

लम्बोदरस्तादृशीं स निरीक्ष्यैव जगाद ताम् ।
त्वया यद्याचितं देवि तत् सर्वं सफलं भवेत् ॥ ६० ॥

त्वया कृतमिदं स्तोत्रं भवेद् भक्तिरसप्रदम् ।
अपराधस्य देवेशि सहने कारणं मयि ॥ ६१ ॥

भुक्तिं मुक्तिं प्रदास्यामि स्तोत्रेणाऽहं हि संस्तुतः ।
यं यं चिन्तयसे कामं तं तं दास्यामि निश्चितम् ॥ ६२ ॥

एवमुक्त्वाऽन्तर्दधेऽसौ गणेशो ब्रह्मनायकः ।
शक्तिः खिन्नेव तत्रैव संस्थिता ध्यानसंयुता ॥ ६३ ॥

स्थापयामास मूर्तिं सा ब्राह्मणैर्वेदपारगैः ।
पूजयामास तां तत्र ततो योद्धुं समागता ॥ ६४ ॥

तदादि गणराजस्य स्थानं तत् पप्रथे भुवि ।
सर्वसिद्धिकरं पूर्णं यात्राकारि जनस्य च ॥ ६५ ॥

ब्रह्मभूयप्रदं पूर्णं तत्रैव मरणे सति ।
विघ्नेश्वरस्य दक्षैतद् बभूवे सर्वदा प्रियम् ॥ ६६ ॥

महिषासुरकं देवी जघान वरदानतः ।
युद्धं कृत्वा महाघोरं जगद्रक्षणलालसा ॥ ६७ ॥

पुनः समागता देवी विघ्नेशक्षेत्रके प्रभो ।
तत्र नित्यं महाभक्त्या भजते गणनायकम् ॥ ६८ ॥

इदं लम्बोदरस्यैव चरित्रं सर्वदं परम् ।
यः शृणोति नरो भक्त्या पठेद्वा तस्य सम्भवेत् ॥ ६९ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेपञ्चमे खण्डे लम्बोदरचरिते शक्तिवरप्रदानं नाम त्रयोदशोऽध्यायः ॥

[[२९]]