॥ श्रीगणेशाय नमः ॥
शौनक उवाच ।
लम्बोदरस्य माहात्म्यं त्वं जानासि सुखप्रदम् ।
मुखाम्बुजात् स्रवति च यस्यैवं शान्तिदामृतम् ॥ १ ॥
लम्बोदरस्य माहात्म्यं श्रुतं क्रोधहरं परम् ।
श्रोतुमिच्छा तथा मेऽपि वर्धते भावसंयुता ॥ २ ॥
अतो वद महाभाग पुनर्विघ्नेशसत्कथाम् ।
दक्षेण संश्रुतां पुण्यां मुद्गलाद्योगसागरात् ॥ ३ ॥
सूत उवाच ।
मुने शौनक धन्यस्त्वं महच्छृणु कथामृतम् ।
दक्षेण संश्रुतं पूर्णं मुद्गलेन प्रभाषितम् ॥ ४ ॥
लम्बोदरकथां श्रुत्वा हृष्टरोमा प्रजापतिः ।
प्रणम्य मुद्गलं विप्रमुवाच वचनं हितम् ॥ ५ ॥
दक्ष उवाच ।
धन्योऽसि योगिवन्द्योऽसि मुद्गल त्वं न संशयः ।
कथां वदसि कल्याणदायिनीं हर्षवर्धिनीम् ॥ ६ ॥
श्रुत्वा श्रुत्वा न मे तृप्तिर्जायतेऽमृतसन्निभाम् ।
अधुना वद योगीन्द्र पुनर्गणपतेः कथाम् ॥ ७ ॥
लम्बोदरः कथं चायं शक्तिरूपो बभूव ह ।
तस्य मुख्यं चरित्रं मे वद सर्वार्थदायकम् ॥ ८ ॥
शक्त्या संराधितो देवो महिषस्य वधाय च ।
कथं प्रकटरूपोऽसौ बभूवे तद्वदस्व मे ॥ ९ ॥
शेषपुत्रः कथं साक्षाद्बभूव गणनायकः ।
मायाकरविनाशाय कथं मूषकगः स्मृतः ॥ १० ॥
सावर्णिमनुना चैव कथमाराधितोऽभवत् ।
कथं शक्तिगणेशानोऽवतारः प्रबभूव ह ॥ ११ ॥
एतत्सर्वं सुविस्तीर्य वद मे करुणानिधे ।
लम्बोदरावताराश्च सुखदाः श्रवणात् प्रभो ॥ १२ ॥
अन्यत्त्वं वद योगीन्द्र गाणपत्यस्वरूपकम् ।
दीक्षायुक्तं विशेषेण कीदृशो गणपः स्मृतः ॥ १३ ॥
पूजा गणपतेश्चैव कीदृशी क्रियते जनैः ।
मन्त्रः केन प्रकारेण गृह्यते गुरुवक्त्रतः ॥ १४ ॥
विधियुक्तं गाणपत्यमार्गं मे वद विस्तरात् ।
येनाहं गाणपत्यश्च भविष्यामि सुदीक्षया ॥ १५ ॥
गाणपत्यांश्च योगीन्द्र प्रभो ज्ञास्यामि दृष्टिगान् ।
तदर्थं वद विप्रर्षे सर्वज्ञोऽसि न संशयः ॥ १६ ॥
महाभाग्येन ते विप्र दर्शनं मेऽभवत् किल ।
तव पादस्य वैचित्र्यं सर्वसन्तोषकारकम् ॥ १७ ॥
सूत उवाच ।
एवं पृष्टो महायोगी दक्षेण गणपप्रियः ।
जगाद तं प्रजानाथं पुनर्भावेन तोषितः ॥ १८ ॥
मुद्गल उवाच ।
धन्योऽसि कृतकृत्योऽसि दक्ष त्वं नात्र संशयः ।
येन प्रीतिर्गणपतावद्भुता ते प्रजापते ॥ १९ ॥
प्रष्टुः श्रोतुश्च वक्तुर्वै पावनीं सर्वदां पराम् ।
गणेशं कथयिष्यामि भक्तिं दृष्ट्वा सुतोषितः ॥ २० ॥
आदौ ब्रह्म च यत् प्रोक्तं तदेव ब्रह्मणि स्थितम् ।
स्वेच्छा तत्र समुत्पन्ना माया तस्य प्रजायते ॥ २१ ॥
स्वेच्छया द्विविधं जातं तदेवात्र न संशयः ।
स्वतः परत उत्थानात्तच्छृणुष्व सुयोगदम् ॥ २२ ॥
सदा स्वसुखनिष्ठं वै नानामायाविवर्जितम् ।
तद्वै परत उत्थानवाचकं कथितं मया ॥ २३ ॥
मायाखेलकरं यच्च ब्रह्म स्वेच्छामयं प्रभो ।
स्वत उत्थानकं प्रोक्तं पश्य वेदेषु मानद ॥ २४ ॥
स्वत उत्थानकं ब्रह्म विकल्पं प्रचकार ह ।
विकल्पात्तत् द्विधा भूतमेकानेकमयत्वतः ॥ २५ ॥
एकं देहिस्वरूपं तद्बहुरूपं शरीरकम् ।
ताभ्यां चतुर्विधं सृष्टं जगदेतच्चराचरम् ॥ २६ ॥
[[२४]]
एते ब्रह्मगणाः सर्वे क्रियासामर्थ्यहीनतः ।
न शक्ताः स्वस्वकार्येषु तपोयुक्तास्ततोऽभवन् ॥ २७ ॥
स्वस्वरूपं च सर्वेषां भवेत्तु किल यादृशम् ।
तादृशाय नमस्तुभ्यं मन्त्रं जेपुः परेश्वराः ॥ २८ ॥
दिव्यवर्षसहस्रेण प्रसन्नो गणनायकः ।
नरकुञ्जररूपः स प्रकटोऽभूत् हृदि प्रभुः ॥ २९ ॥
तं दृष्ट्वा ज्ञानसम्पन्ना जाता ब्रह्मगणाः परम् ।
ततस्ते ध्यानशीलाश्च पुपूजुर्हृदि संस्थितम् ॥ ३० ॥
तेषां पुरः स्वयं साक्षात् प्रकटोऽभूत् प्रजापते ।
शक्तिरूपधरो भूत्वा प्रसन्नो वरदायकः ॥ ३१ ॥
चतुर्बाहुधरा देवी सर्वावयवसंयुता ।
स्तनभारभराक्रान्ता शुशुभे परमात्मिका ॥ ३२ ॥
तां दृष्ट्वा विस्मिताः सर्वे पप्रच्छु: स्वहिते रताम् ।
का त्वं कस्मादिहायाता वद नः सकलं परे ॥ ३३ ॥
श्रीदेव्युवाच ।
गणेशोऽहं महाभागा यं ध्यायथ तपोन्विताः ।
तपसा तुष्टभावेन वरदाता समागतः ॥ ३४ ॥
एवमुक्त्वा स्वयं तत्र शक्तिः सा परमाद्भुता ।
गजवक्त्रयुतं रूपं दधे तेषां प्रपश्यताम् ॥ ३५ ॥
लम्बोदरं समालोक्य पुनर्विस्मितचेतसा ।
स्तोत्रं तैर्वै समारब्धं तावत् स्त्रीरूपमादधे ॥ ३६ ॥
दृष्ट्वा ब्रह्मगणास्तां ते विस्मिता गणपे रताः ।
गणेशकृपया सर्वे ज्ञानयुक्ता बभूविरे ॥ ३७ ॥
ततस्तैश्चेष्टितं तस्य ज्ञातं भक्त्या प्रजापते ।
लम्बोदरः स्वयं शक्तिरूपोऽयं नात्र संशयः ॥ ३८ ॥
या शक्तिः स गणेशानो गणेशः शक्तिरुच्यते ।
लम्बोदरात्मिका साक्षात् सर्वेषां जननी परा ॥ ३९ ॥
ततस्तां ते प्रणम्यादौ तुष्टुवुःकरसम्पुटैः ।
प्रजानाथ ब्रह्मगणाः सरोमाञ्चा विशेषतः ॥ ४० ॥
ब्रह्मगणा ऊचुः ।
नमस्ते शक्तिरूपायै सर्वेषां च क्रियात्मने ।
सर्वसत्ताप्रदात्र्यै ते जगदम्ब नमोऽस्तु ते ॥ ४१ ॥
अपारायै च सर्वेभ्यः सर्वदायै नमो नमः ।
भक्त्या स्वाधीनरूपायै महामाये नमोऽस्तु ते ॥ ४२ ॥
सदा स्वानन्दसंस्थायै जगद्ब्रह्मप्रचालिके ।
नानाभेदधरायै ते विघ्नेशायै नमो नमः ॥ ४३ ॥
अमेयायै नमस्तुभ्यं भक्तसंरक्षरूपिणि ।
कर्त्र्यै पात्र्यै च संहर्त्र्यै गणेशायै नमो नमः ॥ ४४ ॥
समुत्पन्नं त्वदुदरात् जगद्ब्रह्म न संशयः ।
तदेव सृष्टिरूपं त उदरं ते नमो नमः ॥ ४५ ॥
स्तनपानेन देवेशि पोषणं कुरुषे सदा ।
स्थितिरूपं तदेवाङ्गे स्तनौ ते वै नमो नमः ॥ ४६ ॥
अन्ते प्रलयकालज्ञे त्वया ग्रस्तं मुखेन च ।
संहारकं तदेवाङ्गे मुखं ते वै नमो नमः ॥ ४७ ॥
मनोवाणीविहीना त्वं भक्तवत्सलभावतः ।
स्वयं देहधरा जाता भक्तेशायै नमो नमः ॥ ४८ ॥
किं स्तुमस्त्वां महामाये शक्तिनामधरे परे ।
सर्वत्र शक्तभावेषु संस्थितायै नमो नमः ॥ ४९ ॥
वेदानां योगिनां चैव शक्तत्वं तत्त्वदीयकम् ।
त्वां स्तोतुं कः समर्थः स्यादतस्ते प्रणमामहे ॥ ५० ॥
इति स्तुता जगन्माता ब्रह्मणां जननी प्रभो ।
प्रसन्ना तानुवाचाऽथ भक्तिभावेन तोषिता ॥ ५१ ॥
शक्तिरुवाच ।
वरान् ब्रह्माणि वृणुत येषां ये मनसीप्सिताः ।
दास्यामि तपसा तुष्टा भक्त्या स्तोत्रेण सर्वपाः ॥ ५२ ॥
[[२५]]
भवत्कृतं मदीयं यत् स्तोत्रं सर्वार्थदं भवेत् ।
भक्तिप्रदं महाभागाः सर्वसामर्थ्यदायकम् ॥ ५३ ॥
यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः ।
भुक्तिमुक्तिप्रदं पूर्णं भविष्यति न संशयः ॥ ५४ ॥
एवं शक्तेर्वचः श्रुत्वा तां ब्रह्माणि प्रणम्य च ।
जगुः प्रहृष्टभावेन तां परां सर्वमातरम् ॥ ५५ ॥
ब्रह्माण्यूचुः ।
वरान् दास्यसि सर्वेशि तदा ते भक्तिमुत्तमाम् ।
देहि शक्ते यया मोहो नश्यत्यत्र न संशयः ॥ ५६ ॥
किं कर्तव्यं महादेवि तत्र सामर्थ्यमुत्तमम् ।
देह्यस्मभ्यस्ततो मातः करिष्यामश्च ते प्रियम् ॥ ५७ ॥
तेषां वचनमाकर्ण्य सन्तुष्टा सर्वदायिनी ।
तथेति तान्युवाचाथाऽन्तर्धानं सा चकार ह ॥ ५८ ॥
ततो वरबलेनैव सृष्ट्वा विश्वं चराचरम् ।
स्वस्वभोगप्रदं भिन्नं तेषु क्रीडन्ति नित्यदा ॥ ५९ ॥
पालयन्ति च विश्वानि संहरन्ति प्रजापते ।
स्वमहिम्नि स्थितान्येव ब्रह्माण्यत्र न संशयः ॥ ६० ॥
इति ते कथितश्चायमवतारः पुरातनः ।
लम्बोदरस्य भो दक्ष शक्तिरूपः सुखप्रदः ॥ ६१ ॥
यः शृणोति नरो भक्त्या तस्मै सर्वार्थदो भवेत् ।
ब्रह्मभूतकरश्चापि भुक्तिमुक्तिप्रदः परः ॥ ६२ ॥
सूत उवाच ।
श्रुत्वा मुद्गलवाक्यं वै दक्षो हृष्टमनाः स्वयम् ।
जगाद तं पुनर्विप्र शृणु संशयसंयुतः ॥ ६३ ॥
दक्ष उवाच ।
त्वया मुद्गल माहात्म्यं कथितं शक्तिसम्भवम् ।
श्रुतं मया महाभाग तथापि नुद संशयम् ॥ ६४ ॥
ब्रह्माणि देहहीनानि देहिहीनानि योगिप ।
तपादिकं तेषु नाथ कथं भवति तद्वद ॥ ६५ ॥
साश्रुनेत्रादिकं सर्वं स्तुतिपूजादिकं प्रभो ।
कथं तेषु भवेदेतद्भ्रान्तोऽहमधुना ह्यतः ॥ ६६ ॥
तस्य तद्वचनं श्रुत्वा हर्षयुक्तो महामुनिः ।
जगाद तं प्रजानाथं सर्वज्ञानां शिरोमणिः ॥ ६७ ॥
मुद्गल उवाच ।
ब्रह्माणि ब्रह्मभूतानि तेषु नास्ति महामते ।
देहदेहिमयो भाव इति सत्यं श्रुतेर्मुखात् ॥ ६८ ॥
तथापि सर्वरूपाणि वदन्ते तानि निश्चितम् ।
देहविकारहीनानि देहरूपाणि सर्वतः ॥ ६९ ॥
देहिविकारहीनानि देहिरूपाणि सर्वतः ।
ताभ्यां हीनानि भो दक्ष द्वाभ्यां वै संयुतानि च ॥ ७० ॥
ब्रह्माणि सर्वशास्त्रेषु विचारय महामते ॥
अतः सर्वं सदा तेषु सम्भवति न संशयः ॥ ७१ ॥
अन्यच्च शृणु वाक्यं मे सर्वसंशयनाशनम् ।
ब्रह्मणि ब्रह्मभावश्च वक्तुं केन न शक्यते ॥ ७२ ॥
सर्वं भोगादिकं तेषां तप आदि महामते ।
कथनीयं कथं शास्त्रैर्देहवद्वर्ण्यते ह्यतः ॥ ७३ ॥
शिष्यस्य बोधदानार्थं जानीहि त्वं प्रजापते ।
मा कुरुष्व वृथा तत्र संशयं वा विकारकम् ॥ ७४ ॥
सूत उवाच ।
मुद्गलस्य वचःश्रुत्वा हृष्टो दक्षस्तमब्रवीत् ।
संशयो मे गतःस्वामिंस्त्वदुक्तवचसाऽधुना ॥ ७५ ॥
लम्बोदरस्य माहात्म्यमधुना वद मानद ।
सर्वज्ञस्त्वमतो निःसंशयं सर्वं करोषि वै ॥ ७६ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेपञ्चमे खण्डे लम्बोदरचरिते शक्तिस्वरूपावतारवर्णनं नाम द्वादशोऽध्यायः ॥