॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
नैध्रुवो योगमार्गेण शमदमपरायणः ।
शान्तिं प्राप्तः क्रमेणैव योगिवन्द्यो बभूव ह ॥ १ ॥
ततः सोऽपि गणाधीशं न मुमोच तताप सः ।
तपः सेवापरो भूत्वा गाणपत्यप्रियार्थतः ॥ २ ॥
एवं तस्य तपो ज्ञात्वा तं ययौ स गजाननः ।
तं दृष्ट्वा सहसोत्थाय प्रणनाम कृताञ्जलिः ॥ ३ ॥
पुपूज भक्तिसंयुक्तः साश्रुनेत्रो महायशाः ।
सरोमाञ्चः प्रतुष्टाव सूक्तैर्गाणेशकैः प्रभुम् ॥ ४ ॥
ततस्तुष्टो गणाधीशस्तस्मै भक्तिं ददौ दृढाम् ।
गाणपत्यप्रियं कृत्वाऽन्तर्धानं स चकार वै ॥ ५ ॥
तदादि नैध्रुवो योगी गाणपत्यो बभूव ह ।
भजते गणनाथं सोऽधुना सर्वत्र सम्मतः ॥ ६ ॥
इति ते कथितं दक्ष चरित्रं सर्वदं परम् ।
लम्बोदरस्य माहात्म्यं सर्वशान्तिप्रदं प्रभो ॥ ७ ॥
क्रोधासुरचरित्रं तत्तथा ते कथितं मया ।
न संशयो भवेत्तस्मै श्रवणात् क्रोधशान्तिदम् ॥ ८ ॥
स्वस्वखण्डेषु सर्वत्र पश्चिमान्तदिगन्तरे ।
मुनिभिः स्थापितो लम्बोदरश्चैव गजाननः ॥ ९ ॥
तस्य दर्शनमात्रेण यथेप्सितफलं लभेत् ।
समुद्रतीरसंस्थस्य मूषकारूढकस्य वै ॥ १० ॥
एवं लम्बोदरस्यांशा अनन्ता विविधाः स्मृताः ।
स्वस्वधर्मप्ररक्षार्थं जनेभ्यः सर्वदाः प्रभो ॥ ११ ॥
तेषां चरित्रकोट्यंशो वक्तुं नैव प्रशक्यते ।
ब्रह्मादिभिर्महाभाग तत्र कोऽहं नराकृतिः ॥ १२ ॥
जगद्ब्रह्मक्रियार्थं स याचितस्तैः पुरा प्रभो ।
शक्तिरूपावतारं च धृत्वा सर्वार्थदोऽभवत् ॥ १३ ॥
महिषासुरनाशार्थं याचितो मायया पुरा ।
विघ्नराजः स्वयं सोऽपि बभूवे धर्मपालकः ॥ १४ ॥
मायाकरविनाशाय शेषपुत्रो बभूव ह ।
लम्बोदरः स्वयं साक्षात् स वै मूषकगः स्मृतः ॥ १५ ॥
सावर्णिमनुना चैवाऽऽराधितो गणनायकः ।
बभूव वै तत्र लम्बोदरः शक्तिविनायकः ॥ १६ ॥
ब्रह्म नानाविधं वेदे कथितं तु प्रजापते ।
जगत्तेषां तथा भिन्नं विहारार्थं बभूव ह ॥ १७ ॥
तेषु स्वानन्दभावेन स्थितोऽयं ब्रह्मधारकः ।
संयोगाभेदयोगेन स वै लम्बोदरः स्मृतः ॥ १८ ॥
संयोगाभेदयोगेन समाधिना प्रजापते ।
नानाविधं जगद्ब्रह्म भवन्नश्यति तद्गतम् ॥ १९ ॥
तेषां भेदा गणेशेन तथा सृष्टाश्च पालिताः ।
हृतास्तेन समाख्यातो वेदे स ब्रह्मवाचकः ॥ २० ॥
भेदा असत्यरूपाश्च तेषां ब्रह्म प्रकथ्यते ।
शक्तिर्जानीहि तां लम्बोदरमेव गजाननम् ॥ २१ ॥
समुत्पन्नास्तदुदरादन्ते तत्र गता बभुः ।
भेदा लम्बोदरस्तेन समाख्यातो ह्यसन्मयः ॥ २२ ॥
इदं लम्बोदराऽऽख्यानं कथितं ते प्रजापते ।
श्रवणात् पठनात् सर्वदायकं सर्वसम्मतम् ॥ २३ ॥
श्रोतुमिच्छसि किं भूयस्तद्वदस्व प्रजापते ।
कथयिष्यामि ते भावं प्रभो ज्ञात्वा गणेश्वरे ॥ २४ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेपञ्चमे खण्डे लम्बोदरचरिते लम्बोदरब्रह्मवर्णनं नाम एकादशोऽध्यायः ॥
[[२३]]