॥ श्रीगणेशाय नमः ॥
नैध्रुव उवाच ।
श्रुत्वा कथां महाभाग क्रोधशान्तिकरीं प्रभो ।
न तृप्यामि पुनः स्वामिन् वद विघ्नेशचेष्टितम् ॥ १ ॥
त्वया पृष्टः कथं ब्रह्मा स जगाद किमप्यहो ।
तद्वदस्व दयासिन्धो तात योगप्रदं हि चेत् ॥ २ ॥
मुद्गल उवाच ।
एवं पृष्टो महातेजा नैध्रुवेण पितृव्यकः ।
कथान्तरमुवाचेदं महायोगप्रदं महत् ॥ ३ ॥
असित उवाच ।
शृणु पुत्र प्रवक्ष्यामि योगशान्तिपदप्रदम् ।
गणेशानस्य माहात्म्यं ब्रह्मेशस्य विचक्षण ॥ ४ ॥
ब्रह्माणं च प्रणम्यादावपृच्छं विनयान्वितः ।
वद तात महायोगं शान्तिदं सर्वतारक ॥ ५ ॥
सहजे च महायोगिन् स्वाधीनत्वं प्रदृश्यते ।
स्वेच्छामयं कथं नाथ भवति ब्रह्म ते नमः ॥ ६ ॥
अतः शान्तिविहीनौ त्वां समागतौ न संशयः ।
शान्त्यर्थं वद किं सेव्यं करिष्यावस्त्वदाज्ञया ॥ ७ ॥
असित उवाच ।
वत्सरेण मया तात पृष्टः सर्वविदां वरः ।
उवाच प्रेमसंयुक्तो गाणपत्यः पितामहः ॥ ८ ॥
ब्रह्मोवाच ।
कर्मज्ञानं समं ब्रह्म सहजं तु चतुर्थकम् ।
तेषां संयोगभावे वै स्वानन्दो मौनधारकः ॥ ९ ॥
तत्र स्वाधीनगं ब्रह्म पराधीनं कुतस्त्रिधा ।
स्वसंवेद्यमयेनैव सुतो योगेन लभ्यते ॥ १० ॥
संयोगो मायया युक्तः सर्वसंयोगभावतः ।
अयोगे सर्वसंयोगो नश्यति व्यतिरेकतः ॥ ११ ॥
निवृत्त्या स्वधिया ब्रह्म प्राप्यते नान्यथा क्वचित् ।
स्वकीयाऽभेदतस्तत्र निवृत्तिर्योगिभिर्धृता ॥ १२ ॥
संयोगायोगयोर्योगे योगः शान्तिप्रदायकः ।
शान्त्या स एव लभ्यश्च सुतौ भवति नान्यथा ॥ १३ ॥
शान्तिरूपधरं पूर्णं गणेशं संवदन्ति च ।
वेदास्तं भावसंयुक्तो मुनी यदि भजिष्यथः ॥ १४ ॥
तदा शान्तियुतौ योगी भवन्तौ योगिसम्मतौ ।
भविष्यथो महाभागौ नान्यथा मे वचोऽनृतम् ॥ १५ ॥
सम्प्रज्ञातमयो देहोऽसम्प्रज्ञातमयं शिरः ।
गजाकारं तयोर्योगे गणेशो देहधारकः ॥ १६ ॥
गणाः समूहरूपाश्च समूहा ब्रह्मवाचकाः ।
तेषां स्वामी न सन्देहो गणेशो नामधारकः ॥ १७ ॥
चित्तरूपा महाबुद्धिश्चित्तमोहकरी मता ।
सिद्धिस्तयोः पतिः साक्षाद्गणेशो वेदवादतः ॥ १८ ॥
चित्तं मोहयुतं त्यक्त्वा चिन्तामणिं भजिष्यथः ।
योगशान्त्या महाभागौ नित्यं तं योगरूपकम् ॥ १९ ॥
असित उवाच ।
एवमुक्त्वा विधाता वां विरराम महामते ।
वत्सरेण समायुक्तस्तं प्रणम्य वनेऽगमम् ॥ २० ॥
आवाभ्यां साधितं पुत्र यथोद्दिष्टं च वेधसा ।
शमदमयुताभ्यां वै शान्तिः प्राप्ता सुनिश्चला ॥ २१ ॥
तथापि गणराजस्य भजने निरतौ पुरा ।
गते वर्षे गणाध्यक्ष आययौ वरदायकः ॥ २२ ॥
तं दृष्ट्वा प्रणतौ देवं पुनः पूज्य यथाविधि ।
गणेशानं तुष्टुविव भक्त्या नम्रात्मकन्धरौ ॥ २३ ॥
असितवत्सरावूचतुः ।
लम्बोदर नमस्तुभ्यं सततं योगरूपिणे ।
योगाकारशरीराय योगशान्तिप्रदायिने ॥ २४ ॥
विघ्नेशाय महाभक्तानां विघ्नहरणाय च ।
अभक्तानां महाविघ्नकारिणे ते नमो नमः ॥ २५ ॥
[[२१]]
स्वानन्दवासिने तुभ्यं सदा स्वानन्ददायिने ।
मूषकवाहनायैव मूषकध्वज वै नमः ॥ २६ ॥
अनाथाय गणेशाय सर्वेषां नाथरूपिणे ।
नाथानां नाथरूपाय विनायक नमोऽस्तु ते ॥ २७ ॥
हेरम्बाय च सर्वेषां मात्रे पित्रे नमो नमः ।
ज्येष्ठराजाय ज्येष्ठाय ज्येष्ठानां ज्येष्ठ ते नमः ॥ २८ ॥
अमेयायाऽप्रेमयायाऽनन्तखेलकराय ते ।
अनन्तानन्तरूपायानन्तदाय नमो नमः ॥ २९ ॥
सिद्धिबुद्धिपते नाथ भक्तसंरक्षकाय च ।
नानाशक्तिप्रपालायानन्तमायाविहारिणे ॥ ३० ॥
गजवक्त्राय सर्वेषामादिपूज्याय ते नमः ।
सर्वपूज्याय सर्वेषां सिद्धिदाय नमो नमः ॥ ३१ ॥
वक्रतुण्डाय वीराय चैकदन्ताय ते नमः ।
महोदराय देवाय देवदेवेश ते नमः ॥ ३२ ॥
असुराणां सहायाय नानावरप्रदाय च ।
असुराणां निहन्त्रे त आसुराय नमो नमः ॥ ३३ ॥
ब्रह्मणां पतये तुभ्यं ब्रह्मणां ब्रह्मवादिने ।
ब्रह्माकाराय वै ढुण्ढे वेदवेद्याय ते नमः ॥ ३४ ॥
मनोवाणी विहीनाय मनोवाणीमयाय च ।
योगेशाय परेशाय सर्वामयविवर्जित ॥ ३५ ॥
किं स्तुवस्त्वां गणाधीश यत्र शान्तिं समागताः ।
वेदा योगीन्द्रमुख्याश्चास्तुवन्तं प्रणमावहे ॥ ३६ ॥
एवं स्तुतो गणाधीशस्तौ जगाद महामुनी ।
वरं संवृणुतं विप्रौ दास्यामि भक्तियन्त्रितः ॥ ३७ ॥
भवद्भ्यां यत् कृतं स्तोत्रं तदेव मे प्रियं भवेत् ।
सर्वसिद्धिप्रदं पूर्णं तथा मद्भक्तिदायकम् ॥ ३८ ॥
एवमुक्तौ महायोगिनावूचतुर्गजाननम् ।
भक्तिं देहि गणाध्यक्ष त्वत्पदे सुदृढां पराम् ॥ ३९ ॥
गाणपत्यप्रियत्वं नौ देहि नाथ नमोऽस्तु ते ।
नान्यं वरं गणाधीश वृणुवः सुखदं कदा ॥ ४० ॥
तथेति तावुवाचाथ गणेशोऽन्तर्दधे स्वयम् ।
आवां भक्तिसमायुक्तौ भजावो गणनायकम् ॥ ४१ ॥
इति ते कथितं वत्स ज्ञानं गणपतेर्मया ।
शमदमपरो भूत्वा भज तं गणनायकम् ॥ ४२ ॥
एवमुक्त्वाऽसितस्तं वै नैध्रुवं गणपस्य सः ।
मन्त्रं ददौ प्रजानाथ तस्मात् एकाक्षरं पुनः ॥ ४३ ॥
ततश्चान्तर्हितो योगी सोऽसितः परमार्थवित् ।
गणेशं नैध्रुवस्तेपे तपः सम्पूज्य यत्नतः ॥ ४४ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेपञ्चमे खण्डे लम्बोदरचरिते वत्सराऽसितशान्तिवर्णनं नाम दशमोऽध्यायः ॥
[[२२]]