०९ लम्बोदरदेवर्षिकृतस्तुतिवर्णनम्

॥ श्रीगणेशाय नमः ॥

ब्रह्मोवाच ।
एवं क्रोधासुरं शान्तं दृष्ट्वा देवर्षयोऽमलाः ।
हर्षयुक्ता विशेषेण पुपूजुर्गणनायकम् ॥ १ ॥

पूजयित्वा विधानेन नेमुर्लम्बोदरं पुनः ।
ततस्तं तुष्टुवुः सर्वे भक्तिनम्रात्मकन्धराः ॥ २ ॥

देवर्षय ऊचुः ।
श्रेष्ठं प्रधानं सकलादिभूतं सर्वान्तगं पूर्णमनन्तभावम् ।
नित्यं निजात्मानमचिन्त्यसंस्थं लम्बोदरं तं च वयं नताः स्मः ॥ ३ ॥

बोधेन हीनं स्वसुखे निमग्नं बीजात्मकं साङ्ख्यमनन्तवेद्यम् ।
वैदेहयोगेन च लभ्यमेवं लम्बोदरं तं च वयं नताः स्मः ॥ ४ ॥

जीवं परानन्दमयं परेशं बोधस्वरूपं प्रकृतेर्लयस्थम् ।
देहैर्विहीनं च तदात्महीनं लम्बोदरं तं च वयं नताः स्मः ॥ ५ ॥

सोऽहं सदाभेदविवर्जितं वै देहात्मयोगं सकलावभासम् ।
नित्यं पुराणं पुरुषं गणेशं लम्बोदरं तं च वयं नताः स्मः ॥ ६ ॥

बिन्दुस्वरूपं मनसाऽथ गम्यं पादैर्विहीनं च चतुष्पदं यम् ।
नानात्मभेदाश्रितमेकदन्तं लम्बोदरं तं च वयं नताः स्मः ॥ ७ ॥

नादस्वरूपं च गुणेशमेकं सर्वत्र चक्षुः श्रुतितुण्डभूतम् ।
सर्वत्र हस्तोदरपादपद्मं लम्बोदरं तं च वयं नताः स्मः ॥ ८ ॥

[[१८]]

संस्थं सुषुप्तौ समभावदं वै द्वन्द्वज्ञमाद्यं द्विविधावभासम् ।
आनन्दकन्दं तमसा विभान्तं लम्बोदरं तं च वयं नताः स्मः ॥ ९ ॥

सूक्ष्मस्वरूपं च तथान्तरस्थं सर्वज्ञमाद्यं गणनायकं यम् ।
विज्ञानकोशस्थविहारकारं लम्बोदरं तं च वयं नताः स्मः ॥ १० ॥

स्थूलस्वरूपं सकलाभिमानं श्रेष्ठं रजोयुक्तमनन्तमाद्यम् ।
अन्नात्मभोगेषु विहारसिद्धं लम्बोदरं तं च वयं नताः स्मः ॥ ११ ॥

अध्यात्मरूपं तमसा चरन्तं द्रव्यप्रकाशं परमार्थभूतम् ।
देहेन्द्रियज्ञानमयं च ढुण्ढिं लम्बोदरं तं च वयं नताः स्मः ॥ १२ ॥

नित्यं रजोदेहविकारगं वै कर्मस्वरूपं विविधेन्द्रियस्थम् ।
तज्जाधिभूतात्मकमप्रमेयं लम्बोदरं तं च वयं नताः स्मः ॥ १३ ॥

ज्ञानस्वरूपं सकलामरस्थं सर्वेन्द्रियज्ञानकरं प्रभुं वै ।
तज्जाधिदैवप्रचुरं महान्तं लम्बोदरं तं च वयं नताः स्मः ॥ १४ ॥

आकाशरूपं सकलावभासं नादप्रचुरं सकलादिभूतम् ।
भूतैः सदा खेलकमादिनाथं लम्बोदरं तं च वयं नताः स्मः ॥ १५ ॥

वायुस्वरूपं जगदेकचालं प्राणादिसंस्थं स्वविभागदं यम् ।
देहप्रचारं दश नामभिश्च लम्बोदरं तं च वयं नताः स्मः ॥ १६ ॥

तेजःस्वरूपं सकलावभासं द्वन्द्वप्रचारं जठरे सुसंस्थम् ।
सन्धौ सदा व्याप्य विभागकारं लम्बोदरं तं च वयं नताः स्मः ॥ १७ ॥

जलस्वरूपं रसयुक्तमेव पुष्टिप्रदं षड्रसगं परेशम् ।
नित्यार्द्रभावस्य प्रकाशदं यं लम्बोदरं तं च वयं नताः स्मः ॥ १८ ॥

पृथ्वीस्वरूपं च धराधरेशं सर्वान्नमूलं विविधौषधिस्थम् ।
आकाररूपं च गजाननं वै लम्बोदरं तं च वयं नताः स्मः ॥ १९ ॥

विराट्स्वरूपस्थमनन्तपारं सर्वत्रनेत्रं च सहस्रशीर्षम् ।
सर्वत्र हस्ताननपादकादिं लम्बोदरं तं च वयं नताः स्मः ॥ २० ॥

रजोयुतं सृष्टिकरं द्विजेशमादिस्वरूपं प्रपितामहं यम् ।
समानभावेन सुरासुरस्थं लम्बोदरं तं च वयं नताः स्मः ॥ २१ ॥

सत्त्वप्रचारं हरिरूपधारं यं तामसं शङ्करवेषसंस्थम् ।
सूर्यप्रचारं जगदम्बिकागं लम्बोदरं तं च वयं नताः स्मः ॥ २२ ॥

इत्यादिभेदैः सुविराजमानं सर्वैविहीनं तु कथं स्तुवीमः ।
देवाः शिवाद्याश्च विकुण्ठिता वै लम्बोदरं तं च वयं नताः स्मः ॥ २३ ॥

ब्रह्मोवाच ।
स्तुत्वा देवर्षयस्त्वेवं प्रणेमुस्ते गजाननम् ।
लम्बोदरस्तानुवाच महाभागान् सुसिद्धिदः ॥ २४ ॥

भवत्कृतमिदं स्तोत्रं भवेन् मत्प्रीतिवर्धनम् ।
पठतां शृण्वतां सद्यः सर्वसिद्धिप्रदायकम् ॥ २५ ॥

धर्मार्थकाममोक्षाणां साधनं ब्रह्मदं परम् ।
भविष्यति सदा मान्यं सर्वकार्येषु सर्वदा ॥ २६ ॥

मारणोच्चाटनादीनि स्तोत्रेणैव सुरर्षयः ।
भविष्यति न सन्देहः परकृत्यविनाशनम् ॥ २७ ॥

पुत्रपौत्रादिकं सर्वं लभते स्तोत्रपाठतः ।
धनधान्यकलत्रादि सुखं विन्दति मानवः ॥ २८ ॥

कारागृहगतं सद्यो मोचयेत् स्तोत्रपाठतः ।
हृदीप्सितं लभेत् सर्वमेकविंशतिवारतः ॥ २९ ॥

[[१९]]

एकविंशतिपाठांश्च स्तोत्रस्यास्य करिष्यति ।
स सद्यो हि फलं भुङ्क्त एकविंशद्दिनावधि ॥ ३० ॥

प्रसन्नोऽहं प्रदास्यामि स्तोत्रेण मुनयोऽमराः ।
वरं ब्रूत महाभागा यद्यपि स्यात् सुदुर्लभम् ॥ ३१ ॥

लम्बोदरवचो देवर्षयः श्रुत्वा प्रणम्य तम् ।
जगुः प्रहृष्टचित्तास्ते साश्रुनेत्राः सुयन्त्रिताः ॥ ३२ ॥

देवर्षय ऊचुः ।
लम्बोदर प्रसन्नोऽसि वरदोऽसि महाप्रभो ।
तव भक्तिं सुसम्पूर्णां देहि क्रोधविवर्जिताम् ॥ ३३ ॥

क्रोधासुरस्त्वया नाथ कृतः सुशान्तिधारकः ।
तेन विश्वं गणाधीश वरयुक्तं कृतं प्रभो ॥ ३४ ॥

स्वस्वकर्मरताः सर्वे भविष्यन्ति सुधर्मिणः ।
वयं च स्वाधिकारेषु स्थास्यामस्त्वत्प्रसादतः ॥ ३५ ॥

मुनयो भयहीनास्ते यथाऽऽचारकराः प्रभो ।
भविष्यन्ति गणाधीश कं वरं तु वृणीमहे ॥ ३६ ॥

एवमुक्त्वा प्रणेमुस्ते लम्बोदरं सुखप्रदम् ।
ननृतुस्तत्पुरः सर्वे हर्षनिर्भरमानसाः ॥ ३७ ॥

लम्बोदरस्तानुवाच तथेत्येव प्रतापवान् ।
अन्तर्धानं चकाराऽसौ पश्यताममरर्षिणाम् ॥ ३८ ॥

ततो देवा द्विजास्तत्र मूर्तिं कृत्वा सुशोभनाम् ।
चतुर्भुजां गणेशस्य स्थापयामासुरादरात् ॥ ३९ ॥

पश्चिमे सागरे तीरे पुपूजुस्तां विशेषतः ।
तदादि तत् समुद्भूतं क्षेत्रं लम्बोदरस्य च ॥ ४० ॥

अंशेन स्वाधिकारेषु स्थिता देवर्षयोऽमलाः ।
पूर्णभावेन तत्रैव भक्तिं कुर्वन्ति नित्यदा ॥ ४१ ॥

एतल्लम्बोदरस्यैव कथितं सुचरित्रकम् ।
विश्वामित्रवसिष्ठौ च संश्रुतं क्रोधनाशनम् ॥ ४२ ॥

असद्ब्रह्ममयो लम्बोदरश्चायं गणेश्वरः ।
स्वतः परत उत्थानं करोति लीलया प्रभुः ॥ ४३ ॥

तस्य रूपं परं केन वक्तुं नैव प्रशक्यते ।
सर्वसंयोगयोगेन लभ्यते योगसेवया ॥ ४४ ॥

अयं लम्बोदरश्चैव पूर्णयोगप्रवाचकः ।
संयोगायोगयोर्योगे लभ्यते योगसेवया ॥ ४५ ॥

उदरात्तस्य सम्भूतौ संयोगायोगरूपकौ ।
तेन लम्बोदरश्चायं कथ्यते वेदवादिभिः ॥ ४६ ॥

असित उवाच ।

एवमुक्त्वा स्वयं ब्रह्मा विरराम महामते ।
वसिष्ठस्तं प्रणम्यैव गतः स्वाश्रममण्डले ॥ ४७ ॥

विश्वामित्रश्च मेधावी निःश्वस्य स्वस्थलं गतः ।
एवं गते मया तत्र पृष्टः सोऽपि पितामहः ॥ ४८ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेपञ्चमे खण्डे गजाननचरिते लम्बोदरदेवर्षिकृतस्तुतिवर्णनं नाम नवमोऽध्यायः ॥

[[२०]]