॥ श्रीगणेशाय नमः ॥
ब्रह्मोवाच ।
लम्बोदरं महादैत्यः समालोक्य रणं गतः ।
जगाद क्रोधसंयुक्तः क्रोधः सर्वविचारवित् ॥ १ ॥
क्रोधासुर उवाच ।
लम्बोदर महामूर्ख किमर्थं रणमागतः ।
देवानां हितमिच्छन् सन् मरिष्यसि च मेऽग्रतः ॥ २ ॥
येन ब्रह्माण्डगं पूर्णं जितं देवादयः कृताः ।
पशुतुल्या वने संस्था जेतुमिच्छसि तं मुधा ॥ ३ ॥
मम क्रोधो दहेत् सर्वं त्रैलोक्यं सचराचरम् ।
तत् पुरः कथमायातः सङ्ग्रामाय सुयन्त्रितः ॥ ४ ॥
त्वया मदीयकं सैन्यं हतं पुत्रौ हतौ तथा ।
अधुना शोकसंयुक्तो हनिष्यामि मदान्वितम् ॥ ५ ॥
शरणं याहि मां नो चेन् मरिष्यसि गजानन ।
उदरं स्फोटयिष्यामि बाणेनैकेन ते महत् ॥ ६ ॥
इत्यादि विविधैर्वाक्यैर्लम्बोदरं महासुरः ।
भर्त्सयामास तं देवो जगाद मदसंयुतम् ॥ ७ ॥
लम्बोदर उवाच ।
किं मां वदसि दैत्येन्द्र हनिष्यामि महाखलम् ।
त्वां धर्मस्य निहन्तारं स्वधर्मस्थापको ह्यहम् ॥ ८ ॥
सूर्यदत्ताद् वराद् दुष्ट दुष्टकर्मरतो भवान् ।
अतिपापैश्च तत् सर्वं निष्फलं ते बभूव ह ॥ ९ ॥
उत्पत्तिनाशयुक्तेभ्यो मरणं नैव ते भवेत् ।
नाऽहं जातो न दैत्येन्द मरिष्यामि कदाचन ॥ १० ॥
ब्रह्मभूतं च मां विद्धि सदा स्वानन्दवासिनम् ।
कथं जेष्यसि तं दुष्ट मनोवाणीविवर्जितम् ॥ ११ ॥
लम्बोदरस्य वचनं श्रुत्वा तत्तस्य धीमतः ।
उवाच विस्मितो भूत्वा तं पुनर्दैत्यनायकः ॥ १२ ॥
क्रोधासुर उवाच ।
न जातोऽसि यदा ब्रह्मन् कथं देहधरोऽसि वै ।
मनोवाणीविहीनश्चेत् कथं पश्यामि मां वद ॥ १३ ॥
लम्बोदर उवाच ।
इयं मदीयवामाऽङ्गे सिद्धिर्भ्रान्तिस्वरूपिका ।
सिद्ध्यर्थं सर्वलोकाश्च भ्रमन्ति भ्रान्तिसंयुताः ॥ १४ ॥
दक्षिणाऽङ्गे स्वयं बुद्धिः संस्थिता भ्रान्ति धारिणी ।
बुध्या बुध्या पुनस्तत्र भ्रान्तो भवति मानवः ॥ १५ ॥
चित्तरूपा स्वयं बुद्धिः पञ्चधा परिकीर्तिता ।
पञ्चभ्रान्तिमयी सिद्धिस्तयोः पतिरहं किल ॥ १६ ॥
नाना विश्वं महादैत्य नाना ब्रह्म तथा सदा ।
मदीयोदरगं विद्धि तेन लम्बोदरः स्मृतः ॥ १७ ॥
ममोदरात् समुत्पन्नं मया सम्पालितं तथा ।
अन्ते उदरगं कृत्वा क्रीडयामि निरन्तरम् ॥ १८ ॥
अतो मां शरणं गच्छ जीवितुं यदि वाञ्छसि ।
शुक्रो मां वेत्ति तेन त्वं बोधितोऽपि न बुद्ध्यसे ॥ १९ ॥
[[१६]]
नाऽहं दैत्यवधाकाङ्क्षी तथा देववधप्रियः ।
स्वस्वधर्मयुतान् सर्वान् पालयामि न संशयः ॥ २० ॥
पाताले दैत्यपाः सर्वे नरा भूमौ सुरा दिवि ।
संस्थिताश्चेदहं दैत्य स्वानन्दस्थो भवामि च ॥ २१ ॥
देवाः क्रोधसमाविष्टा जघ्नुर्दैत्यान् विशेषतः ।
पातालस्थांस्ततोऽहं वै दैत्येभ्यः सिद्धिदोऽभवम् ॥ २२ ॥
पुनस्तपोयुता दैत्या जित्वा देवान् महाबलान् ।
कर्मखण्डनभावेन हन्तुमिच्छां प्रचक्रिरे ॥ २३ ॥
तदाऽहं देवसङ्घेभ्यः सिद्धिदाताऽभवं पुरा ।
तेन च्छिद्रज्ञका देवा जघ्नुः सर्वासुरान् पुनः ॥ २४ ॥
त्वया सर्वं जितं दैत्य देवमूलनिकृन्तनः ।
सर्वेन्द्रस्तेन भवसि त्वां हनिष्यामि निश्चितम् ॥ २५ ॥
तस्य तद्वचनं रम्यं श्रुत्वा क्रोधासुरः पुनः ।
विस्मितस्तं जगादैव हर्षनिर्भरमानसः ॥ २६ ॥
क्रोधासुर उवाच ।
नमामि त्वां गणाध्यक्ष सुरासुरमयं परम् ।
अधुना भक्तिसंयुक्तं पालयस्व शरण्यद ॥ २७ ॥
दर्शय स्वात्मरूपं मे सर्वसंशयनाशनम् ।
लम्बोदरार्थसंयुक्तं ब्रह्माकारं गजाननम् ॥ २८ ॥
लम्बोदरस्तस्य वाक्यं समाकर्ण्य सुहर्षितः ।
भक्तियुक्तं मनस्तस्य ज्ञात्वा रूपमदर्शयत् ॥ २९ ॥
ज्ञानचक्षुश्च सन्दत्तं तेन दैत्याय तं पुनः ।
लम्बोदरं महाक्रोधोऽपश्यत् परमविस्मितः ॥ ३० ॥
ब्रह्मेशं प्रणनामाऽथ सरोमाञ्चो महासुरः ।
लम्बोदरः पुनस्तत्र पूर्वरूपो बभूव ह ॥ ३१ ॥
तत्र क्रोधासुरस्तं वै पूजयन् भक्तिसंयुतः ।
नत्वा तुष्टाव संहृष्टः साश्रुनेत्रः प्रतापवान् ॥ ३२ ॥
क्रोधासुर उवाच ।
लम्बोदर नमस्तुभ्यं शान्तियोगस्वरूपिणे ।
सर्वशान्तिप्रदात्रे ते विघ्नेशाय नमो नमः ॥ ३३ ॥
असम्प्रज्ञातरूपेयं शुण्डा ते नात्र संशयः ।
सम्प्रज्ञातमयो देहो देहधारिन्नमो नमः ॥ ३४ ॥
स्वानन्दे योगिभिर्नित्यं दृष्टस्त्वं ब्रह्मनायकः ।
तेन स्वानन्दवासी त्वं नमः संयोगधारिणे ॥ ३५ ॥
समुत्पन्नं त्वदुदराज्जगन्नानाविधं प्रभो ।
ब्रह्म तद्वन्न सन्देहो लम्बोदर नमोऽस्तु ते ॥ ३६ ॥
त्वदीयकृपया देव मया ज्ञातं महोदर ।
त्वत्तः परतरं नास्ति परेशाय नमो नमः ॥ ३७ ॥
हेरम्बाय नमस्तुभ्यं विघ्नहर्त्रे कृपालवे ।
आदिमध्यान्तहीनाय तन्मयाय नमो नमः ॥ ३८ ॥
सिद्धिबुद्धिविहारज्ञ सिद्धिबुद्धिपते नमः ।
सिद्धिबुद्धिप्रदात्रे ते वक्रतुण्डाय वै नमः ॥ ३९ ॥
सर्वात्मकाय सर्वादिपूज्याय ते नमो नमः ।
सर्वपूज्याय वै तुभ्यं भक्तसंरक्षकाय च ॥ ४० ॥
अतः प्रसीद विघ्नेश दासोऽहं ते गजानन ।
लम्बोदराय नित्यं नमो नमस्ते महात्मने ॥ ४१ ॥
स्वत उत्थानपरत उत्थाने ब्रह्म धारयन् ।
तवोदरात् समुत्पन्नं तं किं स्तौमि परात्परम् ॥ ४२ ॥
इति स्तुत्वा महादैत्यः प्रणनाम गजाननम् ।
तमुवाच गणाध्यक्षो भक्तं भक्तजनप्रियः ॥ ४३ ॥
लम्बोदर उवाच ।
वरं वृणु महाभाग क्रोधासुर हृदीप्सितम् ।
दास्यामि भक्तिभावेन स्तोत्रेणाऽहं हि तोषितः ॥ ४४ ॥
[[१७]]
त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं भवेत् ।
यः पठिष्यति तस्यैव क्रोधजं न भयं भवेत् ॥ ४५ ॥
शृणुयात्तस्य तद्वच्च भविष्यति न संशयः ।
यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः ॥ ४६ ॥
क्रोधासुर उवाच ।
यदि लम्बोदर त्वं मे प्रसन्नो वरदोऽसि भोः ।
तदा त्वत्पादपद्मे च भक्तिं देहि दृढां प्रभो ॥ ४७ ॥
आज्ञां कुरु महाभाग सेवार्थं तां करोम्यहम् ।
स्थानं वृत्तिं च मे देहि देहपोषणकारिणीम् ॥ ४८ ॥
ब्रह्मोवाच ।
क्रोधासुरस्य वाक्यं तच्छ्रुत्वा हर्षसमन्वितः ।
लम्बोदरस्तं जगाद स पुनर्दैत्यनायकम् ॥ ४९ ॥
लम्बोदर उवाच।
मदीया सुदृढा भक्तिः प्रभविष्यति तेऽनघ ।
वस त्वं भयहीनश्च स्थाने ते नात्र संशयः ॥ ५० ॥
यत्रारम्भे महादैत्य मदीयं स्मरणं न हि ।
तत्र त्वं दैत्यभावेन कुरु राज्यं महामते ॥ ५१ ॥
तदीयपुण्यजं सर्वं भुङ्क्ष्व नित्यं सुकर्मजम् ।
ज्ञानादिसकलं तद्वत् त्वदीयं नात्र संशयः ॥ ५२ ॥
मद्भक्ता ये महादैत्य तान् रक्षस्व यथासुखम् ।
गाणपत्यप्रियस्त्वं वै भविष्यसि न संशयः ॥ ५३ ॥
एवमुक्तो महादैत्यः क्रोधः परमहर्षितः ।
लम्बोदरं प्रणम्यैव ययौ स्वस्थानमुत्तमम् ॥ ५४ ॥
दैत्या राहुमुखाः सर्वे तं त्यक्त्वा भयसंयुताः ।
पातालं विविशुर्विप्रौ शुक्रः संहर्षितोऽभवत् ॥ ५५ ॥
एवं क्रोधासुरं शान्तं चकार गणनायकः ।
क्रोधो गणेशभक्तिं वै कुर्वन् सन् संस्थितोऽभवत् ॥ ५६ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेपञ्चमे खण्डे लम्बोदरचरिते क्रोधासुरशान्तिवर्णनं नामाऽष्टमोऽध्यायः ॥