॥ श्रीगणेशाय नमः ॥
ब्रह्मोवाच ।
एकरात्रं महाघोरं युद्धं बभूव दारुणम् ।
ततो रक्तप्रवाहैश्च नद्यो जाता जलौघवत् ॥ १ ॥
न जयः प्राप्यते देवैर्नासुरैर्यमसन्निभैः ।
मघवा वज्रपातैस्तांश्चूर्णयामास दानवान् ॥ २ ॥
ततो जृम्भोऽतिसङ्क्रुद्धो गदामादाय दारुणाम् ।
युयुधे देवराजेन महाबलपराक्रमः ॥ ३ ॥
गदया देवराजं स मूर्च्छितं प्रचकार ह ।
ततो हाहाकृतं सर्वैर्देवसैन्यं पपाल तत् ॥ ४ ॥
इन्द्रः सञ्ज्ञासमायुक्तः पुनः संयुयुधे भृशम् ।
वज्रेण पातयामास जृम्भं तं धरणीतले ॥ ५ ॥
त्रिशूलेन हतस्तत्र रावणः पतितो भुवि ।
शङ्करेण ततः सर्वे पपलुर्दानवा मृधे ॥ ६ ॥
गदया विष्णुना तत्र बलिः सम्मूर्च्छितः कृतः ।
कुम्भकर्णश्च चन्द्रेण पीडितो मूर्च्छितोऽभवत् ॥ ७ ॥
राहुः सूर्येण सङ्ग्रामे तेजसा पीडितो भृशम् ।
पपात मूर्च्छया भूमौ हा हा कृत्वा महामुनी ॥ ८ ॥
[[१४]]
द्वन्द्वयुद्धं परे ये ये ह्यकुर्वन्नमरैर्बलात् ।
ते ते सर्वे च देवेन्द्रैर्जिताः सर्वे पलायिताः ॥ ९ ॥
भक्तवत्सलभावेन शङ्करो विष्णुरञ्जसा ।
रावणं च बलिं तत्र चक्रतुर्न मृतौ मृधे ॥ १० ॥
ततोऽतिकोपसंयुक्ता देवेन्द्राः शस्त्रवृष्टिभिः ।
असुरान् मारयामासुः सर्वत्र भयसंयुतान् ॥ ११ ॥
प्रलयं मेनिरे तत्र दैत्यास्त्राससमाकुलाः ।
देवांस्ते शरणं जग्मुः केचित् प्राणपरीप्सया ॥ १२ ॥
जय लम्बोदर स्वामिन् जय विघ्नेश देवप ।
हेरम्ब वक्रतुण्ड त्वं जयेत्यूचुः प्रहर्षिताः ॥ १३ ॥
दैत्यानां कदनं दृष्ट्वा क्रोधः परमविस्मितः ।
निःश्वस्य चिन्तया युक्तो बभूवे किं भविष्यति ॥ १४ ॥
पितुः शोकं विदित्वा तौ हर्षः शोकश्च संयुगे ।
ययतुः शस्त्रवर्षेण ववर्ष तौ घनौ यथा ॥ १५ ॥
तयोरमोघरूपैश्च शस्त्रैर्देवा हता मृधे ।
छिन्नाङ्गाः पपलुस्तत्र दैत्यसन्त्रासतापिताः ॥ १६ ॥
इन्द्रं च सहसाऽऽगत्य शोकः परमदारुणः ।
चकार मूर्च्छितं सद्यो गदया मूर्ध्नि घाततः ॥ १७ ॥
सङ्गृह्य स्वबले सोऽपि स्थापयामास देवपम् ।
ततः शुक्रेण दैत्येन्द्रा विद्यया नीरुजाः कृताः ॥ १८ ॥
बलिमुख्या ययुः सङ्ग्रामं पुनश्च महामुनी ।
चक्रेण सहसा हर्षश्चन्द्रं चक्रे स मूर्च्छितम् ॥ १९ ॥
ततः कोपसमायुक्तः शङ्करो युयुधे भृशम् ।
त्रिशूलेन महादैत्यान् जघान सकलान् प्रभुः ॥ २० ॥
शङ्करस्य बलं वीक्ष्य हर्षस्तत्र समाययौ ।
युयुधे तेन दैत्येन्द्रपुत्रस्तेजस्विनां वरः ॥ २१ ॥
नानाविधं महाघोरं युद्धं बभूव दारुणम् ।
हर्षस्य शङ्करस्यैव परस्परजयैषिणोः ॥ २२ ॥
ततस्त्रिशूलघातेन शङ्करस्तं जघान ह ।
पतितं मूर्च्छितं हर्षं दृष्ट्वा दैत्या भयातुराः ॥ २३ ॥
पतितान् दैत्यपान् दृष्ट्वा काव्यस्तत्र समागतः ।
हर्षं मूर्च्छाविहीनं वै चकार स्वेन तेजसा ॥ २४ ॥
ततो हर्षसमायुक्ता दैत्येन्द्रा युयुधुर्भृशम् ।
विष्णुस्तेषां बलं वीक्ष्य चक्रं मुमोच दारुणम् ॥ २५ ॥
चक्रेण क्षुरधारेण हता दैत्या अनेकशः ।
प्रपेलुर्भयसंयुक्ताश्छिन्नभिन्नाङ्गका मृधे ॥ २६ ॥
ततः शोकः समायातः शूलं मुमोच तैजसम् ।
आगत्य सहसा विष्णोः पपात हृदि विप्रपौ ॥ २७ ॥
ततः सम्मूर्च्छितस्तत्र पपात च जनार्दनः ।
दैत्या हर्षयुताः सर्वे नादं चक्रुर्महारणे ॥ २८ ॥
ततो हर्षो महाक्रोधाद्गदया मृत्युकल्पया ।
चकार शङ्करं तत्र पतितं मूर्च्छया भृशम् ॥ २९ ॥
ततो हा हा रवं कृत्वा देवाः सर्वे पराजिताः ।
प्रपेलुः सर्वदेवेन्द्रा दैत्याभ्यां त्रासिता बलात् ॥ ३० ॥
तद् दृष्ट्वा परमाश्चर्यं लम्बोदरः प्रतापवान् ।
अङ्कुशं क्रोधसंयुक्तो मुमोच दैत्यमण्डले ॥ ३१ ॥
तेजोरूपं महास्त्रं तद् दृष्ट्वा दैत्या विसिस्मिरे ।
यावत्तावच्च दैत्येन्द्रौ हतौ हर्षश्च शोककः ॥ ३२ ॥
मायया गणनाथश्च शुक्रं गृह्य गुहान्तरे ।
चिक्षेप च ततः सर्वे प्रपेलू राहुमुख्यकाः ॥ ३३ ॥
ततोऽतिकोपसंयुक्तः क्रोधः स्वयमुपागतः ।
पुत्रशोकं हठात् गृह्य बाणवृष्टिं चकार ह ॥ ३४ ॥
[[८]]
तद्बाणैरपि तत्रस्था देवाः सर्वे महामुनी ।
छिन्नाङ्गा अपलन् सद्यो हाहाकाररवा दिशः ॥ ३५ ॥
लम्बोदरः समाश्वास्य देवेशस्तान् प्रतापवान् ।
आययौ रणभूमिं स पाशहस्तोऽसिधारकः ॥ ३६ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेपञ्चमे खण्डे लम्बोदरचरिते क्रोधासुरसमागमो नाम सप्तमोऽध्यायः ॥