॥ श्रीगणेशाय नमः ॥
ब्रह्मोवाच ।
विश्वामित्रवसिष्ठौ च शृणुतं परमाद्भुतम् ।
चरितं गणनाथस्य महाशान्तिप्रदायकम् ॥ १ ॥
कदाचित् क्रोधको दैत्यः सभासनगतोऽभवत् ।
तत्राकाशभवां वाणीं शुश्राव भयदायिनीम् ॥ २ ॥
लम्बोदरश्च मुनिभिर्देवैः सार्धं वधाय ते ।
प्रार्थितः स तु हत्वा त्वां जगत् सुखि करिष्यति ॥ ३ ॥
तच्छ्रुत्वा मूर्च्छितं क्रोधं सहसा भयविह्वलम् ।
तं दैत्येन्द्राश्च विप्रर्षी सावधानं प्रचक्रिरे ॥ ४ ॥
शोकयुक्ता विशेषेण पप्रच्छुस्तं महासुराः ।
बल्याद्या भयभीताश्च किं जातं वद मानद ॥ ५ ॥
दैत्येशानां वचः श्रुत्वा भययुक्तो महासुरः ।
जगाद तान् स वृत्तान्तमाकाशे वाक्समुद्भवम् ॥ ६ ॥
तच्छ्रुत्वा कुपिता दैत्यास्तमूचुर्मदसंयुताः ।
देवान् मुनिगणान्नाथ हनिष्यामोऽद्य निश्चितम् ॥ ७ ॥
[[१२]]
अस्माकं शत्रवो देवास्तैः कृतं दारुणं महत् ।
आज्ञापय महाभाग सर्वान् देवजिघांसया ॥ ८ ॥
ततोऽतिहर्षितः क्रोधः स्वयं युद्धाय सज्जितः ।
दैत्येशैः संवृतः सद्यो ययौ शैलेन्द्रमुख्यकम् ॥ ९ ॥
समागतं महाक्रोधं दैत्येशैः संवृतं ततः ।
देवाः सर्वे भयोद्विग्नाः सस्मरुर्गणनायकम् ॥ १० ॥
तेषां स्मरणमात्रेण लम्बोदरः प्रतापवान् ।
मूषकारूढ एवासावागतोऽभून् महाप्रभुः ॥ ११ ॥
पाशादिशस्त्रसंयुक्तं सिद्धिबुद्धिसमन्वितम् ।
नाभिशेषं त्रिनेत्रं तं ददृशुश्च सुरर्षयः ॥ १२ ॥
ततस्तं ते प्रणेमुर्वै भयं त्यक्त्वा सुहर्षिताः ।
स्तुत्वा वृत्तान्तमुग्रं तं कथयामासुरादृताः ॥ १३ ॥
श्रुत्वा वृत्तान्तमुग्रं स तान् जगाद सुराधिपान् ।
लम्बोदरः प्रसन्नात्मा मुनीन् क्रोधयुतः प्रभुः ॥ १४ ॥
लम्बोदर उवाच ।
मा भयं कुरुत प्राज्ञा हनिष्यामि महासुरम् ।
स्वधर्मस्थान् जनान् सर्वान् करिष्यामि न संशयः ॥ १५ ॥
ततः क्रोधासुरस्तत्र समीपे समुपागतः ।
दृष्ट्वा लम्बोदरं देवं भयभीतो बभूव ह ॥ १६ ॥
उवाच दैत्यपांस्तत्र सत्या वाक् सा न संशयः ।
अयं लम्बोदरो नूनं देवैः सम्प्रार्थ्यतेऽसुराः ॥ १७ ॥
तस्य तद्वचनं श्रुत्वा दैत्याः क्रोधारुणेक्षणाः ।
ऊचुस्तं दैत्यनाथं ते गर्वयुक्ता बलान्विताः ॥ १८ ॥
दैत्येशा ऊचुः ।
लम्बोदरयुतान् देवान् हनिष्यामो न संशयः ।
मा कुरुष्व वृथा चिन्तां रक्ष पृष्ठं महामते ॥ १९ ॥
देहधारी गणाध्यक्ष आगतो नात्र संशयः ।
उत्पत्तिनाशवान् देहः किं करिष्यति तेऽशुभम् ॥ २० ॥
काव्यं दैत्यगणास्तत्र सस्मरुर्भक्तिसंयुताः ।
तेषां स्मरणमात्रेण स चापि ह्यागतोऽभवत् ॥ २१ ॥
तं प्रणम्य गुरुं दैत्या वृत्तान्तं सर्वमञ्जसा ।
कथयन्ति स्म तं श्रुत्वा शुक्रस्तान् प्रत्युवाच ह ॥ २२ ॥
शुक्र उवाच ।
सिद्धिपतिं परित्यज्य सिद्धिमिच्छति दुर्मतिः ।
तथा त्यक्त्वा बुद्धिपतिं स्फूर्तिमिच्छति मूर्खवत् ॥ २३ ॥
विघ्नराजं सदैकं यं तं त्यक्त्वा विघ्नहीनकाः ।
कथं भवन्ति वदत दैत्येन्द्रा मां विनिश्चयात् ॥ २४ ॥
अतो युद्धं परित्यज्य शरणं तस्य शोभनम् ।
भविष्यति न सन्देहो नोचेत् क्रोधो मरिष्यति ॥ २५ ॥
शुक्रस्य वचनं श्रुत्वा बलिस्तत्र जगाद तम् ।
कर्मणा सिद्धिदाताऽयं स्फूर्तिदाता भवत्यहो ॥ २६ ॥
कर्मणा विघ्नहीनत्वं सविघ्नं प्रकरोति च ।
अतो वयं महायोगिन् कर्मणा तं जयामहे ॥ २७ ॥
तस्य तद्वचनं श्रुत्वा सर्वे दैत्येन्द्रकादयः ।
साधु साध्वब्रुवंस्तत्र सङ्ग्रामायोद्यता बभुः ॥ २८ ॥
ततो भावि बलं वीक्ष्य काव्यस्तत्र मुनीश्वरौ ।
तूष्णीम्भावं समाधृत्य संस्थितोऽभूत् स योगवित् ॥ २९ ॥
देवाः सर्वे महास्त्रैस्ते युक्ताः क्रोधसमन्विताः ।
आययू रणभूमिं च दैत्येशाश्च तथा ययुः ॥ ३० ॥
ततः परस्परं युद्धं बभूवे दारुणं महत् ।
दैत्यानां चैव देवानां परस्परविनाशनम् ॥ ३१ ॥
देवा दैत्या युयुधिरे कृत्वा मरणनिश्चयम् ।
शस्त्रास्त्रैर्बलगर्वेण प्रेरिता रणदुर्मदाः ॥ ३२ ॥
[[१३]]
वीराणामभवन्नादैर्वादित्राणां च वाजिनाम् ।
बृंहितानां च शङ्खानां दिशो नादयुतास्ततः ॥ ३३ ॥
सैन्यपादभवो रेणुश्छादयामास भास्करम् ।
नाभूत् स्वपरबोधोऽपि जघ्नुस्ते च परस्परम् ॥ ३४ ॥
ततो रक्तप्रवाहश्च सम्भूतः शस्त्रघाततः ।
रजःकणास्तेन सर्वे मज्जिता अभवन् मृधे ॥ ३५ ॥
ततः परस्परं दृष्ट्वा जघ्निरे क्रोधसंयुताः ।
देवाश्च दानवास्तद्वत् परस्परजये रताः ॥ ३६ ॥
दिनत्रयमभूद्युद्धं घोरं सर्वभयावहम् ।
ततो दैत्यगणाः सर्वे पपलुस्त्राससंयुताः ॥ ३७ ॥
देवा हर्षयुतास्तत्र जय लम्बोदर प्रभो ।
ऊचुस्तान् हन्तुमायाता दैत्येशाः क्रोधसंयुताः ॥ ३८ ॥
बलिश्च रावणो जृम्भो माल्यवान् कुम्भकर्णकः ।
राहुश्चान्ये महावीराः सङ्ख्यातुं न प्रशक्यते ॥ ३९ ॥
तैः शस्त्रनिचयैर्देवाः संहताः पपलुस्तदा ।
हित्वा सङ्ग्रामभूमिं ते छिन्नभिन्नाः समन्ततः ॥ ४० ॥
तत इन्द्रश्च सङ्क्रुद्धः शङ्करो विष्णुरेव च ।
सूर्यश्चन्द्रश्च देवेन्द्रा आययुः क्रोधसंयुताः ॥ ४१ ॥
तैरस्त्राणां महावृष्टिः कृता परमदारुणा ।
तया दैत्यगणाः सर्वे पपलुश्च दिशो दश ॥ ४२ ॥
ततोऽतिक्रोधसंयुक्ता रावणाद्याः समाययुः ।
द्वन्द्वयुद्धमभूद्घोरं सर्वेभ्यो भयदायकम् ॥ ४३ ॥
जृम्भो ययौ महेन्द्रेण राहुः सूर्येण संयुगे ।
बलिश्च विष्णुना क्रुद्धो रावणः शङ्करेण च ॥ ४४ ॥
कुम्भकर्णश्च चन्द्रेण नाना दैत्येन्द्रकादयः ।
देवेन्द्रैर्वायुमुख्यैश्च युयुधुर्जयकाङ्क्षिणः ॥ ४५ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेपञ्चमे खण्डे लम्बोदरचरिते देवासुरयुद्धवर्णनं नाम षष्ठोऽध्यायः ॥