॥ श्रीगणेशाय नमः ॥
ब्रह्मोवाच ।
ततोऽतिमदसंयुक्तोऽसुरः क्रोधः प्रतापवान् ।
दैत्यानाज्ञापयत् क्रूरान् कर्मणः खण्डनाय तान् ॥ १ ॥
तस्याज्ञया ययुर्दैत्या यत्र तत्र महीतले ।
ब्राह्मणांस्ताडयामासुर्वर्णाश्रमप्रवर्तकान् ॥ २ ॥
अन्यान् वर्णांस्तथा गृह्य कर्महीनांश्च चक्रिरे ।
देवतीर्थादिकं दैत्या बभञ्जुर्यज्ञवृक्षकान् ॥ ३ ॥
सर्वत्र त्रासिता लोकाः कर्महीना बभूविरे ।
न स्वाहा न स्वधा कुत्र न वषट्कार एव च ॥ ४ ॥
ततो विप्रानुवाचाऽथ क्रोधासुरः प्रतापवान् ।
मदीयनामसंयुक्तं कर्म कुर्वन्तु विप्रपाः ॥ ५ ॥
जगदीशो महाभागा अहं द्विजा न संशयः ।
भजतां पादयोर्मे नो दुर्लभं किं भविष्यति ॥ ६ ॥
ततो द्विजास्तपोनिष्ठा गता वनेषु मानदौ ।
त्यक्त्वा विषयजं सौख्यं सिंहव्याघ्रयुतेषु ते ॥ ७ ॥
केचिद् भ्रष्टास्तदाज्ञायां संस्थिता दुःखसंयुताः ।
[[१०]]
वर्णाश्रमविहीनाश्च जनाः सर्वे बभूविरे ॥ ८ ॥
सर्वत्र क्रोधकस्यैव प्रतिमा स्थापिताऽभवत् ।
गृहे गृहे तथा तस्याऽसुरैः पूजा प्रवर्तिता ॥ ९ ॥
एवं हा हा कृतं सर्वं त्रैलोक्यं तेन वैरिणा ।
देवाः सर्वे भयोद्विग्ना बभूवुः कर्मखण्डनात् ॥ १० ॥
कर्मखण्डनभावेनोपोषणैः संयुताः सुराः ।
ततस्तस्य विनाशार्थं यत्नवन्तो बभूविरे ॥ ११ ॥
न प्रापुस्तस्य शान्त्यर्थमुपायं ते सुरेश्वराः ।
ततोऽतिखेदसंयुक्ता बभूवुस्त्रासकम्पिताः ॥ १२ ॥
एतस्मिन्नन्तरे तत्र वसिष्ठो योगिनां वरः ।
जगाद तान् सुरेशानान्निःश्वस्य हितकारकः ॥ १३ ॥
वसिष्ठ उवाच ।
उत्पत्तिस्थितिसंहारैर्वयं युक्ता न संशयः ।
अस्मभ्यो मरणं तस्य न भविष्यति निश्चितम् ॥ १४ ॥
स्वानन्दवासकरणं गणेशं ब्रह्मनायकम् ।
त्रिभिर्हीनं जगुर्वेदास्तं सेवध्वं सुरेश्वराः ॥ १५ ॥
हत्वा क्रोधासुरं सोऽपि स्वपदानि प्रदास्यति ।
अस्मभ्यं नात्र सन्देहं कुर्वन्तु प्रयताः सुराः ॥ १६ ॥
वसिष्ठवचनं श्रुत्वा हर्षयुक्ताः सुरर्षयः ।
साधु साधु मुनि सर्वे जगुर्ज्ञाननिधिं परम् ॥ १७ ॥
ततस्ते मन्त्रराजं वै जेपुर्लम्बोदरस्य च ।
भक्तियुक्तास्तपोनिष्ठा ध्यानसंस्था बभूविरे ॥ १८ ॥
नानानुष्ठानयोगैश्चातोषयंस्ते गजाननम् ।
उपोषणपराः सर्वे विधियुक्ता महामुनी ॥ १९ ॥
एवं वर्षसहस्रे च प्रगते तोषसंयुतः ।
लम्बोदरः प्रसन्नात्मा तान् ययौ वरदायकः ॥ २० ॥
समागतं गणेशानं दृष्ट्वा देवर्षयः पुरः ।
उत्थाय हर्षसंयुक्ताः प्रणेमुर्दण्डवद्भुवि ॥ २१ ॥
पुपूजुर्भक्तिसंयुक्ताः प्रभुं नानोपचारकैः ।
पुनः प्रणम्य सन्तुष्टास्तुष्टुवुः करसम्पुटैः ॥ २२ ॥
देवर्षय ऊचुः ।
नमस्ते गणनाथाय लम्बोदरधराय च ।
गजवक्त्राय सर्वेषां नमः पूज्याय ते नमः ॥ २३ ॥
स्वानन्दपतये तुभ्यं सर्वस्वानन्ददायिने ।
अनाथाय च सर्वेषां नायकाय नमो नमः ॥ २४ ॥
नमो विघ्नेश्वरायैव भक्तविघ्नविनाशिने ।
अभक्तानां महाविघ्नकारकाय नमो नमः ॥ २५ ॥
उत्पत्तिस्थितिसंहारहीनाय सर्वरूपिणे ।
अनादये परेशाय महोदर नमोऽस्तु ते ॥ २६ ॥
मायिनां मोहकायैव मायाविने परात्मने ।
सर्वसिद्धिप्रदायैव नानाविद्याकलात्मने ॥ २७ ॥
अपाराननरूपायापारहस्तपदाय च ।
गुणेशाय गुणानां ते चालकाय नमो नमः ॥ २८ ॥
आदिमध्यान्तरूपायादिमध्यान्तस्वरूपिणे ।
अनाकाराय ते चाकारयुक्ताय नमो नमः ॥ २९ ॥
ज्येष्ठराजाय ज्येष्ठानां पतये सर्वदायिने ।
आदिपूज्याय चान्ते ते संस्थिताय नमो नमः ॥ ३० ॥
नानाविधं जगत् सर्वं ब्रह्म नानाविधं प्रभो ।
सम्भूतमुदरात्ते वै तेन लम्बोदरो भवान् ॥ ३१ ॥
तवोदरभवाः सर्वे त्वं न कस्योदरोद्भवः ।
तेन लम्बोदरोऽसि त्वं लम्बोदर नमोऽस्तु ते ॥ ३२ ॥
सर्वेषामुदराणां त्वं पारं जानासि विघ्नप ।
उदरस्य न कस्तेऽपि पारं जानाति ते नमः ॥ ३३ ॥
एतादृशोऽयमानन्दानामानन्दप्रदायकः ।
प्रत्यक्षं दृष्टिगो जातोऽस्माकं धन्या वयं ततः ॥ ३४ ॥
[[११]]
मनोवाणीविहीनो न मनोवाणीमयो न च ।
लम्बोदरः समायात आश्चर्यं भाति ते नमः ॥ ३५ ॥
किं स्तुवीमः गणेशानं यत्र वेदादयः प्रभो ।
शान्तिं प्राप्ता वयं तत्र नः प्रसीद नमो नमः ॥ ३६ ॥
एवमुक्त्वा सुराः सर्वे ननृतुर्मुनयस्तथा ।
तानुवाच गणेशानो मेघगम्भीरनिःस्वनः ॥ ३७ ॥
लम्बोदर उवाच ।
वरं ब्रूत महाभागा देवेन्द्रा मुनयोऽमलाः ।
तपसा मनसाऽभीष्टं भक्त्या तुष्टो ददाम्यहम् ॥ ३८ ॥
भवत्कृतं मदीयं यत् स्तोत्रं सर्वप्रदं भवेत् ।
पठते शृण्वते चेहामुत्र सौख्यप्रदं परम् ॥ ३९ ॥
यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः ।
नानासिद्धिप्रदं चास्तु मम भक्तिविवर्धनम् ॥ ४० ॥
ब्रह्मोवाच ।
लम्बोदरवचः श्रुत्वा हृष्टा देवर्षयोऽभवन् ।
जगुस्तं प्रणिपत्यैव सर्वेशं भक्तपालकम् ॥ ४१ ॥
देवर्षय ऊचुः ।
यदि प्रसन्नभावेन वरदोऽसि गजानन ।
तदा क्रोधासुरं नाथ मारयस्वाधुना प्रभो ॥ ४२ ॥
स्थानभ्रष्टा वयं तेन कृताः कर्मविहीनकाः ।
ऋषयश्च जगत् सर्वं स्वधास्वाहाविवर्जितम् ॥ ४३ ॥
अतो लम्बोदर स्वामिंस्तवोदरसमुद्भवान् ।
एकं हत्वा तथा सर्वान् रक्ष स्वभक्तकान् प्रभो ॥ ४४ ॥
भक्तिं देहि त्वदीयां नः सर्वक्रोधविनाशिनीम् ।
तया शान्तिसमायुक्ता भजिष्यामो विशेषतः ॥ ४५ ॥
तव भक्तिर्यदा प्राप्ता लम्बोदर तदा शुभम् ।
भुनक्ति सर्वदा स्वामिन् ब्रह्मभूतः स वै स्मृतः ॥ ४६ ॥
सर्वं मुनीनां देवानां वचः श्रुत्वा महाप्रभुः ।
लम्बोदरश्च तान् प्राह तथेति भक्तियन्त्रितः ॥ ४७ ॥
ततः सोऽन्तर्हितो देवो देवास्तत्रैव संस्थिताः ।
मुनयश्च भयोद्विग्नाः कालकाङ्क्षां प्रचक्रिरे ॥ ४८ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेपञ्चमे खण्डे लम्बोदरचरिते देवर्षिवरप्रदानं नाम पञ्चमोऽध्यायः ॥