०४ क्रोधासुरब्रह्माण्डविजयः

॥ श्रीगणेशाय नमः ॥

ब्रह्मोवाच ।
ततः किञ्चिद्गते काले क्रोधो हर्षसमन्वितः ।
उवाच बलिमुख्यांश्च दानवान् गर्वपूरितः ॥ १ ॥

क्रोधासुर उवाच ।

शृणुध्वं दानवाः सर्वे बलिमुख्या महाबलाः ।
ब्रह्माण्डं प्रजयिष्यामि भवद्भिः संयुतो ह्यहम् ॥ २ ॥

तस्य तद्वचनं श्रुत्वा दैत्याः संहर्षिता नृपम् ।
जगुस्तं भक्तिसंयुक्ता कृत्वा करपुटं वचः ॥ ३ ॥

बल्याद्या ऊचुः ।
सम्यगुक्तं त्वया नाथ प्रजेष्यामः सुराधिपान् ।
त्वत्प्रसादेन दैत्येश आज्ञापय महासुरान् ॥ ४ ॥

पराक्रमतुलां ते न तिष्ठन्ति ब्रह्मगोलके ।
निर्भयोऽसि महाराज जय त्वं सर्वदेवपान् ॥ ५ ॥

तेषां वचनमाकर्ण्याऽसुरः क्रोधः प्रहर्षितः ।
शुक्रं नत्वा समानाय्य बभौ तेनानुमोदितः ॥ ६ ॥

ततो दैत्यगणान् सर्वानाजुहाव नरैः स्वकैः ।
ते सर्वे हर्षसंयुक्ता आययुस्तं नराधिपम् ॥ ७ ॥

ततः सैन्यसमायुक्तो निर्जगाम महासुरः ।
चतुरङ्गबलैर्युक्तोऽपारैः सर्वत्र सम्बभौ ॥ ८ ॥

रथस्थश्च स्वयं क्रोधो दैत्यपैः संवृतो बभौ ।
तत्रादौ पृथिवीं जेतुं ययौ भूमण्डले नृपान् ॥ ९ ॥

बलिमुख्यैर्महावीरैः स्थितैर्यत्र च मानदौ ।
तैर्युद्धं कः पुमान् भूमौ कर्तुं शक्तो भवेत्तदा ॥ १० ॥

राजानः शरणं जग्मुर्दैत्येन्द्रभयपीडिताः ।
केचिन् मृताश्च तैर्युद्धं कृत्वाऽहङ्कारसंयुताः ॥ ११ ॥

केचिद्राज्यं परित्यज्य सुदारुणवनं ययुः ।
एवं वसुन्धरां जित्वा मुमुदुः सप्तसागराम् ॥ १२ ॥

राज्ञस्ते करदांश्चक्रुर्दैत्याः शरणमागतान् ।
मृतास्तेषां सुताः सर्वे करदान् स्थाप्य चक्रिरे ॥ १३ ॥

वनेषु ये गतास्तेषु दैत्याः संस्थापिताश्च तैः ।
बभुः संस्थापिता दैत्याः सर्वत्र नगरेषु वै ॥ १४ ॥

ततः पाताललोकेषु ययुर्दैत्येन्द्रमुख्यकाः ।
क्रोधासुरसमायुक्ता जेतुं नागान् महाबलान् ॥ १५ ॥

दूतमुखेन वृत्तान्तं ज्ञात्वा शेष उदारधीः ।
वरगर्वसमायुक्तं क्रोधं ज्ञात्वा ययौ स्वयम् ॥ १६ ॥

समागतं महानागैः शेषं ज्ञात्वा समावृतम् ।
क्रोधासुरः प्रसन्नात्मा मान्य तं सादरोऽभवत् ॥ १७ ॥

करभारं वार्षिकं स वृतः स्वीकृत्य नागपैः ।
दत्त्वा रत्नादिकं शेषो ययौ स्वस्थानमेव च ॥ १८ ॥

ततः स दैत्यपैः सर्वैर्ययौ शुक्रेण पालितः ।
देवस्थानेषु सर्वेषु देवोद्यानान्यभञ्जयत् ॥ १९ ॥

ततो दूतं महादैत्यः प्रेषयामास हर्षितः ।
जगाद मघवन्तं च स गत्वा चेष्टितं महत् ॥ २० ॥

बृहस्पतिं च देवेन्द्रैस्तत इन्द्रः समाययौ ।
तेन सञ्ज्ञापितः सर्वैः प्रपपाल गुहान्तरम् ॥ २१ ॥

तज्ज्ञात्वा दैत्यपैः सर्वैर्हर्षितः क्रोधकोऽसुरः ।
आययावमरावत्यामिन्द्रासनस्थितोऽभवत् ॥ २२ ॥

देवस्थानानि सर्वाणि विभज्य प्रददौ स्वयम् ।
असुरेभ्यो महादैत्यस्तेषु दैत्याः स्थिता बभुः ॥ २३ ॥

नाना भोगान् प्रभुञ्जाना देवसौख्यकरान् मुनी ।
अन्योन्यस्नेहसंयुक्ता बभूवुः साहसप्रियाः ॥ २४ ॥

गन्धर्वाश्चारणाद्याश्चाप्सरसस्तान् सिषेविरे ।
दुःखयुक्ता विशेषेण देवैर्हीना महामुनी ॥ २५ ॥

ततः कदाचिद्दैत्येन्द्रो दैत्यपैः संवृतो ययौ ।
सत्यलोकं सुविख्यातं ज्ञात्वा ब्रह्मा पपाल ह ॥ २६ ॥

तत्रैव संस्थितो दैत्यः क्रोधः परमदारुणः ।
बुभुजे सत्यलोकोत्थान् भोगान् दैत्यैर्महाबलैः ॥ २७ ॥

ततो विकुण्ठमेवं स जगामासुरसंवृतः ।
ज्ञात्वा तत्र स्थितो विष्णुः पपाल क्रोधभीतितः ॥ २८ ॥

तत्र स्थित्वा विकुण्ठस्य भोगान् विष्णुकृतान् स्वयम् ।
बुभुजे ज्ञातिभिः सार्धं क्रोधः परमदारुणः ॥ २९ ॥

ततः कैलासकं दैत्यः शङ्करं जेतुमाययौ ।
महादेवः पपालैव क्रोधसन्तापतापितः ॥ ३० ॥

तत्रस्थः क्रोधको दैत्यो ननन्द हृदि चाद्भुतम् ।
दैत्यैः समावृतः क्रूरस्तान् जगाद बलान्वितः ॥ ३१ ॥

क्रोधासुर उवाच ।

बले रावणमुख्याश्च शृणुध्वं मे वचो हितम् ।
अधुना न जितं स्थानं वदताऽहं जयामि तत् ॥ ३२ ॥

दैत्येन्द्रा ऊचुः ।
सर्वं जितं त्वया राजन् भानुरेकः सुराधिपः ।
न जितः स तदर्थं त्वं प्रयतस्वाऽसुराधिप ॥ ३३ ॥

जगाद क्रोधको दैत्यस्ततस्तान् हर्षसंयुतः ।
इष्टदेवं मदीयं तं भानुं त्यजत दैत्यपाः ॥ ३४ ॥

[[९]]

तस्य तद्वचनं श्रुत्वा क्षोभयुक्ता महासुराः ।
जगुस्तं मायया युक्ताः क्रोधं भेदपरायणाः ॥ ३५ ॥

अस्माकमिष्टदेवोऽयं सूर्यः स्वामिन्न संशयः ।
भजिष्यामो विशेषेण तं सदा भक्तिलालसम् ॥ ३६ ॥

देवानां पक्षमुत्सृज्येच्छत्यस्माकं हितं यदि ।
तदा वन्द्योऽर्यमा नाथ नान्यथा जय तं बलात् ॥ ३७ ॥

परपक्षाश्रितं देवमस्मत्संहनने रतम् ।
जयिष्यामो वयमतो हितं राजन् समाचर ॥ ३८ ॥

दैत्येशानां वचः श्रुत्वा क्रोधः संहर्षितोऽभवत् ।
दूतं सम्प्रेषयामास रावणं गर्वसंयुतम् ॥ ३९ ॥

रावणात् सर्ववृत्तान्तं ज्ञात्वा भानुः प्रतापवान् ।
तमुवाच तदा क्रुद्धो भयभीतश्च मानदौ ॥ ४० ॥

रविरुवाच ।
देवानां पक्षमुत्सृज्य क्रोधासुरपरायणः ।
न भविष्यामि भो दूत देवोऽहं नात्र संशयः ॥ ४१ ॥

उन्मत्तं वरसंयुक्तं क्रोधं वद महामते ।
त्यक्त्वा राज्यं वने भानुर्गतो राज्यं कुरुष्व च ॥ ४२ ॥

एवमुक्त्वा रावणं स सूर्यः सर्वसमन्वितः ।
पपाल लोकमुत्सृज्य रावणस्तं समाययौ ॥ ४३ ॥

ततोऽतिहर्षितो दैत्यः क्रोधो दुष्टैः समावृतः ।
आययौ सौरलोकं तं मुमुदे प्राप्य दुर्जनः ॥ ४४ ॥

आत्मानं कृतकृत्यं स मानयामास दुर्मतिः ।
ब्रह्माण्डविजयी भूत्वा भोगांश्च बुभुजे परान् ॥ ४५ ॥

ततः संस्थाप्य दैत्येन्द्रान् तेषु स्वर्गेषु दैत्यपः ।
पृथिव्यां नगरं मुख्यमाययौ प्रीतिसञ्ज्ञकम् ॥ ४६ ॥

क्रोधासुरोऽसौ तत्रस्थः प्रशशास प्रतापवान् ।
त्रैलोक्यं भोगसंयुक्तः सुहृदानन्ददायकः ॥ ४७ ॥

स्त्रीमांसमदिरासक्तो बभूव विषयप्रियः ।
न बुबोध गतं कालं यथाकालेन वञ्चितः ॥ ४८ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेपञ्चमे खण्डे लम्बोदरचरिते क्रोधासुरब्रह्माण्डविजयो नाम चतुर्थोऽध्यायः ॥