॥ श्रीगणेशाय नमः ॥
ब्रह्मोवाच ।
गाणेशैः स्तोत्रमुख्यैः सन्तुष्टाव विष्टरश्रवाः ।
गणेशं सिद्धिदं पूर्णं भक्तेभ्यो भक्तवत्सलम् ॥ १ ॥
ततः स मोहिनीरूपमभूत् त्यक्तुं समुद्यतः ।
एतस्मिन्नन्तरे तत्राऽमरैः सम्बोधितः शिवः ॥ २ ॥
ज्ञात्वा भस्मासुरं शम्भुर्मृतं विस्मितमानसः ।
ननर्त भक्तिसंयुक्तो जय विघ्नेश उच्चरन् ॥ ३ ॥
ततः सर्वैः समायुक्तो मुकुन्दकपुरं ययौ ।
तत्र नारीस्वरूपस्थमदर्शत् केशवं शिवः ॥ ४ ॥
महामोहप्रदं रूपं दृष्ट्वा विष्णोः सुविस्मितः ।
तदज्ञानो महादेवस्तां ययौ कामविह्वलः ॥ ५ ॥
तं दृष्ट्वा मोहितं विष्णुः पपाल स्त्रीस्वरूपधृक् ।
तामन्वधावद्देवेशः शङ्करो विह्वलो भृशम् ॥ ६ ॥
ततस्तत्याज तद्रूपं विष्णुः स पुरुषोऽभवत् ।
शिवः खिन्नश्च तत्रैव स्खलितोऽभूत् सुविह्वलः ॥ ७ ॥
[[६]]
ततः सर्वे ययुर्देवाः स्वस्वस्थानं मुदा युताः ।
स्तुत्वा विष्णुं महाभागं शिवः स्वस्थानगोऽभवत् ॥ ८ ॥
शिवस्य वीर्यसम्पातात्तद्वीर्यप्रभवोऽसुरः ।
बभूव श्यामवर्णश्च ताम्रचक्षुः प्रतापवान् ॥ ९ ॥
स शुक्रमुपसङ्गम्योवाच तं विनयान्वितः ।
प्रणम्य तेजसा युक्तः शिष्यं पालय मां मुने ॥ १० ॥
ततो ध्यानेन स ज्ञात्वा तस्य सर्वं महामुनिः ।
पुनस्तं प्रजगादैव वचनं हर्षयन्नरम् ॥ ११ ॥
शुक्र उवाच ।
मोहिनीं शङ्करो दृष्ट्वा कामबाणप्रपीडितः ।
पश्चाद्विष्णुं समालोक्य स्वचित्ते क्रोधमादधे ॥ १२ ॥
मनो मे चञ्चलं पूर्णं तद् ग्रहीष्यामि यत्नतः ।
मनोग्रहणरूपश्च क्रोधस्तत्र प्रवर्तते ॥ १३ ॥
तस्मिन् काले च वीर्यस्य स्खलनं सहसाऽभवत् ।
तस्माज्जातोसि तेन त्वं क्रोधनामा भविष्यसि ॥ १४ ॥
ततो दानवमुख्यैः स कारयामास विप्रप ।
मौञ्ज्यन्तसर्वसंस्कारान् यथाविधि स शास्त्रवित् ॥ १५ ॥
क्रोधो वेदादिकं सर्वमभ्यस्य गुरुसन्निधौ ।
शम्बरस्य सुतां तुल्यामुपयेमे महासुरः ॥ १६ ॥
प्रीतिनाम्नीं महारूपां सर्वावयवशालिनीम् ।
रूपलावण्यसंयुक्तां विषयानां प्रवर्धिनीम् ॥ १७ ॥
ततः शुक्रं समागम्य जगाद प्रणिपत्य तम् ।
कृताञ्जलिर्महातेजा दैत्येभ्यः सुखदं वचः ॥ १८ ॥
क्रोधासुर उवाच ।
ब्रह्माण्डविजयं स्वामिन् करिष्यामि त्वदाज्ञया ।
मन्त्रं देहि तदर्थं मे सर्वं यशोविवर्धनम् ॥ १९ ॥
ब्रह्मोवाच ।
तस्य तद्वचनं श्रुत्वा काव्यः सर्वज्ञसत्तमः ।
दैत्यानां प्रहितार्थाय ददौ तस्मै महामनुम् ॥ २० ॥
सूर्यस्य विधियुक्तं प्रणम्य सङ्गृह्य तं ययौ ।
वनं व्याघ्रादिसङ्कीर्णं तपसे कृतनिश्चयः ॥ २१ ॥
एकपादेन तिष्ठन् समजपन् मन्त्रमुत्तमम् ।
चित्ते ध्यायन्नर्यमाणमूर्ध्वदृष्टिर्महासुरः ॥ २२ ॥
निराहारेण देवेशं तोषयामास यत्नतः ।
शीतोष्णादिभयं त्यक्त्वा काष्ठवत् संस्थितोऽभवत् ॥ २३ ॥
दिव्यवर्षसहस्रेण तुष्टो भानुस्तमाययौ ।
वरं दातुं महादैत्यमुवाच घननिःस्वनः ॥ २४ ॥
रविरुवाच ।
वरान् वृणु महाभाग क्रोधाऽहं ते ददामि तान् ।
सन्तुष्टस्तपसोग्रेणेप्सितान् हृदि महामते ॥ २५ ॥
श्रुत्वा रवेर्वचो दैत्यो दृष्ट्वा तं पुरतः स्थितम् ।
प्रणनाम महाभक्त्याऽपूजयत्तेजसां निधिम् ॥ २६ ॥
पुनः प्रणम्य तुष्टाव कृताञ्जलिपुटोऽसुरः ।
सौरसूक्तेन देवेशं पुनः सन्नत आदरात् ॥ २७ ॥
तमुवाचार्यमा दैत्यं वरं वृणु महामते ।
यं यमिच्छसि तं तं ते दास्याम्यत्र न संशयः ॥ २८ ॥
क्रोधासुर उवाच ।
उत्पत्तिस्थितिसंहारयुक्ता ये देवनायकाः ।
तेभ्यो मे मरणं भानो न भवेद्वै कदाचन ॥ २९ ॥
ब्रह्माण्डजयने शक्तं मां कुरुष्व विशेषतः ।
राज्यं चराचरस्यैव देहि मेऽदितिनन्दन ॥ ३० ॥
आरोग्यं मनसा यद्यच्चिन्तितं सफलं भवेत् ।
न मे समो भवेत् कुत्र तथा कुरु दिवस्पते ॥ ३१ ॥
श्रुत्वा तस्य वचो रम्यं सर्वेभ्यो भयदायकम् ।
विस्मितस्तेजसां नाथस्तं जगाद सुयन्त्रितः ॥ ३२ ॥
[[७]]
भानुरुवाच ।
क्रोध त्वया च यत् प्रोक्तं तदेव सफलं भवेत् ।
तपसा यन्त्रितो दैत्य तस्माद्दत्तं मया परम् ॥ ३३ ॥
एवमुक्त्वार्यमा लोकमगमद्दुःखसंयुतः ।
क्रोधो हर्षसमाविष्टः प्रययौ स्वगृहं ततः ॥ ३४ ॥
सुहृदो नन्दयामासासुरान् सर्वान् महायशाः ।
काव्यं प्रणम्य स्वस्थाने संस्थितोऽभून मदान्वितः ॥ ३५ ॥
हर्षः शोकश्च पुत्रौ द्वौ प्रीत्यामुत्पाद्य दैत्यपः ।
नानाभोगान् प्रभुञ्जानो गर्वितोऽभूत्ततः परम् ॥ ३६ ॥
शुक्रं सकलनीतिज्ञं समानाय्य प्रपूज्य तम् ।
तस्यानुमतमागृह्य नगरं निर्ममेऽसुरः ॥ ३७ ॥
आवेशनामकं रम्यं सर्वशोभासमन्वितम् ।
तत्राजग्मुश्च विप्रर्षे दानवा दैत्यराक्षसाः ॥ ३८ ॥
चातुर्वर्ण्यसमायुक्ता निवासं चक्रिरे पुरा ।
जना हर्षयुतास्तत्र मुमुदुः ससुहृद्गणाः ॥ ३९ ॥
ततः काव्यः समागत्य क्रोधं चकार विप्रपैः ।
अभिषिक्तं स सर्वेषां दानवानां पदे प्रभुम् ॥ ४० ॥
ततः क्रोधस्य तत्पुर्यां प्रधानाः पञ्च दारुणाः ।
बभूवुः सर्वनीतिज्ञा महामाया महाबलाः ॥ ४१ ॥
बलिर्जृम्भस्तथा राहू रावणो माल्यवान् परः ।
तैर्युक्तः शुशुभेऽत्यन्तं क्रोधः परमदारुणः ॥ ४२ ॥
अन्ये प्रहस्तमुख्याश्च राक्षसा दानवास्तथा ।
सिषेविरे भावयुक्ता महाक्रोधं महाबलाः ॥ ४३ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते क्रोधासुरराज्यप्राप्तिवर्णनं नाम तृतीयोऽध्यायः ॥