॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
असितस्य वचः श्रुत्वा नैध्रुवो विस्मितोऽभवत् ।
प्रणम्य तं महाभागं जगाद विनयान्वितः ॥ १ ॥
नैध्रुव उवाच ।
स्वामिन् वद महायोगं योगदं साधनं परम् ।
तदर्थं कस्य भक्तिर्मे कर्तव्या योगिसत्तम ॥ २ ॥
असित उवाच ।
शृणु पुत्र प्रवक्ष्यामि लम्बोदरकथानकम् ।
तेन सर्वं महायोगं लभसे नात्र संशयः ॥ ३ ॥
एकदाऽहं तथा पुत्र वत्सरस्ते पिता पुरा ।
तपसा शुद्धभावेन भवावः स्म च निर्मलौ ॥ ४ ॥
ततो योगस्य प्राप्त्यर्थं यत्नवन्तौ सुसंस्थितौ ।
अन्तर्ज्ञानसमायुक्तौ जडोन्मत्तादिसुप्रियौ ॥ ५ ॥
एकाग्रं साधयित्वा वै निरोधे संस्थितौ तथा ।
सहजावस्थया युक्तौ सुखयुक्तौ भवावहे ॥ ६ ॥
तत्रैव मोहहीनत्वं दृष्ट्वा परमविस्मितौ ।
शान्तिहीनौ ततो जातौ गतौ च ब्रह्मणोऽन्तिकम् ॥ ७ ॥
तत्र स्पर्धासमायुक्तौ विश्वामित्रवसिष्ठकौ ।
समायातौ प्रणम्यैनं प्रतिष्ठन्तौ मदान्वितौ ॥ ८ ॥
क्रोधयुक्तौ विधातारं प्रपृच्छन्तौ विशेषतः ।
कोऽधिको वद धातस्त्वं तपसा योगसेवया ॥ ९ ॥
तच्छ्रुत्वा तौ जगादाऽथ ब्रह्मा सर्वपितामहः ।
येन क्रोधो जितो नूनं तं जानाम्यधिकं मुनिम् ॥ १० ॥
युवां क्रोधयुतौ पूर्णौ तत्र किं विद्यते तपः ।
सर्वत्र शान्तिदं योगं तं यो जयति सोऽधिकः ॥ ११ ॥
ततः प्रणम्य विश्वेशं वदतः स्म तपोधनौ ।
विनयेन समायुक्तौ तपस्पर्धापरायणौ ॥ १२ ॥
वसिष्ठविश्वामित्रावूचतुः ।
कीदृशोऽयं प्रजानाथ क्रोधः सर्वभयङ्करः ।
कुत्र तिष्ठति देवेश किंरूपः किंस्वभाववान् ॥ १३ ॥
जयन्ति केन योगेन तं दुष्टं योगिनः प्रभो ।
सर्वं वद विभो तस्य तं जेष्यावो न संशयः ॥ १४ ॥
ब्रह्मोवाच ।
अत्राऽहं कथयिष्यामीतिहासं सर्वसिद्धिदम् ।
तेन क्रोधं च कामं चाभिमानं जयति प्रभुः ॥ १५ ॥
शकुनेरभवत् पुत्रः शुक्रं भस्मासुरोऽतपत् ।
उपसङ्गम्य सङ्गृह्य विद्यां पञ्चाक्षरीं पुरा ॥ १६ ॥
दीक्षां गृह्य महादेवमुपासनविधानतः ।
साधयामास भावेन भस्मोद्धूलितविग्रहः ॥ १७ ॥
सहस्रे प्रगतेष्वेव प्रभुर्वर्षेषु शङ्करः ।
तं ययौ वरदानार्थं सर्वदेवसमावृतः ॥ १८ ॥
आगतं शङ्करं दृष्ट्वा उत्थाय प्रणिपत्य तम् ।
[[४]]
पूजयित्वा प्रतुष्टाव स्तोत्रैः शैवैर्महासुरः ॥ १९ ॥
जगाद शङ्करो दैत्यं सन्तुष्टो भक्तमुत्तमम् ।
वरं वरय दास्येऽहं भक्त्या ते तपसाऽसुर ॥ २० ॥
भस्मासुर उवाच ।
यस्य शम्भो महेशान मस्तकेऽहं धरामि सः ।
हस्तं सद्यो मृतो भूत्वा ततो भवतु भस्मसात् ॥ २१ ॥
अन्येभ्यः सर्वभूतेभ्यो न भयं मे कदाचन ।
भवेत् सर्वातिगा शक्तिस्तथा कुरु महेश्वर ॥ २२ ॥
तच्छ्रुत्वा विस्मितः शम्भुस्तं जगाद महासुरम् ।
सर्वं च ते महादैत्य भविष्यति मदाज्ञया ॥ २३ ॥
हस्तस्ते यस्य शिरसि दक्षिणः सम्पतिष्यति ।
स वै भस्ममयः सद्यो भविष्यति न संशयः ॥ २४ ॥
ततः शिवो ययौ स्थानं कैलासं गणसंवृतः ।
दैत्यस्तत्रैव तिष्ठन् स विचारमकरोत् स्वयम् ॥ २५ ॥
अहो शिवस्य वामाङ्गे संस्थिता जगदम्बिका ।
रूपलावण्यसंयुक्ता रत्नभूताऽतिसुन्दरी ॥ २६ ॥
एतादृशी मया कुत्र दृष्टा नैव सुरूपिणी ।
नग्नः शम्भुरयं तस्याऽयोग्यो नैव भवेद्रतौ ॥ २७ ॥
अतोऽहं यत्नमास्थाय वरदानप्रभावतः ।
शम्भुं भस्ममयं कृत्वा ग्रहीष्यामि च पार्वतीम् ॥ २८ ॥
एवं विचार्य दैत्येन्द्र आययौ शङ्करान्तिकम् ।
कैलासे गिरिवर्ये स वेगमास्थाय दारुणः ॥ २९ ॥
दक्षिणं हस्तमूर्ध्वं स कृत्वा शङ्करसन्निधौ ।
आययौ तं विलोक्यैव पपाल गिरिजापतिः ॥ ३० ॥
नमस्कारादिचिह्नैश्च हीनं दृष्ट्वा स्वसन्निधौ ।
असुरं भावसंयुक्तं भयभीतः समन्ततः ॥ ३१ ॥
ततः सोऽपि महादैत्यः क्रोधयुक्तो विशेषतः ।
धावयित्वा तमनु वै ग्रहीतुं प्रोद्यतोऽभवत् ॥ ३२ ॥
ततोऽतिवेगमास्थाय शिवो भीत्या पलायत ।
अधावत् पृष्ठमास्थाय तं भस्मासुर एव च ॥ ३३ ॥
पलन्तं शङ्करं तत्र ददर्श कमलापतिः ।
सस्मार गणपं चित्ते किं भविष्यति विह्वलः ॥ ३४ ॥
सोऽपि तुष्टाव चाथर्वशिरसा विघ्ननायकम् ।
विष्णुः परमशोकार्तो महादेवस्य कारणात् ॥ ३५ ॥
शिवश्च भयसंयुक्तो गणेशं स्वयमस्तवीत् ।
महासङ्कटनाशार्थं शरणागतवत्सलम् ॥ ३६ ॥
शिव उवाच ।
किं पश्यसे नाथ विनायकस्त्वं दैत्येन सर्वत्र च मां सुत्रासितम् ।
दक्षं भुजं मस्तकगं गणेश कृत्वा स मां भस्ममयं करिष्यति ॥ ३७ ॥
नानाजनैः सेवितपादपद्म किं विस्मृतो मां भयभङ्गकारिन् ।
चिन्तामणे चित्तनिवासक त्वं संरक्ष विघ्नेश दयाघनात्र ॥ ३८ ॥
त्वदन्यदेवं शरणं गजास्य प्रभुं समर्थं न च यामि नाथ ।
न कोऽपि हेरम्ब महानुभाव क्षमो हि मां रक्षितुमीश्वरः कः ॥ ३९ ॥
लम्बोदरामोघ सुचिन्तनं ते स्वानन्दवासिंश्च महोदरस्य ।
रक्षस्व मां मृत्युमुपागतं त्वं त्वत्पादनिष्ठं भयभञ्जनाशु ॥ ४० ॥
किं सिद्धिबुद्धिप्रविहारकेण सक्तः प्रजातोऽसि विनायक त्वम् ।
भक्तानुकम्पीति तवैव नाम वेदे कथं सङ्कथितं महात्मन् ॥ ४१ ॥
किं लक्षलाभप्रभवार्थमेवं संसक्तभावैरसि विस्मरंश्च ।
मां रक्ष नो चेन्निगमस्य देव व्यर्थं यशः सम्भविता परात्मन् ॥ ४२ ॥
[[५]]
यथा दिनेशः समकालयुक्तः प्रकाशदाता भवतीति नित्यम् ।
तथा हि ते भक्तजनानपारान् क्षमोऽसि तान् रक्षितुमन्तरं किम् ॥ ४३ ॥
किं योगरूपातिविलम्बनेन रक्षस्व भीतं मरणे सुसंस्थम् ।
हेरम्ब विघ्नेश विनायकाशु रक्षस्व रक्षस्व महेशपुत्र ॥ ४४ ॥
एवं स्तुवति शम्भौ स विष्णोर्हृदि गजाननः ।
प्रविश्य बुद्धिसन्दाता बभूवे भक्तवत्सलः ॥ ४५ ॥
धृत्वा स्त्रीवेषकं विष्णुर्ययौ तं भस्मकारकम् ।
महासुरो मुमोहाऽसौ तां दृष्ट्वा मोहिनीं स्त्रियम् ॥ ४६ ॥
तां समागत्य पप्रच्छ दैत्येन्द्रो मोहसंयुतः ।
कुत्र गच्छसि सुश्रोणि किं ते कार्यमुपस्थितम् ॥ ४७ ॥
वद मां तत् करिष्यामि त्वद्दासोऽहं न संशयः ।
अहं सर्वेश्वरोऽत्रैव न समो मे प्रविद्यते ॥ ४८ ॥
भज मां भावसंयुक्ता भजन्तं ते च दासकम् ।
त्वदधीनो भविष्यामि सदा वराङ्गने मतम् ॥ ४९ ॥
तस्य तद्वचनं श्रुत्वा स्मित्वा सा तं जगाद ह ।
अहं मोहप्रदा नारी मोहिन्यत्र समागता ॥ ५० ॥
मदाज्ञया दैत्य यदि वर्तसे त्वं निरन्तरम् ।
तदा ते गृहगा भूत्वा तिष्ठाम्यत्र न संशयः ॥ ५१ ॥
तथेति दैत्यराजस्तां जगाद साऽब्रवीत् पुनः ।
नृत्यं कुरु मदग्रे त्वं यथा नृत्यामि वै अहम् ॥ ५२ ॥
तथेति प्रतिपाद्यैव सा ननर्त कलान्विता ।
तथा दैत्याधिपस्तत्र ननर्त काममोहितः ॥ ५३ ॥
तया दक्षिणहस्तश्च स्थापितः शिरसि स्वके ।
तथा सोऽपि चकाराशु भ्रान्तो विघ्नेशमायया ॥ ५४ ॥
भस्मसादभवद्दैत्यो भस्मासुरश्च तत्क्षणात् ।
ततः सा विस्मिता भूत्वा तुष्टाव गणनायकम् ॥ ५५ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते भस्मासुरवधो नाम द्वितीयोऽध्यायः ॥