॥ श्रीगणेशाय नमः ॥
[[१]]
शौनक उवाच ।
श्रुतं मया महाख्यानं गजाननकथाश्रितम् ।
सर्वसौख्यकरं तात ब्रह्मभूतपदप्रदम् ॥ १ ॥
तथा तृप्तिं न याम्येव पीत्वा ब्रह्मामृतं परम् ।
गुणज्ञो गणराजस्य कस्तं मुञ्चति मानद ॥ २ ॥
धन्या वयं महाभाग त्वदासङ्गसमाश्रयात् ।
यत्र योगप्रदा गाथा वर्तते त्वन्मुखे द्विज ॥ ३ ॥
लम्बोदरस्य माहात्म्यमधुना वद सर्वदम् ।
कीदृशोऽयं गणेशानः कीदृशं ब्रह्म तस्य च ॥ ४ ॥
कति तस्यावताराश्च किङ्कर्मा सोऽपि विघ्नपः ।
किमर्थमागतो भूमौ तत् सर्वं वद विस्तरात् ॥ ५ ॥
सूत उवाच ।
एवं दक्षेण संश्रुत्य गजाननचरित्रकम् ।
पृष्टो योगीन्द्रमुख्यश्च गाणपत्योऽथ मुद्गलः ॥ ६ ॥
दक्ष उवाच ।
गजाननस्य माहात्म्यं श्रुत्वा सङ्क्षेपतः परम् ।
न तृप्तोऽहं महाभाग पायं पायं सुधामिव ॥ ७ ॥
अतो लम्बोदरस्य त्वं चरित्रं वद विस्तरात् ।
सर्वसिद्धिप्रदं पूर्णं श्रवणात् पठनान्नृणाम् ॥ ८ ॥
गणेशस्य कथां योगिन् शृण्वन्ति च पठन्ति ये ।
श्रावयन्ति प्रपृच्छन्ति चत्वारः पुण्यभागिनः ॥ ९ ॥
धन्या ये पुरुषा लोके सादरा मुनिसत्तम ।
कथायां कृतकृत्यास्ते योगिनो योगभूषणाः ॥ १० ॥
सूत उवाच ।
एवं तस्यादरं दृष्ट्वा हर्षितो मुद्गलो मुनिः ।
जगाद तं महाभागं प्राजापत्येन्द्रमादरात् ॥ ११ ॥
मुद्गल उवाच ।
साक्षाद्ब्रह्मसुतस्त्वं च ब्रह्मतुल्यो न संशयः ।
तत्र किं गणनाथे वै चित्रं रसयुतः प्रभो ॥ १२ ॥
येषां मुखारविन्देषु गणेशस्मरणं भवेत् ।
इच्छामि तेषां दासत्वं नित्यं दक्ष प्रजापते ॥ १३ ॥
अधुना शृणु वक्ष्यामि सङ्क्षेपण चरित्रकम् ।
लम्बोदरस्य विस्तारे कः समर्थो भवेत् प्रभो ॥ १४ ॥
संवादं पूर्णसम्भूतमसितस्य महात्मनः ।
नैध्रुवस्याऽत्र वक्ष्यामि सर्वसिद्धिप्रदायकम् ॥ १५ ॥
प्रणम्य मुनिशार्दूलो नैध्रुवो वत्सरं वनम् ।
ययौ तपःप्रसिद्ध्यर्थं महाभागो महामुनिम् ॥ १६ ॥
स तताप तपो घोरं दिव्यवर्षसहस्रकम् ।
तपसा तस्य देवेन्द्रा भीताश्च प्रबभूविरे ॥ १७ ॥
किमयं तपसा साध्यं कर्तुमिच्छति वाडवः ।
न तुल्यं तपसोऽस्यात्र ब्रह्माण्डे किं भविष्यति ॥ १८ ॥
ततस्तस्याऽऽश्रमेऽकस्मादसितोऽभवदागतः ।
पितृव्यं मुनिरुत्थाय प्रणनाम कृताञ्जलिः ॥ १९ ॥
पुपूज भक्तिसंयुक्तः कृताञ्जलिपुटः स्थितः ।
तस्याऽऽज्ञया विनीतः स आसने संस्थितोऽभवत् ॥ २० ॥
तमुवाच महायोगी सोऽसितो हितकारकम् ।
वचो भावेन सन्तुष्टो भ्रातृपुत्रं तपोधनम् ॥ २१ ॥
असित उवाच ।
देहं किं तपसा पुत्राऽतिशोषयसि तापस ।
देहशोषणरूपं यत्तपो मुख्यं न शास्त्रतः ॥ २२ ॥
अतो देहश्रमं त्यक्त्वा तपो मुख्यं समाचर ।
येन त्वं ब्राह्मणो भूत्वाऽन्ते ब्रह्मणि गमिष्यसि ॥ २३ ॥
मुद्गल उवाच ।
असितस्य वचः श्रुत्वा नैध्रुवो भक्तिसंयुतः ।
पुनः प्रपच्छ योगीद्रं संशयेन समन्वितः ॥ २४ ॥
नैध्रुव उवाच ।
कृच्छ्रचान्द्रादिधर्मेण यथाविधि कृतं मुने ।
तपो ब्रुवन्ति सर्वज्ञास्तत्र मुख्यं किमप्यहो ॥ २५ ॥
[[२]]
असित उवाच ।
तपश्च त्रिविधं प्रोक्तं तापदं नात्र संशयः ।
तच्छ्रुणुष्व विधानेन योगिवन्द्यो भविष्यसि ॥ २६ ॥
कृच्छ्रचान्द्रायणादीनि तपांसि प्रवदन्ति च ।
पञ्चाग्निसाधनादीनि वायुभक्षात्मकानि च ॥ २७ ॥
इत्यादिभेदा बहवस्तपसो विविधस्य च ।
तदेव बाह्यभावस्थं पुत्र जानीहि निश्चितम् ॥ २८ ॥
इहामुत्रप्रदं तात तपः फलमयं स्मृतम् ।
फलं भुक्त्वा पुनः सोऽपि दीनरूपो भवेत् किल ॥ २९ ॥
अन्यच्छ्रुणु महाभाग तपः परमदुश्चरम् ।
वायुरोधात्मकं देहे प्राणायामेन जायते ॥ ३० ॥
तत्र प्राणस्य सन्तापो जायते नात्र संशयः ।
देहस्यापि तथा पुत्र तपस्तेन तदुच्यते ॥ ३१ ॥
षट्चक्रभेदने दक्षमन्तर्ध्यानपरायणः ।
सहस्रारे गतं वायुं रोधयेत्तत्र लालसः ॥ ३२ ॥
तपःप्रभावेन तेन क्षुद्रसिद्धियुतो नरः ।
भवति ज्ञानमार्गज्ञस्त्रिकालज्ञानसंयुतः ॥ ३३ ॥
दूरश्रवणसामीप्यं कुरुते कामगां गतिम् ।
जले स्थलं स्थले तोयमाकाशे नगरादिकम् ॥ ३४ ॥
अहताज्ञश्च सर्वत्र भवते परमद्युतिः ।
अपरायुः समायुक्तो ब्रह्माद्यांश्चालयत्यपि ॥ ३५ ॥
एककल्पस्य सर्वेषां वृत्तान्तं कथयत्यपि ।
जानाति स तपो योगादन्तर्ध्यानपरायणः ॥ ३६ ॥
सोऽपि गत्वा विधेर्लोकं भुनक्ति विविधं सुखम् ।
पुण्यान्ते पुनरत्रैव दीनो भवति निश्चितम् ॥ ३७ ॥
तृतीयं त्वं तपोरूपं शृणु मत्तो सुयोगदम् ।
द्विविधं च तपो येन साधितं गुरुमार्गतः ॥ ३८ ॥
तेनैकाग्रमयं चित्तं भवत्यत्र न संशयः ।
सर्वत्रात्मस्वरूपं स पश्यति ज्ञानचक्षुषा ॥ ३९ ॥
तत्रानुभवमात्रेण शमदमपरायणः ।
भवते तेन सन्तापो देहे मनसि जायते ॥ ४० ॥
विषयान्निन्दयन् सोऽपि जडोन्मत्तपिशाचवत् ।
चरति सर्वभावज्ञ आत्मनिष्ठतया सुत ॥ ४१ ॥
ततो निरोधयोगेन निवृत्तिषु परायणः ।
चित्तं संरुध्य सर्वत्र निवृत्तिं लभते स्वयम् ॥ ४२ ॥
अहं ब्रह्मेति यत् प्रोक्तं कुतस्तत्र भयं भवेत् ।
न जगज्जगदात्मा वै मनो वाणीविहीनकः ॥ ४३ ॥
स्वत उत्थानभावो नोत्थानं परत एव न ।
न स्वतः परतस्तत्र उत्थानं वर्जितं भवेत् ॥ ४४ ॥
एवं निरोधयोगेन शमी दमपरायणः ।
सन्तोषेण स्वयं योगी वर्तते नित्यदा सुत ॥ ४५ ॥
तत्र सन्तोषभावेन स्थितस्य देहचेतसोः ।
सन्तापो जायते नित्यं तदेव तप उच्यते ॥ ४६ ॥
ततो निरोधभूमिं स त्यक्त्वा शान्तिपरायणः ।
त्यक्त्वा पञ्चविधं चित्तमेवं ब्रह्मैव जायते ॥ ४७ ॥
ततो विधिनिषेधाभ्यां हीनो योगधरः स्वयम् ।
रसहीनश्चरत्यत्र प्रारब्धानुभवेन सः ॥ ४८ ॥
यथा जलानि सर्वत्र सुत गच्छन्ति सागरे ।
यदृच्छया तथा सोऽपि भोक्ता भोगेन नित्यदा ॥ ४९ ॥
तत्राऽन्तरे शरीरेऽस्य तापः सञ्जायते सदा ।
शान्त्या भोगपरत्वेन तदेव तप उच्यते ॥ ५० ॥
[[३]]
एतद्योगात्मकं सुज्ञ तपस्ते कथितं मया ।
तृतीयं ब्रह्मदं पूर्णं तदर्थं यत्नमाचर ॥ ५१ ॥
तपोधना महाभागा योगिनस्तत्परायणाः ।
ब्राह्मणास्तपसा युक्ता ब्रह्मभूता भवन्ति ते ॥ ५२ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते असितनैध्रुवसंवादे त्रिविधतपोवर्णनं नाम प्रथमोऽध्यायः ॥