॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
गजाननस्य क्षेत्रं मे वद कुत्र प्रतिष्ठितम् ।
माहात्म्यं तस्य विप्रेश सङ्क्षेपेण सुसिद्धिदम् ॥ १ ॥
मुद्गल उवाच ।
दिशान्ते नैर्ऋते कोणे देवैर्मुनिभिरादरात् ।
स्थापितो गणनाथश्च गजवक्त्रावतारधृक् ॥ २ ॥
द्वीपेषु स्वस्वखण्डेषु विभुर्नैर्ऋतकोणगः ।
पूज्यते मानवैः सर्वैर्देवैश्च मुनिभिस्तथा ॥ ३ ॥
भाद्रशुक्लचतुर्थ्यां तैः स्थापितो गणनायकः ।
मध्याह्नसमये दक्ष पुरा सोत्सववर्धिनी ॥ ४ ॥
तस्यां यात्रां प्रकुर्वन्ति जना भक्तिपरायणाः ।
त्रिलोकस्था विशेषेण नानासिद्धिप्रवृद्धये ॥ ५ ॥
दशयोजनविस्तारो विभुः क्षेत्रस्य मध्यगः ।
मूषकश्चतुरस्रस्य पुरतस्तिष्ठति प्रभोः ॥ ६ ॥
सिद्धिस्तस्याऽपि वामाङ्गे दक्षिणाङ्गे च बुद्धिका ॥
अष्टदिक्षु प्रजानाथ सिद्धयोऽष्टौ व्यवस्थिताः ॥ ७ ॥
अष्टमातृगणः पश्चात्ततोऽष्टौ भैरवा मताः ।
दशदिक्षु च दिक्पालाः सशस्त्राः संस्थिताः प्रभोः ॥ ८ ॥
शिवविष्णुमुखा देवा वामाङ्गे संस्थिता विभोः ।
काश्यादिमुख्यक्षेत्राणि गङ्गाद्याश्च तथोत्तरे ॥ ९ ॥
मुनयः शेषकाद्याश्च पृष्ठभागे व्यवस्थिताः ।
भक्ता मुद्गलमुख्याश्च पुरतः संस्तुवन्ति तम् ॥ १० ॥
त्रिलोकेषु च ये मुख्यास्ते सर्वे तत्र संस्थिताः ।
अंशेन देवसेवार्थं स्वाधिकारेषु मानद ॥ ११ ॥
तीर्थेषु स्नानकर्तारः समुद्रे भक्तिसंयुताः ।
स्वस्वनाम्नाङ्कितेष्वेव स्वल्पदेहधरा अपि ॥ १२ ॥
परस्परं बोधयन्तो गजाननचरित्रकम् ।
नृत्यन्ति ते हसन्त्येव देवचेष्टापरायणाः ॥ १३ ॥
गणेशतीर्थं वै तत्र गजाननसुसिद्धिदम् ।
तत्र स्नानं प्रकुर्वन्ति ये नरास्ते प्रजापते ॥ १४ ॥
कृतकृत्या न सन्देहो मनेप्सितफलप्रदे ।
तत्र यात्रां प्रकुर्वन्ति चतुर्विधफलप्रदाम् ॥ १५ ॥
धन्यास्ते पुरुषा लोके कृतकृत्या भवन्ति वै ।
वसन्ति ये यत्र कुत्र गजाननपरायणाः ॥ १६ ॥
ब्रह्मभूताश्च ते प्रोक्ता दर्शनात् पापनाशनाः ।
अन्यदेवस्य ये भक्ता मृताः क्षेत्रे भवन्ति चेत् ॥ १७ ॥
ते तस्य लोकमासाद्य भोगान् भुञ्जन्ति शाश्वतान् ।
तदन्ते गणनाथं वै गच्छन्ति ब्रह्मसिद्धये ॥ १८ ॥
तत्र सिद्धिं गता नाना नरा नार्यश्च भो विधे ।
तेषां चरित्रकं पूर्णं मया वक्तुं न शक्यते ॥ १९ ॥
[[१२९]]
यात्रामात्रेण तत्रैव चतुर्विधफलं लभेत् ।
मरणे ब्रह्मभूतश्च नरो भवति निश्चितम् ॥ २० ॥
सङ्क्षेपेण मया तुभ्यं कथितं क्षेत्रगं महत् ।
माहात्म्यं विस्तरेणैव कोऽपि नार्हति निश्चितम् ॥ २१ ॥
इदं गजाननस्यापि चरितं सर्वसिद्धिदम् ।
भविष्यति महाभाग सर्वसौख्यकरं तथा ॥ २२ ॥
नानाख्यानसमायुक्तं कथितं ते प्रजापते ।
यः शृणोति नरो भक्त्या पठेद्वा तस्य सिद्धिदम् ।
भविष्यति महाभाग सर्वसौख्यकरं तथा ॥ २३ ॥
नानेन सदृशं किञ्चित् पावनं ब्रह्मदायकम् ।
विद्यते सर्वशास्त्रेषु भुक्तिमुक्तिप्रदायकम् ॥ २४ ॥
स्वर्णभारसहस्राणि नित्यं यो वै ददाति चेत् ।
तदस्य श्रवणान् मर्त्यो लभते नात्र संशयः ॥ २५ ॥
गोदानानि नरो यस्तु ददाति भक्तिसंयुतः ।
नित्यं सहस्रशो दक्ष फलं प्राप्नोति शाश्वतम् ॥ २६ ॥
नानादानानि यो दद्याद्ब्राह्मणेभ्यो यथाविधि ।
तेषां पुण्यफलं भुक्त्वा पतति मानवो भुवि ॥ २७ ॥
अस्य श्रवणमात्रेण भुक्त्वा भोगान् मनेप्सितान् ।
अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो भवेन्नरः ॥ २८ ॥
नानायज्ञादिकं कर्म कुरुते मानवः सदा ।
नास्य श्रवणमात्रेण कलांशमपि तत् फलम् ॥ २९ ॥
जन्ममृत्युप्रदान्येव कर्माणि सकलानि च ।
इदं सर्वप्रदं प्रोक्तमन्ते ब्रह्मप्रदायकम् ॥ ३० ॥
सङ्क्षेपेण प्रजानाथ कथितं सुखदं परम् ।
गजाननस्य माहात्म्यं किं भूयः श्रोतुमिच्छसि ॥ ३१ ॥
सूत उवाच ।
एवमुक्त्वा महायोगी मुद्गलो विरराम ह ।
श्रुत्वा दक्षोऽपि संहृष्टो बभूव मुनिसत्तम ॥ ३२ ॥
मयाऽपि कथितं सर्वं माहात्म्यं पूर्णसिद्धिदम् ।
तुभ्यं विप्रर्षियुक्ताय यथा मुद्गलभाषितम् ॥ ३३ ॥
धन्योऽहं कृतकृत्योऽहं भवतां सङ्गमेन वै ।
गणेशामृतधारायां प्रवृत्तः सर्वभावतः ॥ ३४ ॥
गणेशान्न परं किञ्चित् सर्वादौ तेन स स्मृतः ।
सर्वपूज्यश्च विप्रर्षे ब्रह्मेशो ब्रह्मदः परः ॥ ३५ ॥
श्रुतं त्वया महाभाग ब्राह्मणैः शास्त्रकोविदैः ।
अधुना किं च ते विप्र इच्छा श्रोतुं वदस्व ताम् ॥ ३६ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते चरित्रमाहात्म्यवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः ॥
॥ इति चतुर्थः खण्डः समाप्तः ॥
॥ इति श्रीमुद्गलपुराणे चतुर्थः खण्डः समाप्तः ॥