५१ विघ्नराजावतारवर्णनम्

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

केनाऽपि विघ्नदैत्यस्य स्थानं न ज्ञायते सदा ।
कालस्य गणनाथस्तु ययौ तस्याऽश्रमं प्रभुः ॥ १ ॥

गुप्तरूपधरं विघ्नमङ्कुशेन समानयत् ।
तद् दृष्ट्वा परमाश्चर्यं देवाः सर्वे विसिस्मिरे ॥ २ ॥

ततस्तं स महाकालः प्रावमत्य गजाननम् ।
अन्तर्धाय स्वमात्मानमग्निरूपो बभूव ह ॥ ३ ॥

त्रैलोक्यसंस्थितं ज्ञात्वा तेजस्तत्त्वसमाश्रितम् ।
विघ्नं गजाननः क्रुद्धो वायुः संहारकोऽभवत् ॥ ४ ॥

ततः कालः स्वयं दक्षाऽभवदाकाशतत्त्वगः ।
वायुस्थं गणनाथं स कर्षयामास दारुणः ॥ ५ ॥

आकाशस्थं महाकालं ज्ञात्वाऽहङ्कारधारकः ।
गजाननश्च तं क्रुद्धोऽकर्षयत् प्रलयं प्रभुः ॥ ६ ॥

ततो विघ्नो महत्तत्त्वं समाश्रित्य गजाननम् ।
ताडयामास सङ्क्रुद्धः कालः कलयतां प्रभुः ॥ ७ ॥

ततो गजाननः क्रुद्धः प्रधानरूपधारकः ।
महत्तत्त्वस्थमेवं तं कर्षयामास दारुणम् ॥ ८ ॥

ततोऽभवत् सोऽपि महत्तत्त्वं त्यक्त्वा गुणेशगः ।
प्रधानं हन्तुमारेभे कालः परमदुर्जयः ॥ ९ ॥

ततो गजाननः साक्षाद्बिन्दुब्रह्मस्थितोऽभवत् ।
चतुष्पादमयीं शक्तिं हन्तुं चिक्षेप सोऽन्तकम् ॥ १० ॥

गुणेशान्न परः कालस्ततः खण्डितविक्रमः ।
कालो मायां चतुष्पादां निरीक्ष्य त्रासितोऽभवत् ॥ ११ ॥

शक्तिं दृष्ट्वा महाघोरां कालगर्वहरां पराम् ।
शरणं गणराजं स ययौ कालः प्रजापते ॥ १२ ॥

समागतं महाविघ्नं देवा मुनिगणास्ततः ।
विस्मिताश्चाऽभवन् सर्वे जयेति गणपं जगुः ॥ १३ ॥

विघ्नासुरः प्रणम्यादौ पुपूज ह गजाननम् ।
तद् दर्शनजबोधेन तुष्टाव स कृताञ्जलिः ॥ १४ ॥

विघ्नासुर उवाच ।

नमस्ते गणनाथाय गजाननस्वरूपिणे ।
योगाय योगनाथाय योगिभ्यो योगदायिने ॥ १५ ॥

अनाकाराय साकाररूपाय ते नमो नमः ।
नानाभेदविहीनाय भेदानां पतये नमः ॥ १६ ॥

विघ्नेशाय परेशाय कालभीतिहराय ते ।
हेरम्बाय परेषां वै परात्पर नमो नमः ॥ १७ ॥

अनादये ह्यनाथाय सर्वेषामादिमूर्तये ।
भक्तेशाय सदा भक्तवाञ्छितप्रद ते नमः ॥ १८ ॥

स्वानन्दवासिने तुभ्यं मूषकध्वजिने नमः ।
मूषकोपरिसंस्थाय ढुण्ढिराजाय ते नमः ॥ १९ ॥

आदिमध्यान्तहीनायादिमध्यान्तस्वरूपिणे ।
गजवक्त्राय वै तुभ्यं सर्वपूज्याय ते नमः ॥ २० ॥

सिद्धिबुद्धिस्वरूपाय सिद्धिबुद्धिप्रदाय च ।
सिद्धिबुद्धिपते तुभ्यं महोदर नमो नमः ॥ २१ ॥

अमेयमायातिगमूर्तयेऽपि ते सदा सुशान्तिप्रदपूर्णमूर्तये ।
मनोवचोहीनमयाय तेजसे मनोवचोयुक्तकलाय ते नमः ॥ २२ ॥

अज्ञानदोषेण कृतोऽपराधो हेरम्ब तं क्षन्तुमिहार्हसि त्वम् ।
रक्षस्व मां भक्तियुतं दयाब्धे श्रेष्ठं वरं देहि परेशपाल ॥ २३ ॥

अधुना हि मया बुद्धं स्वरूपं ते गजानन ।
योगाकारमयोऽसि त्वं ततोऽहं निर्जितस्त्वया ॥ २४ ॥

त्वां विना का समर्थः स्यात् कालं कलयतां प्रभुम् ।
जेतुं धन्यः कृतो नाथ पादपद्मस्य दर्शनात् ॥ २५ ॥

[[१२७]]

एवं स्तुत्वा महाविघ्नः प्रणनाम गजाननम् ।
तमुत्थाप्य जगादेदं वचनं सर्वदः परः ॥ २६ ॥

श्रीगजानन उवाच ।

त्वया कृतं मदीयं वै स्तोत्रं सर्वप्रदं भवेत् ।
कालस्य न भयं तेषां पठतां शृण्वतां सदा ॥ २७ ॥

यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः ।
महायोगप्रदं चास्तु स्तोत्रं मत्प्रीतिवर्धनम् ॥ २८ ॥

हन्तुं त्वां क्रोधसंयुक्त आगतोऽहं न संशयः ।
वाञ्छितं वृणु नो हन्मि अधुना शरणार्थिनम् ॥ २९ ॥

महाकाल उवाच ।

भक्तिं देहि त्वदीयां मे सुदृढां तां गजानन ।
दासरूपेण मां नाथ रक्षस्व त्वत्समीपगम् ॥ ३० ॥

ब्रह्मेश कार्यं कथय तत् करिष्यामि यन्त्रितः ।
स्थानं भक्ष्ययुतं देहि तत्र तिष्ठामि नित्यशः ॥ ३१ ॥

मन्नामपूर्वकं नाम कुरु त्वं ते गजानन ।
सर्वसिद्धिकरं नाथ पूर्णयोगप्रदं परम् ॥ ३२ ॥

जगाद गणराजस्तु ततस्तं भक्तमुत्तमम् ।
निर्विकल्पं मनस्तस्य ज्ञात्वा भक्तप्रपालकः ॥ ३३ ॥

श्रीगजानन उवाच ।

मदीया भक्तिरचला भविष्यति तवाऽनघ ।
यद्यदिच्छसि तत्तत्ते सफलं चास्तु सर्वदा ॥ ३४ ॥

मत् समीपे गणो भूत्वा तिष्ठ त्वं बलसंयुतः ।
महाविघ्नस्वरूपेण नानाविघ्नगणैर्वृतः ॥ ३५ ॥

विघ्नराजेति मन्नाम भविष्यति सुसिद्धिदम् ।
ब्रह्मभूयकरं पूर्णं वाञ्छितार्थप्रदायकम् ॥ ३६ ॥

यत्र मे स्मरणं नास्ति कर्मादौ पूजनं तथा ।
तत् सर्वं भुक्ष्व विघ्न त्वं भ्रंशयित्वा सुरेन्द्रकान् ॥ ३७ ॥

शिवविष्णुमुखा देवा अन्ये मुनिमुखा नराः ।
शेषाद्या नागराजास्ते नानाजन्तव एव च ॥ ३८ ॥

अहङ्कारेण संयुक्ता भवन्ति यदि तेऽसुर ।
तदा तान् भ्रंशयित्वा त्वं भुङ्क्ष्व भोगान् यथेप्सितान् ॥ ३९ ॥

मद्भक्तिकारिणः सर्वे त्वया पाल्या विशेषतः ।
तेषां निर्विघ्नभावेन पुरो भावपरो भव ॥ ४० ॥

एवमुक्त्वान्तर्दधेऽसौ गजाननः प्रतापवान् ।
विघ्नो विघ्नैः समायुक्तः शान्तरूपो बभूव ह ॥ ४१ ॥

देवा मुनिमुखाः सर्वे स्वस्वस्थानं ययुस्ततः ।
सपत्नीकस्तत्र पार्श्वो मूर्च्छितोऽभूत् प्रजापते ॥ ४२ ॥

तयोर्हृदि गणाधीशः प्रकटोऽभूद्वचोऽब्रवीत् ।
मां चिन्तामणिरूपं ते पश्य तात हृदि स्थितम् ॥ ४३ ॥

मूर्तौ पूजनमात्रेण हृदि ध्यानेन मानदौ ।
सन्तुष्टौ जनकौ नित्यं संशयो न भविष्यथः ॥ ४४ ॥

यदा मे स्मरणं तातौ महाकार्ये करिष्यथः ।
द्रक्ष्यथो मां न सन्देहो योगशान्तौ भविष्यथः ॥ ४५ ॥

एवमुक्त्वांर्तदधे सोऽपि गणेशो हृदि रूपधृक् ।
तौ स्वस्थौ मूर्तिमास्थाप्य निरन्तरमपूजताम् ॥ ४६ ॥

इति ते गणराजस्य कथितं चरितं महत् ।
अंशा गजाननस्यैते अवतारा विधे स्मृताः ॥ ४७ ॥

वरेण्यपुत्रभावेन बभूव ह गजाननः ।
कस्मिन् काले वधार्थाय सिन्दूरस्य न संशयः ॥ ४८ ॥

कल्पभेदानुसारेण नानारूपधरः प्रभुः ।
गजाननो ह्यभूद्वर्णयितुं वापि न शक्यते ॥ ४९ ॥

[[१२८]]

इत्याद्या बहवो भेदा गजाननस्य सिद्धिदाः ।
तांश्च ज्ञातुं कोर्हति वर्णयितुं वा प्रजापते ॥ ५० ॥

सङ्क्षेपेण मया तुभ्यं कथितं पापनाशनम् ।
चरितं विघ्नराजस्य भुक्तिमुक्तिफलप्रदम् ॥ ५१ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते विघ्नराजावतारवर्णनं नामैकपञ्चशत्तमोऽध्यायः ॥