५० विघ्नासुराश्रमगमनम्

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

पार्श्वेण मुनिना पूर्वं दीपवत्सलया सह ।
पत्न्या परमसत्या वै तपसाऽऽराधितो विभुः ॥ १ ॥

दशवर्षसहस्रेषु गणेशो वरदोऽभवत् ।
स्तुतः सम्पूजितस्तेन नानास्तोत्रैः प्रजापते ॥ २ ॥

ताभ्यां पुत्रो भव स्वामिन् वृतस्त्वन्नौ वरो महान् ।
तथेति गणराजस्तौ कथयित्वा ययौ पुरम् ॥ ३ ॥

ततः कदाचिद्देवर्षिर्नारदस्त्विन्द्रमाययो ।
पूजितः सुरनाथेन जगाद वचनं हितम् ॥ ४ ॥

नारद उवाच ।

हिमवत्यां हिमप्रान्ते राजा मदसमन्वितः ।
अभिनन्दन एवाऽसौ यज्ञं करोति दुर्मतिः ॥ ५ ॥

ब्राह्मणान् स समानीय प्रोवाच बलगर्वितः ।
यज्ञमिन्द्रेण हीनं मे कुरुध्वं यत्नसंयुताः ॥ ६ ॥

नो चेत् सर्वान् हनिष्यामि क्रोधयुक्तो महर्षयः ।
तस्य तद्वचनं श्रुत्वा तथेति ब्राह्मणा जगुः ॥ ७ ॥

अद्य श्वो वा करिष्यन्ति यज्ञं भयसमन्विताः ।
ब्राह्मणा नात्र सन्देहो यथेच्छसि तथा कुरु ॥ ८ ॥

एवमुक्त्वा महायोगी नारदः प्रययौ ततः ।
विकुण्ठे स महाविष्णुं ततः स्वच्छन्दगोऽभवत् ॥ ९ ॥

इन्द्रः क्रोधसमाविष्टः सस्मार कालरूपिणम् ।
भगवन्तं महाकायमिन्द्रं स प्रययौ प्रभुः ॥ १० ॥

तं प्रणम्य प्रतुष्टाव कथयामास दुःखदम् ।
वृत्तान्तं प्रार्थयामास यज्ञविध्वंसनाय तम् ॥ ११ ॥

कालस्तथेति तं तुष्टः कथयित्वा ययौ धराम् ।
धारयामास मनसि कालः कलयतां प्रभुः ॥ १२ ॥

कालाधीनं जगत् सर्वं सदा कालेन भुज्यते ।
कालं योगबलेनैव जयन्त्यत्र हि योगिनः ॥ १३ ॥

तत्रादौ कर्मसंशुद्धा योगनिष्ठा भवन्ति च ।
अतः कर्मविनाशार्थं यतिष्येऽहं विशेषतः ॥ १४ ॥

कर्महीना नराः सर्वे मलिनाः सम्भवन्ति च ।
नेच्छन्ति योगमाद्यं ते भविष्यन्ति मदात्मकाः ॥ १५ ॥

जन्ममृत्युयुताः सर्वे मदधीना न संशयः ।
इन्द्रेण प्रेरितस्तत्र च्छद्म नैव करोम्यहम् ॥ १६ ॥

विचार्य काल इति स आसुरं रूपमादधे ।
विघ्नरूपेण तं भूपं ययौ क्रोधसमन्वितः ॥ १७ ॥

यज्ञं बभञ्ज वेगेन ब्राह्मणांस्ताडयन् पुरा ।
ततो नानास्थले दुष्टो ह्यगमद्विघ्नरूपधृक् ॥ १८ ॥

कर्मखण्डनभावेन चचार बलमोहितः ।
सर्वत्र कर्मलोपाय विघ्नेनापीड्य मानवान् ॥ १९ ॥

ततः सोऽपि महावेगो जनान् कालेन मोहयन् ।
भ्रामयामास विप्रान् योगिनो नानास्वरूपधृक् ॥ २० ॥

प्रातःकालं चकाराऽसौ निशीथं सायमादरात् ।
मध्याह्नं कारयामास नानाभ्रमकरः सदा ॥ २१ ॥

चकार रात्रिरूपं स दिवसं कर्मखण्डकः ।
रात्रिं दिवसरूपां तां वक्तुं नैव प्रशक्यते ॥ २२ ॥

लोकान् भ्रमयुतान् सर्वान् कर्महीनांश्चकार सः ।
चन्द्रमाच्छाद्य कालस्तु सूर्यं नक्षत्रकादिकान् ॥ २३ ॥

ततोऽतिभयसंयुक्ता देवा भ्रान्ता बभूविरे ।
कर्महीनप्रभावेण चोपोषणपरायणाः ॥ २४ ॥

न समर्था बभूवुस्ते कालं चलयितुं प्रभुम् ।
कालाधीनाः सुराः सर्वे सृष्टिस्थितिलयात्मकाः ॥ २५ ॥

ततो वसिष्ठमुख्याश्च ब्रह्माणं शरणं ययुः ।
तेन सार्धं च वैकुण्ठं जग्मुः कालभयान्विताः ॥ २६ ॥

[[१२५]]

विष्णुना शङ्करं जग्मुर्ब्राह्मणा भयसङ्कुलाः ।
स्तुत्वा नानाविधैः स्तोत्रैः शशंसुः कालचेष्टितम् ॥ २७ ॥

शिवेन संयुताः सर्वे विघ्नेशं तुष्टुवुः प्रभुम् ।
तपसा ध्यानयुक्तेन तोषयामासुरादरात् ॥ २८ ॥

गते वर्षशते काले परमात्मा गजाननः ।
वरदस्तान् ययौ देवान् बोधयामास तापसान् ॥ २९ ॥

ततस्तैः संस्तुतो देवः प्रार्थितो विघ्ननाशने ।
तथेति प्रतिपाद्यैव पार्श्वपुत्रो बभूव सः ॥ ३० ॥

दीपवत्सलया युक्तः पार्श्वः परमयोगवित् ।
पुरा तताप घोरं स तपो विघ्नेश्वरं स्मरन् ॥ ३१ ॥

प्रगतेषु स वर्षेषु सहस्रे गणनायकः ।
प्रसन्नस्तं ययौ तेन पूजितः संस्तुतोऽभवत् ॥ ३२ ॥

स वव्रे मे भव स्वामिन् पुत्रः परमतारकः ।
संसारे पुत्रवात्सल्याद्भजिष्यामि सह स्त्रिया ॥ ३३ ॥

मूर्तौ देवस्वभावेन हृदये योगमार्गतः ।
भजिष्यामि त्रिधा ढुण्ढे त्वां सर्वत्र विशेषतः ॥ ३४ ॥

नानाकर्मपरोऽहं वै तव देव गजानन ।
पिता जातश्च तेन त्वं तारको मे भविष्यसि ॥ ३५ ॥

तथेति विघ्नराजस्तमुवाचाऽन्तर्दधे प्रभुः ।
विघ्नासुरविनाशाय बभूवे देहधारकः ॥ ३६ ॥

दीपवत्सलिकायाः स जठरे सङ्गतो विभुः ।
स्तनपानादिकं सर्वं स चकारातितोषितः ॥ ३७ ॥

पञ्चवर्षात्मको बालो बभूव मुनिवेश्मनि ।
तदा देवर्षयः सर्वे तं ययुर्भक्तिसंयुताः ॥ ३८ ॥

शम्भ्वाद्यान् स सुरान् वीक्ष्य वसिष्ठादिमुनीश्वरान् ।
पार्श्वः सम्भ्रमसंयुक्तस्तान् पुपूज यथाविधि ॥ ३९ ॥

उवाच प्रेमसंयुक्तो धन्यं मे जन्म कर्म च ।
येन देवगणाः सर्वे मुनयो गृहमागताः ॥ ४० ॥

आज्ञां कुरुत देवेशा दासोऽहं भवतां द्विजाः ।
करिष्यामि न सन्देहो भवत्स्मृतिबलेन वै ॥ ४१ ॥

देवर्षय ऊचुः ।
तव भाग्यबलेनैव सुतः स्वानन्दगोऽभवत् ।
गजाननः स्वयं सर्वे प्रार्थयामो हिताय तम् ॥ ४२ ॥

विघ्नासुरेण दुष्टेन जगद्भ्रष्टं कृतं मुने ।
तस्य नाशार्थमेवं त्वं कुरु यत्नं महामते ॥ ४३ ॥

श्रुत्वा तेषां वचः क्रूरं मुनिः शोकयुतोऽभवत् ।
एतस्मिन्नन्तरे तत्र स गजानन आययौ ॥ ४४ ॥

तं दृष्ट्वा सहसोत्थाय नेमुः सर्वे सुरेश्वराः ।
मुनयस्तुष्टुवुर्देवं प्रार्थयामासुरादरात् ॥ ४५ ॥

तेषां हृदि स्थितं ज्ञात्वा शस्त्रहस्तश्चतुर्भुजः ।
मूषकोपरि संस्थो यो ययौ हन्तुं महासुरम् ॥ ४६ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते विघ्नासुराश्रमगमनं नाम पञ्चाशत्तमोऽध्यायः ॥

[[१२६]]