॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
निर्माल्यस्य च माहात्म्यं श्रुतं यत् परमाद्भुतम् ।
विस्तरेण पुनः स्वामिन् वद तस्य चरित्रकम् ॥ १ ॥
मुद्गल उवाच ।
पराशरगृहे देवो बभूव ह गजाननः ।
पुत्रभावेन तस्यापि चरितं कथितं पुरा ॥ २ ॥
पराशरेणैव तत्र स्थापिता मूर्तिरादरात् ।
गजाननस्य भो दक्ष सर्वदाऽभूत् सुसेविता ॥ ३ ॥
नित्यं तत्रैव देवेशा ब्रह्मविष्णुशिवादयः ।
रात्रौ गजाननं ते सम्पूजयन्ति सुसिद्धिदम् ॥ ४ ॥
गजासुरवधाद्दक्ष प्रारभ्य भक्तिसंयुताः ।
स्वर्गपुष्पोपहाराद्यैः सुप्रसन्नाननाम्बुजाः ॥ ५ ॥
कदाचित् तत्र राजर्षिर्मृगयासक्त आययो ।
सैन्येन स्वप्रधानैश्च संवृतो वीरभद्रकः ॥ ६ ॥
स आगत्य गणेशानं पूजयन् भक्तिसंयुतः ।
तत्रैव निशि संस्थोऽभूद्गाणपत्यो महायशाः ॥ ७ ॥
उषःकाले समागत्य स पुपूज गजाननम् ।
पुष्पाणि दृष्टवान् सोऽभूत् तत्र स्वर्गोद्भवानि च ॥ ८ ॥
सुवासबहुलान्येव मन्दाराद्यानि भूमिपः ।
विस्मितो मानसे भूत्वाऽभवत्तत्रैव संस्थितः ॥ ९ ॥
देवालयं पिधायाऽसौ भूपःसंस्थाप्य रक्षकान् ।
सैन्ययुक्तो जजागार देवदर्शनलालसः ॥ १० ॥
[[१२३]]
ततो देवेन्द्रमुख्याश्च रात्रौ देवाः समाययुः ।
तद् दृष्ट्वा गुप्तरूपेण पुपूजुस्तं गजाननम् ॥ ११ ॥
पूजयित्वा गताः सर्वे राजा तत्र समागतः ।
पूजां दृष्ट्वा महाभागो विस्मितोऽभूत् पुनः पुनः ॥ १२ ॥
ततः स्वगुरवे गत्वा पप्रच्छ विनयान्वितः ।
देवदर्शनकाङ्क्षी कृताञ्जलिः स विशेषतः ॥ १३ ॥
वीरभद्र उवाच ।
स्वामिन् देवगणाः पूजयितुं चात्र गजाननम् ।
नित्यमायान्ति तान् द्रष्टुमिच्छामि वद कारणम् ॥ १४ ॥
शिवशर्मोवाच ।
निर्माल्यसम्भवानि त्वं पुष्पाणि यत्र तत्र च ।
आच्छादय महीपाल तेषां ते दर्शनं भवेत् ॥ १५ ॥
तथेति वीरभद्रेण कृतं देवालये पुनः ।
देवाः समागता रात्रावज्ञानेनाचरंस्ततः ॥ १६ ॥
निर्माल्यस्पर्शमात्रेण पुण्यहीना बभूविरे ।
पूजां कृत्वा पुनर्गन्तुमिच्छां चक्रुः सुरेश्वराः ॥ १७ ॥
ततोऽतिवेगहीनैश्च देवैर्देवेन्द्रसत्तमैः ।
विचारेण समाज्ञातं कारणं गतिखण्डने ॥ १८ ॥
पादस्पर्शः कृतोऽस्माभिर्निर्माल्ये गणपस्य च ।
अतो गतिविहीनैश्च किं कर्तव्यं विशेषतः ॥ १९ ॥
ततो राजा समायातः पूजार्थं देवसन्निधौ ।
निर्माल्यमार्जनं कृत्वा ददर्श देवमुख्यकान् ॥ २० ॥
तान् प्रणम्य महाभक्त्या तुष्टाव विविधैः स्तवैः ।
प्रसन्नास्ते च राजानमूचुः शम्भ्वादयः सुराः ॥ २१ ॥
शिवादय ऊचुः ।
राजंस्त्वया कृतं कर्म स्वार्थभावेन दुःखदम् ।
देवानां तत्र चोपायं कुरु गतिप्रदायकम् ॥ २२ ॥
ततो राजा भयोद्विग्नः स्वगुरुं प्रणिपत्य तम् ।
पप्रच्छ चलने तेषामुपायं पुण्यदं परम् ॥ २३ ॥
गुरुणा बोधितो राजा हृदि ध्यात्वा गजाननम् ।
गणेशपूजया जातं पुण्यपुष्पं ददौ तदा ॥ २४ ॥
अगाधपुण्ययोगेन देवा गतियुताः कृताः ।
विष्ण्वादयो जगुस्तं ते वरं वृणु महीपते ॥ २५ ॥
अमोघं दर्शनं प्रोक्तमस्माकं शास्त्रसम्मतम् ।
अतो मनेप्सितं भूप दास्यामो नात्र संशयः ॥ २६ ॥
ततो राजा च ब्रह्माद्यानुवाच स कृताञ्जलिः ।
गणेशे दृढभक्तिर्मेऽस्तु भवत्कृपया परा ॥ २७ ॥
ततस्ते विस्मिताः सर्वे प्रार्थयित्वा गजाननम् ।
ददुर्भक्तिं गणेशाने ब्रह्मभूतपदप्रदाम् ॥ २८ ॥
गताः स्वर्गेषु देवास्ते राजा तत्र समास्थितः ।
राज्यं पुत्रे विनिक्षिप्य बाले प्रधानसंयुते ॥ २९ ॥
नित्यं गजाननं भक्त्याऽभजदनन्यचेतसा ।
अन्ते स्वानन्दगो भूत्वा भजते गणनायकम् ॥ ३० ॥
एवं निर्माल्यमाहात्म्यं सङ्क्षेपेण निरूपितम् ।
पठनाच्छ्रवणान्नृभ्यो भुक्तिमुक्तिफलप्रदम् ॥ ३१ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते गणेशनिर्माल्यमाहात्म्यवर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः ॥
[[१२४]]