४८ सिन्दूरवधः

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

एकदा नारदो योगी सिन्दूरासुरमागमत् ।
पूजितस्तेन तं विप्रो हर्षयुक्तो जगाद ह ॥ १ ॥

नारद उवाच ।

कैलासे शङ्करस्यैव बभूवे पुत्र उत्तमः ।
गणेशस्तपसा तुष्टः सिद्धिबुद्धिपतिः स्वयम् ॥ २ ॥

देवैः सम्प्रार्थितः सोऽपि त्वां हनिष्यति निश्चितम् ।
अतो यत्नपरो दैत्य भव गच्छामि मानद ॥ ३ ॥

एवमुक्त्वा महायोगी नारदः स्वेच्छया चरन् ।
गतः सोऽपि भयोद्विग्नो बभूवासुरनायकः ॥ ४ ॥

एतस्मिन्नन्तरे तत्र प्रधानं सहसाऽऽगतम् ।
विचार्य तेन दैत्येन्द्रो ययौ हन्तुं सुरान् पुरा ॥ ५ ॥

समागतं विलोक्यैव पलायन्तेन्द्रमुख्यकाः ।
ब्रह्माणं शरणं सर्वे भयभीता दिवौकसः ॥ ६ ॥

सिन्दूरः कोपसंयुक्त आययौ तत्र मानद ।
ब्रह्मा हंसं समारुह्य देवैः पपाल तत्क्षणात् ॥ ७ ॥

विकुण्ठे स गतो विष्णुं दैत्यस्तत्र समागतः ।
ततो विष्णुः शिवं देवैर्ययौ सत्वर एव च ॥ ८ ॥

[[१२१]]

तत्राऽपि स ययौ दैत्यः शम्भुर्देवैर्गणेश्वरम् ।
तुष्टाव दैत्यनाशार्थं ततः स वरदोऽभवत् ॥ ९ ॥

सिन्दूरमाययौ तत्र प्रभुः परशुधारकः ।
गजाननो मूषकारूढको भूत्वा प्रतापवान् ॥ १० ॥

तं दृष्ट्वा योद्धुमायान्तं सिन्दूरः क्रोधसंयुतः ।
जगाद स्वमदेनैव युक्तः परमदुर्जयः ॥ ११ ॥

सिन्दूर उवाच ।

किमर्थं रणभूमौ त्वमागतोऽसि गजानन ।
बालभावेन मां मूर्ख न जानासि सुरेरितः ॥ १२ ॥

मच्छ्वासेन चलन्ति स्म मेरुमन्दरकादयः ।
तलप्रहारवेगेन ब्रह्माण्डं शतधा भवेत् ॥ १३ ॥

शिवादयः सुरेशाश्च भयभीताः समागताः ।
तान् दृष्ट्वाऽपि गणाधीश योद्धुं कथमुपागतः ॥ १४ ॥

बालभावेन संयातं न त्वां हन्मि गजानन ।
त्वत्प्रेरकान् सुरांश्चाहं हनिष्यामि न संशयः ॥ १५ ॥

क्रोधेनाहं च यं कञ्चिदालिङ्गामि गजानन ।
स भस्मसाद्भवेन्नूनं किं करिष्यसि मां वद ॥ १६ ॥

एवं श्रुत्वा गणाधीशो दैत्येशस्य वचो महत् ।
स उवाच प्रहस्याऽथ सिन्दूरं लोकपीडकम् ॥ १७ ॥

श्रीगजानन उवाच ।

दैत्याधम महाबाहो मां न वेत्सि प्रभाविणम् ।
स्वानन्दवासिनं पूर्णं ब्रह्मभूतं विशेषतः ॥ १८ ॥

एवमुक्त्वा विराड्रूपं दधार स गजाननः ।
हस्ताभ्यां मर्दयित्वा तं मस्तके विभुरालिपत् ॥ १९ ॥

ब्रह्मणो रक्षणार्थं स वचः सिन्दूरधारकः ।
गजाननो बभूवापि भक्तेशो भक्तिभावितः ॥ २० ॥

सिन्दूरं मर्दितं दृष्ट्वा देवा हर्षसमन्विताः ।
तुष्टुवुस्तं प्रपूज्यैव भक्तिनम्रात्मकन्धराः ॥ २१ ॥

देवा ऊचुः ।
गजाननाय पूर्णाय साङ्ख्यरूपमयाय ते ।
विदेहेन च सर्वत्र संस्थिताय नमो नमः ॥ २२ ॥

अमेयाय च हेरम्बाय ते परशुधारक ।
मूषकवाहनायैव विघ्नेशाय नमो नमः ॥ २३ ॥

अनन्तविभवायैव परेषां पररूपिणे ।
गुहाग्रजाय देवाय शिवपुत्राय ते नमः ॥ २४ ॥

पार्वतीनन्दनायैव देवानां पालकाय ते ।
सर्वेषां पूज्यदेहाय गणेशाय नमो नमः ॥ २५ ॥

स्वानन्दवासिने तुभ्यं शिवस्य कुलदैवत ।
विष्ण्वादीनां विशेषेण कुलदेवाय ते नमः ॥ २६ ॥

योगाकाराय सर्वेषां योगशान्तिप्रदाय च ।
ब्रह्मेशाय नमस्तुभ्यं ब्रह्मभूयप्रदाय ते ॥ २७ ॥

सिद्धिबुद्धिपते नाथ सिद्धिबुद्धिप्रदायिने ।
मायिने मायिकेभ्यश्च मोहदाय नमो नमः ॥ २८ ॥

लम्बोदराय वै तुभ्यं सर्वोदरगताय च ।
अमायिने च मायाया आधाराय नमो नमः ॥ २९ ॥

गजः सर्वस्य बीजं यत्तेन चिह्नेन विघ्नप ।
योगिनस्त्वां प्रजानन्ति तदाकारा भवन्ति ते ॥ ३० ॥

तेन त्वं गजवक्त्रश्च किं स्तुमस्त्वां गजानन ।
वेदादयो विकुण्ठाश्च शङ्कराद्याश्च देवपाः ॥ ३१ ॥

शुकादयश्च शेषाद्याः स्तोतुं शक्ता भवन्ति न ।
तथापि संस्तुतोऽसि त्वं स्फूर्त्या त्वद्दर्शनात्मना ॥ ३२ ॥

गजाननं प्रणेमुस्तमेवमुक्त्वा शिवादयः ।
स तानुवाच प्रीतात्मा भक्तिभावेन तोषितः ॥ ३३ ॥

[[१२२]]

श्रीगजानन उवाच ।

भवत्कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् ।
पठते शृण्वते देवा ब्रह्मभूयप्रदायकम् ॥ ३४ ॥

वरं वृणुत देवेशास्तुष्टिं स्तोत्रेण चागतः ।
दास्यामि सकलाभीष्टं भवतां यच्चिकीर्षितम् ॥ ३५ ॥

शिवादय ऊचुः ।
यदि प्रसन्नभावेन वरदोऽसि गजानन ।
तदा तिष्ठ गृहे शम्भोः सर्वदा विघ्ननाशनः ॥ ३६ ॥

त्वां दृष्ट्वा विघ्नहीनाश्च भविष्यामो निरन्तरम् ।
प्रत्यक्षं योगरूपं च पश्यामस्तेन सार्थकाः ॥ ३७ ॥

मुद्गल उवाच ।

गजाननस्तानुवाचाऽथ तथेति सुरेश्वरान् ।
स्वलोकं कल्पयामास तत्रैव शिवपार्श्वगम् ॥ ३८ ॥

दशयोजनसाहस्रविस्तारस्तस्य मानद ।
गणाः कुमुदमुख्याश्च कल्पिता मोदकादयः ॥ ३९ ॥

तिष्ठति स्वर्गलोकेषु तदादि गणनायकः ।
गणेशलोक एवाऽसौ बभूवे भुक्तिमुक्तिदः ॥ ४० ॥

सकामास्तं समागम्य पतन्ति पृथिवीतले ।
निष्कामास्तस्य देहे ते अन्ते लीना भवन्ति हि ॥ ४१ ॥

एतत्ते कथितं सारं गजाननचरित्रकम् ।
शिवपुत्रत्वभावेन ब्रह्मेशोऽयं बभूव ह ॥ ४२ ॥

यः शृणोति नरो भक्त्या पठेद्वा तस्य सिद्धिदम् ।
भविष्यति प्रजानाथ तथा नानासुखप्रदम् ॥ ४३ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते सिन्दूरवधो नामाष्टचत्वारिंशोऽध्यायः ॥