॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
अन्यच्छृणु चरित्रं तु गजमस्तकधारणे ।
महेश इति विख्यातो राजा धर्मयुतोऽभवत् ॥ १ ॥
तस्य गेहे गुरुः साक्षाज्जगाम कीर्तिमोहितः ।
राज्ञा सम्मानितः सोऽपि नृपाय च ददौ वरम् ॥ २ ॥
बृहस्पतिरुवाच ।
प्रणतस्ते महीपाल मूर्धा मे प्रभविष्यति ।
सर्वपूज्यो विशेषेण गतोऽभूत् स्वगृहे गुरुः ॥ ३ ॥
ततः कदाचिद्राजर्षिर्नारदं मार्गसंस्थितम् ।
अवमत्य ययौ सोऽपि तं शशाप नृपाधमम् ॥ ४ ॥
नारद उवाच ।
मदेन राजशार्दूल मामनादृत्य गच्छसि ।
अतोऽसुरस्य योनौ त्वं पतिष्यसि न संशयः ॥ ५ ॥
[[११८]]
काले सोऽपि ममाराऽथ गजयोनौ बभूव ह ।
गजासुर इति ख्यातो नरकुञ्जरवेषभृत् ॥ ६ ॥
गजासुरेण शम्भोस्तपः कृतं च विशेषतः ।
मन्त्रं जजाप शैवेनातोषयन्नियमे रतः ॥ ७ ॥
सहस्रेषु गतेष्वेव वर्षेषु वरदः शिवः ।
जगाद वृणु दैत्येश यत्ते मनसि वर्तते ॥ ८ ॥
स वव्रे राज्यमुग्रं मे देहि लोकत्रयस्य च ।
बलं सर्वातिगं शम्भो आरोग्यं सर्वपूज्यताम् ॥ ९ ॥
अन्ते मोक्षं च मे देहि तथेति शङ्करोऽब्रवीत् ।
मस्तकः सर्वपूज्यस्ते भविष्यति गजासुर ॥ १० ॥
अतो गजासुरस्यैव मस्तकं गणपेन तत् ।
धृतं वचो रक्षणार्थं शङ्करस्य बृहस्पतेः ॥ ११ ॥
अन्यच्छृणु प्रजानाथ इतिहासं पुरातनम् ।
कदाचिच्छङ्करेणैव पूजितो गणनायकः ॥ १२ ॥
ददौ शिवाय निर्माल्यं मूर्तिसंस्थश्च विघ्नपः ।
स्वप्ने तस्य स माहात्म्यं कथयामास विस्तरात् ॥ १३ ॥
श्रीगणेश उवाच ।
एकनिष्ठतया शम्भो भक्त्याऽहं पूजितस्त्वया ।
प्रसन्नोऽहं स्वमूर्तिस्थः शृणु मे वचनं हितम् ॥ १४ ॥
निर्माल्यं मे गृहाण त्वं सर्वसिद्धिप्रदं शिव ।
येनेदं मस्तके पुष्पं धृतं मान्येन भक्तितः ॥ १५ ॥
सर्वपूज्यः स वै भावी सर्वातिगयशोधरः ।
ततः सोऽन्तर्दधे ढुण्ढिः शिवो जागरितोऽभवत् ॥ १६ ॥
हस्ते पुष्पं समालोक्य विस्मितः शङ्करोऽभवत् ।
विचारं स चकारैव किमिदं देवभाषितम् ॥ १७ ॥
सर्वपूज्यो गणाधीशो नान्यो ब्रह्माण्डमण्डले ।
अतो मे भक्तिमाहात्म्यं परीक्षार्थं ददौ प्रभुः ॥ १८ ॥
ततः शिवेन निर्माल्यं न धृतं मस्तके स्वके ।
पूजायां स्थापितं दक्ष महाभक्तेन सर्वदम् ॥ १९ ॥
ततोऽत्रिसम्भवस्तत्र दुर्वासाः सहसाऽऽययौ ।
दर्शनार्थं महेशस्य शिवेन भृशमानितः ॥ २० ॥
शिवो विचारमकरोदयं योगी सयोगवित् ।
वर्णाश्रमविहीनश्च मतः साक्षाद्विनायकः ॥ २१ ॥
अतो निर्माल्ययोग्योयं ददौ तस्मै सदाशिवः ।
निर्माल्यं विघ्नराजस्य कथयित्वा यशो महत् ॥ २२ ॥
तं प्रणम्य महायोगी दुर्वासाः प्रययो प्रभुम् ।
यथेच्छं विचरन् मार्गे ददर्श देवनायकम् ॥ २३ ॥
विचारं मनसा योगी चकार स्वहितावहम् ।
सर्वपूज्यो गणेशाद्वै नान्यो भवति निश्चितम् ॥ २४ ॥
वयं भक्ता गणेशस्य भजामोऽनन्यचेतसः ।
अतो निर्माल्ययोग्योऽहं नैव शङ्करवत् कदा ॥ २५ ॥
अयं देवपतिः साक्षादिन्द्रः सत्त्वगुणान्वितः ।
योग्योऽयं नैव सन्देहस्तं ययौ मुनिसत्तमः ॥ २६ ॥
तं दृष्ट्वा मघवा नत्वा स्थित ऐरावते प्रभुः ।
आज्ञां कुरु महाभाग मुने दासोऽस्मि ते जगौ ॥ २७ ॥
ततः सोऽपि प्रसन्नात्मा ददौ तस्मै महामुनिः ।
निर्माल्यं गणनाथस्य माहात्म्यं प्रोच्य सादरः ॥ २८ ॥
इन्द्रो राज्यश्रिया युक्तो गृहीत्वा गजमस्तके ।
निर्माल्यमिन्द्रः संस्थाप्य ययौ मार्गमवस्थितः ॥ २९ ॥
निर्माल्यस्यापमानेन भ्रष्टोऽभूद्देवनायकः ।
गता सत्त्वमयी लक्ष्मीर्गजस्तेजोयुतोऽभवत् ॥ ३० ॥
[[११९]]
तिरस्कृत्य महेन्द्रं तं गजो हत्वा सुरान् परान् ।
ययौ वने प्रजानाथ स्वच्छन्दश्च बभूव सः ॥ ३१ ॥
ततोऽतितापसंयुक्त इन्द्रो हीनः श्रियाऽभवत् ।
दैत्यराजा बुभुजिरे सङ्गृह्य स्वर्गमागताः ॥ ३२ ॥
ततो बहौ गते काले गुरुणा बोधितः सुरः ।
देवैः सह गणेशानं तोषयामास नित्यदा ॥ ३३ ॥
गते वर्षसहस्रे तु गणेशस्तं ययौ तदा ।
पूजितः संस्तुतस्तेन प्रसन्नो वरदोऽभवत् ॥ ३४ ॥
श्रीगणेश उवाच ।
मा कुरुष्व महेन्द्र त्वं मम निर्माल्यदूषणम् ।
भक्त्यधीनः स्वभावेन प्रसन्नोऽहं कृतस्त्वया ॥ ३५ ॥
समुद्रतनया लक्ष्मीर्भविष्यति सुसिद्धिदा ।
तां प्राप्य पूर्ववद्देवाः श्रिया युक्ता भविष्यथ ॥ ३६ ॥
पूजाकृतफलं यच्च निर्माल्ये संस्थितं भवेत् ।
तस्य वन्दनमात्रेण सफलो जायते नरः ॥ ३७ ॥
भावेनाऽऽगृह्य निर्माल्यं मस्तके धारितं यदि ।
पुनस्तच्छुद्धभूमौ वै स्थापयेद्वा जले सुर ॥ ३८ ॥
गर्ते यत्र मनुष्यस्य पादस्पर्शो न वै भवेत् ।
तदा फलयुतः सोऽपि मद्रूपो जायते नरः ॥ ३९ ॥
सदा दुःखयुतं त्वाऽहं पुरा कर्तुं समुद्यतः ।
गुरुणा बोधितं मत्वाऽपराधं ते सहाम्यहम् ॥ ४० ॥
मामेव शरणं देवमागतं संविचिन्त्य वै ।
बहुकालेन देवेश क्रोधहीनोऽहमागतः ॥ ४१ ॥
एवमुक्त्वा गणाधीशो गतः स्वानन्दके पुरे ।
इन्द्रो राज्यश्रिया युक्तो बभूवे स प्रजापते ॥ ४२ ॥
सदा निर्माल्यभावज्ञो गणेशभजने रतः ।
निर्विघ्नेन महेन्द्रश्चाऽऽमरणं राज्यमाकरोत् ॥ ४३ ॥
अधुना शृणु वृत्तान्तमैरावतगजस्य च ।
इन्द्रं त्यक्त्वा वने गत्वा चचार स्वेच्छयेरितः ॥ ४४ ॥
हस्तिनीभिः सदा मोहयुक्तः परमदुर्जयः ।
बुभुजे विविधान् भोगान् मदेनैव समन्वितः ॥ ४५ ॥
ततः स्वल्पेन कालेन गणेशो जठरे गतः ।
पार्वत्या वरदानेन तस्य दैत्यः शिरोऽहरत् ॥ ४६ ॥
मस्तकेन विहीनश्च बभूव गणनायकः ।
तादृशोऽवातरत्तत्र विष्णुः शोकपरोऽभवत् ॥ ४७ ॥
जनार्दनश्चेष्टितं ज्ञात्वा ध्यानेन ययौ वने ।
ऐरावतशिरश्छित्वा योजयामास तत्क्षणात् ॥ ४८ ॥
तत्रोङ्कारं समावाह्य मन्त्रेण जीवसंयुतम् ।
चकार विघ्नराजं स देवास्ते हर्षिता बभुः ॥ ४९ ॥
दैत्येन तच्छिरस्त्यक्तं नर्मदायां प्रजापते ।
तत्र कुण्डं समुत्पन्नं गणेशमहिमान्वितम् ॥ ५० ॥
तत्र या दृषदो रक्ता नर्मदायां समास्थिताः ।
यत्र तत्र गणेशास्ते बभूवुः सर्वसिद्धिदाः ॥ ५१ ॥
दक्ष उवाच ।
कथं रेवाजले संस्था दृषदो मुनिसत्तम ।
गणेशास्तन्ममाऽऽचक्ष्व धन्या सा सरितां वरा ॥ ५२ ॥
मुद्गल उवाच ।
ब्रह्मकमण्डलूत्पन्नाश्चतस्रो नद्य एव च ।
गङ्गा च यमुना दक्ष नर्मदा तु सरस्वती ॥ ५३ ॥
गङ्गाया महिमानं तं सर्वत्रातुलमुत्तमम् ।
ज्ञात्वा सा नर्मदा देवी सन्तप्ता चेतसाऽभवत् ॥ ५४ ॥
ततस्तया तपस्तप्तं शङ्करस्य महात्मनः ।
शतवर्षे गते शम्भुः प्रसन्नो वरदोऽभवत् ॥ ५५ ॥
तया सम्पूजितः शम्भुः स्तुतो ज्ञात्वा मनेप्सितम् ।
तस्या जले शिवाः सर्वे दृषदश्च कृतास्तदा ॥ ५६ ॥
[[१२०]]
ततो गङ्गासमं तेजो बभूव सरितः प्रभोः ।
नर्मदायास्तथा सापि न सन्तोषयुताऽभवत् ॥ ५७ ॥
पुनस्तताप तीव्रं सा तपो विघ्नेश्वरे रता ।
गतेषु वै सहस्रेषु वर्षेषु वरदोऽभवत् ॥ ५८ ॥
स्तुतः सम्पूजितः सोऽपि हृदीप्सितवरं ददौ ।
रक्तवर्णा गणेशाना दृषदो जलगाः कृताः ॥ ५९ ॥
ततः साऽतीव माहात्म्ययुता जाता सरिद्वरा ।
दर्शनेन जनानां वै गङ्गास्नानफलप्रदा ॥ ६० ॥
यस्यास्तीरे जले संस्था दृषदः शङ्करात्मिकाः ।
रक्ता गणेशरूपास्तत् साम्यगा का भवेन्नदी ॥ ६१ ॥
महिमानं वर्णयितुं रेवायाः कः क्षमो भवेत् ।
गणेशशिवसंयुक्ता यत्र तत्र महानदी ॥ ६२ ॥
एतत्ते कथितं सर्वं विस्तराद्गणपस्य वै ।
चेष्टितं सर्वपापघ्नं सर्वसंशयनाशनम् ॥ ६३ ॥
आदौ दक्ष गणेशस्य दैत्यमस्तकधारणम् ।
ऐरावतस्य तद्वद्वै भक्तमाहात्म्यरक्षणात् ॥ ६४ ॥
शिरश्छेदादिकं तस्य चरित्रं तद् बृहस्पतेः ।
निर्माल्यस्य च रक्षार्थं माहात्म्यं गणपाश्रितम् ॥ ६५ ॥
भक्तवचः समाबद्धो गणेशः किं प्रजापते ।
न करोति महाभाग भक्ताधीनस्ततः स्मृतः ॥ ६६ ॥
येन स्वशिरसश्छेदः कृतो भक्तस्य कारणात् ।
मलजो गजवक्त्रश्च बभूवे भक्तिमोहितः ॥ ६७ ॥
एतत्ते कथितं सर्वं चेष्टितं परमाद्भुतम् ।
प्रकृतं शृणु दक्ष त्वं गजाननचरित्रकम् ॥ ६८ ॥
पार्वती प्रेमसंयुक्ता पूजयामास तं सुतम् ।
देवा हर्षयुताः सर्वे जग्मुः स्वं स्वं निवेशनम् ॥ ६९ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते गणेशभक्ताधीनत्ववर्णनं नाम सप्तचत्वारिंशोऽध्यायः ॥