४६ शक्तिमलमाहात्म्यवर्णनम्

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

विचार्य देवपैः सर्वैः प्रेषयामास शङ्करः ।
ब्रह्माणं ब्राह्मणैः सार्धं स्नेहार्थं सोऽपि तं ययौ ॥ १ ॥

तं दृष्ट्वा गृह्य पुरुषो मुसलं सोऽपि दारुणम् ।
आययौ तं निरीक्ष्यैव पपाल स पितामहः ॥ २ ॥

वयं सर्वे द्विजाः पुत्र शस्त्रहीनाः समागताः ।
शृणु वाक्यं विचारज्ञ पलन्तस्ते तमब्रुवन् ॥ ३ ॥

तथापि न बुबोधैव पुरुषस्तं विलोक्य सः ।
ब्रह्मा जगाम शम्भुं तं वृत्तान्तमवदत्ततः ॥ ४ ॥

ततो विष्णुयुतः शम्भुः क्रोधानलविलोचनः ।
सङ्ग्रामाय ययौ तत्र मुसलं सोऽपि चाददे ॥ ५ ॥

[[११६]]

आगत्यैव न्यहञ्छम्भुं हृदये यमसन्निभः ।
शूलं पपात तद्धस्ताच्छिवश्च व्याकुलोऽभवत् ॥ ६ ॥

ततस्तं गदया विष्णुर्योधयामास दारुणम् ।
ततस्त्रिशूलघातेन शिरश्चिच्छेद शङ्करः ॥ ७ ॥

ममार पुरुषस्तत्र श्रुत्वा सा पार्वती पुनः ।
कोपयुक्ता च कोटीः सा शक्तीस्ता नव निर्ममे ॥ ८ ॥

तयाऽऽज्ञप्ता महादेव्यः संहर्तुं सकलं जगत् ।
प्राप्ता आलोक्य देवास्ते भयभीता बभूविरे ॥ ९ ॥

शङ्करेण द्विजास्तत्र प्रेषिता नारदादयः ।
अन्तरिक्षचराः सर्वे प्रणेमुः पार्वतीं ततः ॥ १० ॥

रक्ष रक्ष जगत्सर्वं जगदम्ब त्वदुद्भवम् ।
तुष्टुवुस्तामथोवाच मुनीन् क्रोधयुता सती ॥ ११ ॥

पार्वत्युवाच ।
मम पुत्रः किमर्थं तैर्हतः सर्वैः सुरेश्वरैः ।
सजीवं संहरिष्यामि कुरुध्वं चेन्न संशयः ॥ १२ ॥

तथेति प्रतिपाद्यैव गतास्ते शङ्करं पुनः ।
शक्तयस्तम्भिताः सर्वाः शिवः सर्वैः समाययौ ॥ १३ ॥

युद्धे मृतस्य बालस्य मस्तकं त्वप्सरोगणाः ।
जगृहुस्तत्र तं दृष्ट्वा शिरोहीनं सुदुःखितः ॥ १४ ॥

शिवस्ततो गणान् प्राह यः पूर्वं दृश्यते त्वया ।
तमानयत हत्वा वै तस्य मस्तकमत्र यत् ॥ १५ ॥

ततो गजासुरः प्राप्तः सहसा नारदेरितः ।
हन्तुं देवगणान् सर्वान् महाबलपराक्रमः ॥ १६ ॥

ततश्च क्षोभिताः सर्वे पलायन्त दिशो दश ।
शूलघातेन शम्भुस्तं मारयामास तत्क्षणात् ॥ १७ ॥

तस्य मस्तकयोगेन पुरुषं ते दिवौकसः ।
योजयित्वा प्रजानाथ सजीवं चक्रिरे नरम् ॥ १८ ॥

सर्वे हतोद्यमा जातास्ततो ब्रह्मा समागतः ।
जीवयामास तं तत्र सजीवो न बभूव ह ॥ १९ ॥

ततो विष्णुः स्वयं तत्र जीवयामास विद्यया ।
सजीवो न बभूवाऽपि दुःखितोऽतिततोऽभवत् ॥ २० ॥

ततः शिवः स्वयं तत्र जीवयुक्तं चकार तम् ।
सजीवं न ददर्शैव दुःखितोऽतितरां तदा ॥ २१ ॥

ततो विघ्नेश्वरं सर्वे तुष्टुवुः कार्यसिद्धये ।
अथर्वशिरसा दक्ष शङ्कराद्याः सुरेश्वराः ॥ २२ ॥

प्रार्थयामासुरत्यन्तं निर्विघ्नं कुरु विघ्नप ।
अधुना विश्वमेवेदमकाले लयमेष्यति ॥ २३ ॥

गणेशस्मरणेन स्म बुद्धिःप्राप्ता दिवौकसाम् ।
वेदमन्त्रेण देवास्ते तारमावाहयन्ति च ॥ २४ ॥

ओङ्कारस्तत्र मन्त्रेणाऽऽकर्षितः सहसाऽऽगतः ।
शवं प्रविश्य सन्तस्थौ ततः सोऽभवदुत्थितः ॥ २५ ॥

ततो ज्ञानयुता देवा जाता विघ्नविहीनकाः ।
तं दृष्ट्वा गजवक्त्रं वै प्रणवं प्रणवाकृतिम् ॥ २६ ॥

तुष्टुवुर्देवदेवेशं नानास्तोत्रैः प्रजापते ।
पुपूजुस्तं च सार्वादौ पूज्यं चक्रुः स्वमूलकम् ॥ २७ ॥

दक्ष उवाच ।

साक्षादोङ्काररूपश्च गणेशोऽयं न संशयः ।
स कथं मलजः शक्तेर्दैत्यमस्तकधारकः ॥ २८ ॥

एनं मे संशयं ब्रह्मञ्छेत्तुमर्हसि साम्प्रतम् ।
श्रुत्वा कथां महारम्यां ज्ञानयुक्तो भवाम्यहम् ॥ २९ ॥

मुद्गल उवाच ।

सती दक्षगृहे तात दग्धा सा शैलजाऽभवत् ।
हिमाचले स्वयं शम्भुस्तताप तप उत्तमम् ॥ ३० ॥

तत्र सा पार्वती देवी शुश्रूषायां प्रजापते ।
निरता तां निरीक्ष्यैव शम्भुः सस्मार पूर्वगाम् ॥ ३१ ॥

[[११७]]

ममाज्ञावशगा देवी नेयं दक्षगृहे गता ।
अतोऽहं न वृणोम्येतां पुनः शैलसुतां कदा ॥ ३२ ॥

तारकासुरभीतैर्देवैः कामः प्रार्थितस्ततः ।
स ययौ शङ्करस्थानं मोहितुं मदसंयुतः ॥ ३३ ॥

तं प्रज्वाल्य महेशानस्त्यक्त्वा हिमगिरिं ययौ ।
अन्यत्र सा ततो देवी खेदयुक्ता बभूव ह ॥ ३४ ॥

मनसि ज्ञानमार्गेण ज्ञात्वा शम्भुविचेष्टितम् ।
तपसा संयुता भूत्वा वनगा शिवमार्चयत् ॥ ३५ ॥

गते वर्षशते शम्भुः प्रसन्नो न बभूव ह ।
ततः सा विघ्नराजं च सस्मार ध्यानसंयुता ॥ ३६ ॥

वर्षेणैकेन हेरम्बः प्रसन्नश्च बभूव ह ।
शिवबुद्धिप्रभेदं स चकार बुद्धिधारकः ॥ ३७ ॥

ततो दयायुतः शम्भुस्तां ययौ द्विजरूपधृक् ।
शङ्करं निन्दयामास नानावाक्यैः समीपगः ॥ ३८ ॥

तच्छ्रुत्वा कम्पिता देवी बोधयामास शाम्भवैः ।
चेष्टितैस्तं ततः सोऽपि पुनर्निन्दां चकार ह ॥ ३९ ॥

स्थानं त्यक्त्वा ततो देवी तं जगाम द्विजं पुनः ।
तिरस्कृत्य शिवस्तां स्वं दर्शयामास रूपकम् ॥ ४० ॥

ततः सा तं प्रणम्यैव तुष्टाव विविधैः स्तवैः ।
गणेशं मनसा ध्यात्वा प्रार्थ्य तं सिद्धिदो भव ॥ ४१ ॥

ततः प्रसन्नभावेन शङ्करः प्रददौ वरम् ।
विस्मितस्तां निरीक्ष्यैव तपसा कर्शितां प्रभुः ॥ ४२ ॥

शिव उवाच ।

वृणोमि त्वां महादेवि वश्योऽहं ते सदाऽनघे ।
तपसा भक्तिभावेन न वियोगो भविष्यति ॥ ४३ ॥

धूलिधूसरितं तेऽङ्गं शिरोभूच्च जटान्वितम् ।
अतो मलस्तवाङ्गस्य सर्वपूज्यो भविष्यति ॥ ४४ ॥

इत्युक्त्वा शङ्करस्तत्रान्तर्धानं प्रचकार सः ।
पार्वती प्रेमसंयुक्ता स्वगृहं वै जगाम ह ॥ ४५ ॥

स्वभक्तस्य शिवस्यैव रक्षणार्थं वचो महत् ।
गौरीमलाङ्गसम्भूतो बभूव ह गजाननः ॥ ४६ ॥

गणेशान्न परः कोऽपि सर्वपूज्यो महामते ।
गणेशवरदानेन सत्यवाक्याः शिवादयः ॥ ४७ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते शक्तिमलमाहात्म्यवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॥