४५ शिवविचारवर्णनप्रसङ्गः

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

एवं निश्चितसङ्कल्पः सिन्दूरो गिरिजां ततः ।
गृह्योड्डीय ययौ सद्यो मूर्च्छितां भयविह्वलाम् ॥ १ ॥

तस्य श्वसनवेगेन पतिता नन्दिमुख्यकाः ।
गणाः पुनः समुत्थाय हाहाकारं प्रचक्रिरे ॥ २ ॥

हस्तगा पार्वती तत्र सावधाना बभूव ह ।
सस्मार गणपं देवं दैत्यपाशनियन्त्रिता ॥ ३ ॥

गौर्युवाच ।
गजानन ज्ञानविहारकारिन् न मां च जानासि परावमर्शाम् ।
गणेश रक्षस्व न चेच्छरीरं त्यजामि सद्यस्त्वयि भक्तियुक्ता ॥ ४ ॥

विघ्नस्य शत्रोऽसुरसङ्घहन्तर्विघ्नेश हेरम्ब महोदरप्रिय ।
मां रक्ष दैत्यात्त्वयि भक्तियुक्तां लम्बोदर प्रेमविवर्धनाच्युत ॥ ५ ॥

किं सिद्धिबुद्धिप्रसरेण मोहयुक्तोऽसि किं वा निशि निद्रितोऽसि ।
किं लक्षलाभार्थविचारयुक्तः किं मां च विस्मृत्य सुसंस्थितोऽसि ॥ ६ ॥

किं भक्तसङ्गेन च देवदेव नानोपचारैश्च सुयन्त्रितोऽसि ।
किं मोदकाद्यैर्गणपाऽऽवृतोऽसि नानाविहारेषु च वक्रतुण्ड ॥ ७ ॥

स्वानन्दभोगेषु परिप्लुतोऽसि दासीं च विस्मृत्य महानुभाव ।
अनन्तलीलासु सलालसोऽसि किं भक्तरक्षार्थसुसङ्कटस्थ ॥ ८ ॥

अहो गणेशामृतपानदक्षामरैस्तथा वाऽसुरपैः स्मृतोऽसि ।
तदर्थनानाविधिसंयुतोऽसि विसृज्य दासीं त्वमनन्यभावाम् ॥ ९ ॥

रक्षस्व मां दीनतमां परेश सर्वत्र चित्तेषु च संस्थितस्त्वम् ।
प्रभो विलम्बेन विनायकोऽसि ब्रह्मेश किं देव नमो नमस्ते ॥ १० ॥

भक्ताभिमानीति च नाम मुख्यं वेदे बभूवात्र न किं महात्मन् ।
आगत्य हत्वा दितिजं सुरेश मां रक्ष दासीं हृदि पादनिष्ठाम् ॥ ११ ॥

अहो न दूरं बत किञ्चिदेव कथं न बुद्धीश समागतोऽसि ।
सञ्चिन्त्य देहं प्रजहामि ते हि यशः करिष्ये विपरीतमेव ॥ १२ ॥

रक्ष रक्ष दयासिन्धोऽपराधान् मे क्षमस्व च ।
क्षणे क्षणे वयं दास्यो रक्षितव्या विशेषतः ॥ १३ ॥

स्तुवन्त्यामेव पार्वत्यां शङ्करो बोधसंयुतः ।
बभूव गणपानां वै श्रुत्वा हाहारवं विधे ॥ १४ ॥

गणेशं मनसा स्मृत्वा वृषारूढः समाययौ ।
क्षणेन दैत्यराजं तं दृष्ट्वा डमरुणा त्वहन् ॥ १५ ॥

ततः सोऽपि शिवं वीक्ष्याऽऽलिङ्गितुं धावितोऽभवत् ।
शिवस्य शूलकादीनि शस्त्राण्याकुण्ठितानि वै ॥ १६ ॥

[[११४]]

तद् दृष्ट्वा परमाश्चर्यं भयभीतो महेश्वरः ।
सस्मार गणपं सोऽपि निर्विघ्नार्थं प्रजापते ॥ १७ ॥

पार्वत्याः स्तवनं श्रुत्वा स गजानन आययौ ।
ब्राह्मणस्य स्वरूपेण तयोर्मध्ये प्रयुद्ध्यतोः ॥ १८ ॥

गणेशेन कृतं तत्र कौतुकं परमाद्भुतम् ।
पपात गुप्तरूपश्च परशुर्दैत्यवक्षसि ॥ १९ ॥

तेनाहतं महादैत्यं व्याकुलं वीक्ष्य विघ्नपः ।
ततस्तं ब्राह्मणः प्राह शृणु दैत्य वचो हितम् ॥ २० ॥

जगज्जनिमिमां शक्तिं मुञ्च नो चेच्छिवः स्वयम् ।
गुप्तरूपेण सद्यस्त्वां मारयिष्यति निश्चितम् ॥ २१ ॥

अहं शम्भुं करिष्यामि त्वदाज्ञावशवर्तिनम् ।
भार्यां तस्य परित्यज्य कुरु राज्यं त्रिलोकगः ॥ २२ ॥

तथेति सिन्दुरेणैव कृतं सोऽपि शिवं वचः ।
जगाद हास्यवदनो दैत्याधीनो भव प्रभो ॥ २३ ॥

ब्रह्मलब्धवरं दैत्यं न जेतुं तं क्षमो भवान् ।
महेशशक्तिं सङ्गृह्य कालस्य क्रमणं कुरु ॥ २४ ॥

तथेति शङ्करेणोक्तं ददौ शक्तिं शिवाय सः ।
दैत्यः कैलासगो भूत्वा ननन्द विजयी ततः ॥ २५ ॥

ततः कैलासमेवं स त्यक्त्वा भूलोकगोऽभवत् ।
दैत्यस्त्रिभुवनं जित्वा जगदीशो बभूव ह ॥ २६ ॥

अन्तर्धानं चकाराऽसौ गणेशो द्विजरूपधृक् ।
तत् दृष्ट्वा पार्वती तत्र शोकयुक्ता बभूव ह ॥ २७ ॥

अहो ब्राह्मणरूपेणाऽऽगतोऽयं गणनायकः ।
मोचयित्वा स मां शम्भो त्वां संरक्ष्य ययौ पुनः ॥ २८ ॥

ततस्तौ पार्वतीशम्भू परलीवनगौ प्रभू ।
बभूवतुश्च विघ्नेशं तपसा हृदि चिन्तकौ ॥ २९ ॥

तताप तप उग्रं स सस्त्रीकः शङ्करस्ततः ।
गते वर्षशते पूर्णे तं गजानन आययौ ॥ ३० ॥

गणेश उवाच ।

वरं वृणु महादेव यत्ते चित्ते प्रवर्तते ।
दास्यामि तपसा तुष्टो वाञ्छितं प्राह शङ्करम् ॥ ३१ ॥

ततस्तं शङ्करो नत्वा स्तुत्वा नानाविधैः स्तवैः ।
पार्वत्या पूज्य विघ्नेशं प्रणम्य प्रत्युवाच ह ॥ ३२ ॥

शिव उवाच ।

वरदोऽसि गणाधीश तदा मे त्वं सुतो भव ।
यावज्जीवनपर्यन्तं तिष्ठ नाथ नमोऽस्तु ते ॥ ३३ ॥

त्वया नानाऽवताराश्च धृता मदीयवेश्मनि ।
ते सर्वे स्वल्पकांशस्था बभूवुर्गणनायक ॥ ३४ ॥

तादृशं मा कुरु स्वामिन् वस नित्यं च मे गृहे ।
तत्राऽहं त्वां भजिष्यामि पुत्रभावेन विघ्नप ॥ ३५ ॥

संसारे पुत्रभावेन मूर्तौ त्वां कुलदैवतम् ।
हृदये योगयुक्तोऽहं भजिष्यामि गजानन ॥ ३६ ॥

तथेति गणनाथस्तं जगादान्तर्दधे पुनः ।
कैलासमागतः शम्भुः शोकयुक्तो विशेषतः ॥ ३७ ॥

ततः किञ्चिद्गते काले पार्वती स्नानमाचरत् ।
नग्ना तत्र महेशानः सहसा समुपागतः ॥ ३८ ॥

लज्जिता तं निरीक्ष्यैव जगदम्बा स्वकेशतः ।
देहं सञ्छादयामास शङ्करो गृहगोऽभवत् ॥ ३९ ॥

ततः कदाचित्सा देवी सखीभ्यां संस्थिताऽभवत् ।
उवाच तां सखी तत्र जया च विजया परा ॥ ४० ॥

जयाविजये ऊचतुः ।
गणा नन्दिमुखाः सर्वेऽस्मदीया नात्र संशयः ।
शिवं यदि निरुद्ध्यैव तिष्ठामश्चेच्छिवात्मकाः ॥ ४१ ॥

[[११५]]

अतः कं च महादेवि स्वकीयं वशगं गणम् ।
कुरु त्वं सा ततः शक्तिस्तथेति प्रत्युवाच ते ॥ ४२ ॥

स्वाङ्गान् मलं समाकृष्य कृत्वा तं पुरुषाकृतिम् ।
पुनः सञ्जीवयामास पार्वती तं जगाद ह ॥ ४३ ॥

द्वारे तिष्ठ महाबाहो मदाज्ञावशगः सदा ।
मदाज्ञया विना पुत्र मा प्रवेश्यस्त्वया नरः ॥ ४४ ॥

अहं स्नानार्थमत्रैव संस्थिता कालपर्यये ।
पतिर्मे तत्र रे वत्स त्वागतोऽपि भवेत् स्वयम् ॥ ४५ ॥

केनापि कथितं तत्राऽतो मा कुरु च तादृशम् ।
स्वामिनं शङ्करं पुत्र निषेधस्व मदाज्ञया ॥ ४६ ॥

तथेति तां प्रणम्याऽऽदौ द्वारसंस्थो बभूव सः ।
पुरुषः सा सखीभ्यां च मुदिता संस्थिताऽभवत् ॥ ४७ ॥

एतस्मिन्नन्तरे तत्र गणयुक्तः शिवो ययौ ।
तं न्यषेधत् स्ववेगेन बोधितोऽपि प्रजापते ॥ ४८ ॥

ततोऽतिकोपसंयुक्तः शङ्करः प्रबभूव ह ।
तज्ज्ञात्वा सा सखीभ्यां च मुदिता संस्थिताऽभवत् ॥ ४९ ॥

ततोऽतिक्रोधसंयुक्तो गणान्नन्दिमुखान् शिवः ।
आज्ञापयच्च युद्धाय हन्तव्योऽयं न संशयः ॥ ५० ॥

ततस्ते शस्त्रसङ्घातैर्जघ्नुस्तं क्रोधसंयुताः ।
पार्वत्या तेज उग्रं यन्निक्षिप्तं पुरुषे तदा ॥ ५१ ॥

तेजसा शस्त्रसङ्घाता मोघा जाता विशेषतः ।
मुसलेन जघानाऽसौ गणान् सर्वान् महाबलः ॥ ५२ ॥

ततः पलायनं चक्रुर्गणाः सर्वे भयान्विताः ।
ततः स्कन्दं शिवः क्रुद्धः प्रेषयामास दारुणम् ॥ ५३ ॥

कुण्ठितास्त्रो भयोद्विग्नः सेनानीस्ताडितो भृशम् ।
पपाल च ततः शम्भुः सस्माराऽमरमुख्यकान् ॥ ५४ ॥

ब्रह्मा विष्णुश्च देवेन्द्रो यमाद्याः सर्व आगताः ।
प्रणिपत्य महेशानं संस्थिताश्चाऽभवन् पुरः ॥ ५५ ॥

तान् शिवः कथयामास वृत्तान्तं ते ततो ययुः ।
इन्द्रादयः सगन्धर्वा युयुधुः पुरुषेण च ॥ ५६ ॥

पलायनं तेऽपि चक्रुः कुण्ठितास्त्रा भयातुराः ।
ताडिता मुसलेनैव शङ्करः क्षोभितोऽभवत् ॥ ५७ ॥

ततस्तत्र विचारं ते चक्रुः सर्वे सुरेन्द्रकाः ।
विष्णुमुख्याः शिवेनैव मुनिभिश्च प्रजापते ॥ ५८ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते शिवविचारवर्णनप्रसङ्गो नाम पञ्चचत्वारिंशोऽध्यायः ॥