४४ सिन्दूरशिवसमागमः

॥ श्रीगणेशाय नमः ॥

दक्ष उवाच ।

धन्योऽहं मुद्गल स्वामिंस्त्वत्सङ्गान्नात्र संशयः ।
लोभशान्तिकरं चित्रं श्रुतं भक्त्या चरित्रकम् ॥ १ ॥

न तृप्तोऽहं गजास्यस्य सुधापान इव प्रभो ।
वद क्षेत्रस्य माहात्म्यमधुना तस्य सर्वदम् ॥ २ ॥

गजाननस्य भक्त्यर्थमवतारान् धृतान् वद ।
सङ्क्षेपेण महाभाग सर्वज्ञोऽसि च ते नमः ॥ ३ ॥

सूत उवाच ।

दक्षस्य वचनं श्रुत्वा मुद्गलो हर्षसंयुतः ।
जगाद तं महाभागं महाभागो दयान्वितः ॥ ४ ॥

मुद्गल उवाच ।

अवतारा अनन्ताश्च गजाननस्य मानद ।
भक्तानां कार्यसिद्ध्यर्थं कथनं नैव शक्यते ॥ ५ ॥

तथापि शृणु दक्ष त्वमवतारचरित्रकम् ।
गजाननस्य कथयामि समासेन सर्वदम् ॥ ६ ॥

पार्वत्या शङ्करेणैवाऽऽराधितो गणनायकः ।
दिव्यवर्षसहस्रेण प्रसन्नो वरदोऽभवत् ॥ ७ ॥

ताभ्यां सम्पूजितो देवः स्तुतः संयाचितोऽभवत् ।
त्वं पुत्रो भव नौ स्वामिन् संसारोत्तारणाय वै ॥ ८ ॥

तथेति प्रतिपाद्याऽसौ गणेशोऽन्तर्दधे स्वयम् ।
पुत्रः सिन्धुवधायाभून् मयूरेश इति स्मृतः ॥ ९ ॥

हत्वा सिन्धुं महावीर्यं गतः स्वानन्दके पुरे ।
एवं नानाऽवतारान् स दधार शिवयोर्गृहे ॥ १० ॥

अष्टकोट्यवताराश्च गणेशस्य प्रकीर्तिताः ।
शिवपुत्राश्च ते ख्याताः कार्यार्थं त्वंशभावतः ॥ ११ ॥

केचिच्छिवात् सुमुद्भूताः केचिच्छक्तेर्महात्मनः ।
उभयोर्योगतः केचित् कलांशा अभवन् पराः ॥ १२ ॥

यादृशं सङ्कटं प्राप्तं तदर्थं संस्मृतो विभुः ।
तावत् कलांशयोगेन पुत्रोऽभूत् सुखदायकः ॥ १३ ॥

कृत्वा कार्यस्य संसिद्धिं पुनः स्वानन्दगोऽभवत् ।
तद्वियोगेन सन्तप्तौ शिवौ किल बभूवतुः ॥ १४ ॥

अन्ये नानाऽवताराश्च कश्यपादिगृहेऽंशतः ।
धृता गजाननेनैव वक्तुं नैव प्रशक्यते ॥ १५ ॥

इतिहासं प्रवक्ष्यामि सर्वसिद्धिप्रदायकम् ।
गजाननावतारेण युक्तं शृणु प्रजापते ॥ १६ ॥

एकदा निद्रितं शम्भुर्ब्रह्माणं प्रययौ प्रभुः ।
किञ्चित् कार्यार्थमेवं तमुत्थाप्य स्वगृहेऽगमत् ॥ १७ ॥

स उत्थितो महाजृम्भां चकार क्रोधसंयुतः ।
तस्माज्जातः पुमानेको रक्तवर्णः सुशोभनः ॥ १८ ॥

सुवासबहुलेनैव युक्तः काम इवापरः ।
तं दृष्ट्वा विस्मितो ब्रह्मा जगाद स महाबलम् ॥ १९ ॥

ब्रह्मोवाच ।
कोऽसि त्वं पुरुषश्रेष्ठ किमर्थं ह्यागतो वद ।
एवं पृष्टः स तं देवं जगाद मेघनिःस्वनः ॥ २० ॥

पुमानुवाच ।
जृम्भायास्ते समुत्पन्नः पुत्रोऽहं देवनायक ।
स्थानं नामादिकं देहि भक्षणं विविधं पितः ॥ २१ ॥

ततोऽतिहर्षितो ब्रह्मा पुत्रं दृष्ट्वा महाद्भुतम् ।
ददौ तस्मै विशेषेण वरांस्ताञ् शृणु मानद ॥ २२ ॥

सुवासबहुलं रक्तं वपुस्ते तेन सिन्दुर ।
नाम नानाविधान् भोगान् भुङ्क्ष्व सर्वत्रगः स्वयम् ॥ २३ ॥

न बलेन समस्ते वै भविष्यति चराचरे ।
ब्रह्माण्डजयसंयुक्तो भव पुत्र ममाज्ञया ॥ २४ ॥

यद्यदिच्छसि तत्तत्ते सफलं प्रभविष्यति ।
क्रोधादालिङ्गसे यं त्वं भस्मसात्तं करिष्यसि ॥ २५ ॥

एवं नानावरान् दत्त्वा संस्थितं प्रपितामहम् ।
तं प्रणम्य स सिन्दूरो जगामास्तुत्य भूतले ॥ २६ ॥

शौनक उवाच ।

तपोहीनाय दाताऽसौ ददौ सन्दुर्लभान् वरान् ।
किं कारणं वद प्राज्ञ संशयो मे महान् हृदि ॥ २७ ॥

सूत उवाच ।

इच्छासङ्कल्पसिद्ध्यर्थं तपस्तपति यो नरः ।
विपुले सोऽपि तपसि मृतो यदि भवेन् मुने ॥ २८ ॥

अन्यस्मिन् जन्मनि प्राज्ञः फलयुक्तः प्रजायते ।
स्वल्पश्रमेण देवोऽपि वरं ददाति निश्चितम् ॥ २९ ॥

एतत्ते कथितं सर्वं संशयच्छेदनं वचः ।
अधुना शृणु संवादं प्रकृतं यं पुरा भवम् ॥ ३० ॥

विचारं मार्गमध्ये स गत्वा सिन्दूर आकरोत् ।
तपोहीनायाऽपि देवो मे ददाति वरं कथम् ॥ ३१ ॥

अतोऽहं वञ्चितो नूनं विधिना नात्र संशयः ।
लिङ्गयित्वा मृतं कुर्वे तं सत्यत्वदिदृक्षया ॥ ३२ ॥

निःसंशयं भवेदेवं विचार्य सिन्दुरासुरः ।
आययौ ब्रह्मणः सोऽपि समीपे क्रोधसंयुतः ॥ ३३ ॥

गर्जयित्वा विधातारमालिङ्गितुं प्रचक्रमे ।
तद् दृष्ट्वा परमाश्चर्यं ब्रह्मोवाच सुदारुणम् ॥ ३४ ॥

ब्रह्मोवाच ।
मद्वरस्य प्रभावेन मां हन्तुं समुपागतः ।
अतो दैत्योऽसि दुष्ट त्वमभाग्यान्नात्र संशयः ॥ ३५ ॥

पुत्रस्नेहेन रे दुष्ट वरा दत्ताः सुदुर्लभाः ।
अतो गजाननस्त्वां वै हनिष्यति कुलाधम ॥ ३६ ॥

एवमुक्त्वा पपालाऽसौ विकुण्ठे शरणं ययौ ।
नारायणं च सिन्दूरस्तमनु प्रययौ खलः ॥ ३७ ॥

नारायणाय वृत्तान्तं कथयामास विस्तरात् ।
सोऽपि श्रुत्वा विनिःश्वस्याऽभवत् सम्पूज्य संस्थितः ॥ ३८ ॥

एतस्मिन्नन्तरे तत्र सिन्दूरश्च समागमत् ।
जगाद विष्णुमव्यक्तं वचः क्रोधसमन्वितः ॥ ३९ ॥

सिन्दूर उवाच ।

विष्णो रक्ष विधातारं मां शप्त्वा प्रसमागतम् ।
हनिष्यामि त्वया सार्धं पश्य मे पौरुषं परम् ॥ ४० ॥

विष्णुरुवाच ।
अहं सत्त्वगुणश्चायं वेदाध्ययनतत्परः ।
आवां हत्वा महादैत्य न यशस्ते भविष्यति ॥ ४१ ॥

त्वदधीनौ च सिन्दूर आवां जानीहि मानद ।
शङ्करः सर्वसंहर्ता स यशस्ते हरिष्यति ॥ ४२ ॥

विष्णोर्वचनमाकर्ण्य त्यक्त्वा विष्णुं चतुर्मुखम् ।
जगाम शङ्करं सद्यः कैलासे युद्धलालसः ॥ ४३ ॥

ध्यानस्थं शङ्करं दृष्ट्वा विचारमकरोद्धृदि ।
अमुं नग्नं तपोयुक्तं किमर्थं हन्मि मूर्खवत् ॥ ४४ ॥

[[११३]]

वामाङ्गे संस्थितां नारीं रूपेणाप्रतिमां पराम् ।
तां गृहीत्वा गमिष्यामि स्वेच्छया क्रीडानोत्सुकः ॥ ४५ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते सिन्दूरशिवसमागमो नामचतुश्चत्वारिंशोऽध्यायः ॥