४३ देवमुनिकृतस्तुतिवर्णनम्

॥ श्रीगणेशाय नमः ॥

[[१०९]]

मुद्गल उवाच ।

शान्तिरूपधरं लोभं दृष्ट्वा देवर्षयोऽमलाः ।
गजाननं निजं नाथं हर्षिता नेमुरादरात् ॥ १ ॥

गजाननं पूजयित्वा विधानेन सुरर्षयः ।
पुनः प्रणम्य तं सर्वे तुष्टुवुः करसम्पुटैः ॥ २ ॥

विदेहरूपं भवबन्धहारं सदा स्वनिष्ठं स्वमुखप्रदं तम् ।
अमेयसाङ्ख्येन च लभ्यमीशं गजाननं भक्तियुता भजामः ॥ ३ ॥

मुनीन्द्रवन्द्यं विधिबोधहीनं सुबुद्धिदं बुद्धिधरं प्रशान्तम् ।
विकालहीनं सकलान्तगं वै गजाननं भक्तियुता भजामः ॥ ४ ॥

अमेयरूपं हृदि संस्थितं तं ब्रह्माहमेकं भ्रमनाशकारम् ।
अनादिमध्यान्तमपाररूपं गजाननं भक्तियुता भजामः ॥ ५ ॥

जगत्प्रमाणं जगदीशमेवमगम्यमाद्यं जगदादिहीनम् ।
अनात्मनां मोहप्रदं पुराणं गजाननं भक्तियुता भजामः ॥ ६ ॥

न भूर्न रूपं न जलं प्रकाशं न तेजसिस्थं न समीरणस्थम् ।
न खे गतं पञ्चविभूतिहीनं गजाननं भक्तियुता भजामः ॥ ७ ॥

न विश्वगं तैजसगं न प्राज्ञं समष्टिव्यष्टिस्थमनन्तगं न ।
गुणैर्विहीनं परमार्थभूतं गजाननं भक्तियुता भजामः ॥ ८ ॥

गुणेशगं नैव च बिन्दुसंस्थं न देहिनं बोधमयं न ढुण्ढिम् ।
संयोगहीनाः प्रवदन्ति तत्स्थं गजाननं भक्तियुता भजामः ॥ ९ ॥

अनागतं नैव गतं गणेशं कथं तदाकारमयं वदामः ।
तथापि सर्वं प्रभुदेहसंस्थं गजाननं भक्तियुता भजामः ॥ १० ॥

यदि त्वया नाथ कृतं न किञ्चित्तदा कथं सर्वमिदं विभाति ।
अतो महात्मानमचिन्त्यमेव गजाननं भक्तियुता भजामः ॥ ११ ॥

सुसिद्धिदं भक्तजनस्य देवं स कामिकानामिह सौख्यदं तम् ।
अकामिकानां भवबन्धहारं गजाननं भक्तियुता भजामः ॥ १२ ॥

सुरेन्द्रसेव्यं ह्यसुरैः सुसेव्यं समानभावेन विराजयन्तम् ।
अनन्तवाहं मुषकध्वजं तं गजाननं भक्तियुता भजामः ॥ १३ ॥

सदा सुखानन्दमये जले च समुद्रजे चेक्षुरसे निवासम् ।
द्वन्द्वस्य पानेन च नाशरूपे गजाननं भक्तियुता भजामः ॥ १४ ॥

चतुःपदार्था विविधप्रकाशास्त एव हस्ताः स चतुर्भुजं तम् ।
अनाथनाथं च महोदरं वै गजाननं भक्तियुता भजामः ॥ १५ ॥

महाखुमारूढमकालकालं विदेहयोगेन च लभ्यमानम् ।
अमायिनं मायिकमोहदं तं गजाननं भक्तियुता भजामः ॥ १६ ॥

रविस्वरूपं रविभासहीनं हरिस्वरूपं हरिबोधहीनम् ।
शिवस्वरूपं शिवभासनाशं गजाननं भक्तियुता भजामः ॥ १७ ॥

महेश्वरीस्थं च सुशक्तिहीनं प्रभुं परेशं परवन्द्यमेवम् ।
अचालकं चालकबीजभूतं गजाननं भक्तियुता भजामः ॥ १८ ॥

शिवादिदेवैश्च खगैः सुवन्द्यं नरैर्लतावृक्षपशुप्रभूभिः ।
चराचरैर्लोकविहीनमेवं गजाननं भक्तियुता भजामः ॥ १९ ॥

मनोवचोहीनतया सुसंस्थं निवृत्तिमात्रं ह्यजमव्ययं तम् ।
तथापि देवं पुर आस्थितं तं गजाननं भक्तियुता भजामः ॥ २० ॥

वयं सुधन्या गणपस्तवेन तथैव नत्यार्चनतस्तवैव ।
गणेशरूपाश्च कृतास्त्वया तं गजाननं भक्तियुता भजामः ॥ २१ ॥

[[११०]]

गजाख्यबीजं प्रवदन्ति वेदास्तदेव चिह्नेन च योगिनस्त्वाम् ।
गच्छन्ति तेनैव गजाननस्त्वं गजाननं भक्तियुता भजामः ॥ २२ ॥

पुराणवेदाः शिवविष्णुकाद्याऽमराः शुकाद्या गणपस्तवे वै ।
विकुण्ठिताः किं च वयं स्तवाम गजाननं भक्तियुता भजामः ॥ २३ ॥

मुद्गल उवाच ।

एवं स्तुत्वा गणेशानं नेमुः सर्वे पुनः पुनः ।
तानुत्थाप्य वचो रम्यं गजानन उवाच ह ॥ २४ ॥

गजानन उवाच ।

वरं ब्रूत महाभागा देवाः सर्षिगणाः परम् ।
स्तोत्रेण प्रीतिसंयुक्तः परं दास्यामि वाञ्छितम् ॥ २५ ॥

गजाननवचः श्रुत्वा हर्षयुक्ताः सुरर्षयः ।
जगुस्तं भक्तिभावेन साश्रुनेत्राः प्रजापते ॥ २६ ॥

देवर्षय ऊचुः ।
गजानन यदि स्वामिन् प्रसन्नो वरदोऽसि भोः ।
तदा भक्तिं दृढां देहि लोभहीनां त्वदीयकाम् ॥ २७ ॥

लोभासुरस्य देवेश कृता शान्तिः सुखप्रदा ।
तदा जगदिदं सर्वं वरयुक्तं कृतं त्वया ॥ २८ ॥

अधुना देवदेवेश कर्मयुक्ता द्विजादयः ।
भविष्यन्ति धरायां वै वयं स्वस्थानगास्तथा ॥ २९ ॥

स्वस्वधर्मरताः सर्वे गजानन कृतास्त्वया ।
अतःपरं वरं याचामहे ढुण्ढे कमप्यहो ॥ ३० ॥

यदा ते स्मरणं नाथ करिष्यामो वयं प्रभो ।
तदा सङ्कटहीनान् वै कुरु त्वं नो गजानन ॥ ३१ ॥

एवमुक्त्वा प्रणेमुस्तं गजाननमनामयम् ।
स तानुवाच प्रीतात्मा भक्त्यधीनस्वभावतः ॥ ३२ ॥

गजानन उवाच ।

यद्यच्च प्रार्थितं देवा मुनयः सर्वमञ्जसा ।
भविष्यति न सन्देहो मत्स्मृत्या सर्वदा हि वः ॥ ३३ ॥

भवत्कृतमदीयं वै स्तोत्रं सर्वत्र सिद्धिदम् ।
भविष्यति विशेषेण मम भक्तिप्रदायकम् ॥ ३४ ॥

पुत्रपौत्रप्रदं पूर्णं धनधान्यविवर्धनम् ।
सर्वसम्पत्करं देवाः पठनाच्छ्रवणान्नृणाम् ॥ ३५ ॥

मारणोच्चाटनादीनि नश्यन्ति स्तोत्रपाठतः ।
परकृत्यं च विप्रेन्द्रा अशुभं नैव बाधते ॥ ३६ ॥

सङ्ग्रामे जयदं चैव यात्राकाले फलप्रदम् ।
शत्रूच्चाटनकाद्येषु प्रशस्तं तद्भविष्यति ॥ ३७ ॥

कारागृहगतस्यैव बन्धनाशकरं भवेत् ।
असाध्यं साधयेत् सर्वमनेनैव सुरर्षयः ॥ ३८ ॥

एकविंशतिवारं चैकविंशति दिनावधिम् ।
प्रयोगं यः करोत्येव स भवेत् सर्वसिद्धिभाक् ॥ ३९ ॥

धर्मार्थकाममोक्षाणां ब्रह्मभूयस्य दायकम् ।
भविष्यति न सन्देहः स्तोत्रं मद्भक्तिवर्धनम् ॥ ४० ॥

एवमुक्त्वा गणाधीशस्तत्रैवान्तरधीयत ।
देवाः सर्षिगणाः सर्वेऽभवन् खिन्ना इव प्रभो ॥ ४१ ॥

गजाननस्य मूर्तिस्तैः स्थापिता सिद्धिदा ततः ।
नैर्ऋते कोणभागे स्म दर्शनेन सुखप्रदा ॥ ४२ ॥

तत्रैव संस्थिता देवा मुनयो भक्तिसंयुताः ।
अंशेन स्वाधिकारेषु स्वाश्रमेषु गता बभुः ॥ ४३ ॥

ततः स्वधर्मसंयुक्ता बभूवुर्मानवा भुवि ।
यथायोग्यं जगत् सर्वं बभूवे हर्षितं विधे ॥ ४४ ॥

[[१११]]

एतद्गजाननस्यैव चरितं पापनाशनम् ।
भुक्तिमुक्तिप्रदं दक्ष कथितं ब्रह्मदं परम् ॥ ४५ ॥

यः पठेत् पाठयेद्वापि शृणुते श्रद्धयान्वितः ।
स ईप्सितफलं भुक्त्वा ब्रह्मभूतो भविष्यति ॥ ४६ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते देवमुनिकृतस्तुतिवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥