४२ लोभासुरशान्तिवर्णनम्

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

शुक्रस्य वचनं श्रुत्वा लोभासुरः प्रणम्य तम् ।
तथेति प्रतिपाद्यैव सकविः शरणं ययौ ॥ १ ॥

नगरप्रान्तभागे तच्छस्त्रं गजाननस्य च ।
समीपसंस्थान् जज्वाल दानवादीन् समास्थितम् ॥ २ ॥

तं प्रणम्य महादैत्यो लोभः परशुमुत्तमम् ।
कृताञ्जलिः प्रतुष्टाव भयभीतः समन्ततः ॥ ३ ॥

लोभासुर उवाच ।

नमस्ते शस्त्रराजाय शस्त्राणां ब्रह्मरूपिणे ।
नानाशस्त्राणि शस्त्रेश त्वदाधाराणि ते नमः ॥ ४ ॥

प्रलयानलसङ्काशं स्वरूपं धरते नमः ।
अनन्तवीर्ययुक्ताय भास्करामिततेजसे ॥ ५ ॥

दृश्यादृश्यमयायैव सर्वदर्पहराय ते ।
धर्मसंस्थापनार्थाय नानारूपधराय च ॥ ६ ॥

साक्षाद्गजाननस्यैव यद्वीर्यं नियतात्मकम् ।
तदेव त्वं महाशस्त्रं किं ते स्तौमि नमो नमः ॥ ७ ॥

शरणागतपालाय सदा स्वानन्दसंस्थितः ।
रक्ष मां भयभीतं भोः परशो ते नमो नमः ॥ ८ ॥

एवं लोभासुरं संस्तुवन्तं तं तु महाबलम् ।
काव्येन शस्त्रराजं तच्छान्तिरूपधरं बभौ ॥ ९ ॥

गत्वा गजाननस्यैव हस्तगं तद्बभूव ह ।
लोभासुरः स शुक्रेणाऽऽययौ विघ्नेश्वरं ततः ॥ १० ॥

समागतं महादैत्यं दृष्ट्वा देवर्षयोऽभवन् ।
विस्मिता हर्षिताः सर्वे परस्परमुखेक्षणाः ॥ ११ ॥

गजाननं प्रणम्यैव लोभासुरः प्रतापवान् ।
काव्येन पूजयामास भक्तियुक्तो विशेषतः ॥ १२ ॥

प्रणम्य तं पुनर्दैत्यः कृत्वा करपुटं प्रभुम् ।
गजाननं भावसंयुक्तस्तुष्टाव प्रहर्षितः ॥ १३ ॥

लोभासुर उवाच ।

नमस्ते गजवक्त्राय नानासिद्धिप्रदायिने ।
बुद्धिचालकवेषाय ब्रह्मणे वै नमो नमः ॥ १४ ॥

हेरम्बाय सदा स्वानन्दवासिने महात्मने ।
परात्परतरायैव विघ्नेशाय नमो नमः ॥ १५ ॥

सुरासुरप्रियकर सुरासुरमयाय ते ।
लोभयुक्तान् विधर्मस्थान्नाशनाय नमो नमः ॥ १६ ॥

देवानां पालकायैव दैत्यानां रक्षकाय ते ।
सर्वेषां दर्पहन्त्रे वै गणेशाय नमो नमः ॥ १७ ॥

लम्बोदराय देवेश दैत्येश मूषकध्वज ।
अनादये च सर्वेषामादिरूपाय ते नमः ॥ १८ ॥

आदिमध्यान्त हीनायादिमध्यान्तस्वरूपिणे ।
ब्रह्मेशाय महेशानां पालकाय नमो नमः ॥ १९ ॥

ब्रह्मभ्यो ब्रह्मदात्रे च सदा शान्तिधराय ते ।
शान्तीनां शान्तिरूपाय नमो योगाय वै नमः ॥ २० ॥

[[१०८]]

एकदन्ताय सर्वेश वक्रतुण्डाय ते नमः ।
महोदराय पूर्णाय पूर्णानन्दाय ते नमः ॥ २१ ॥

सर्वेषां मूलबीजाय मात्रे पित्रे नमो नमः ।
ज्येष्ठराजाय ज्येष्ठानां पालकाय नमो नमः ॥ २२ ॥

बीजरूपं गणाधीश जगतां ब्रह्मणां गजम् ।
चिह्नेन लभ्यसे तेन गजानन नमोऽस्तु ते ॥ २३ ॥

बोधहीनाय रूपाय सदा साङ्ख्यमयाय च ।
विदेहाय नमस्तुभ्यं प्रत्यक्षं रूपधारिणे ॥ २४ ॥

यं स्तोतुं न समर्थाश्च वेदा योगिशिवादयः ।
तं किं स्तौमि गणाधीश नमस्ते वरदो भव ॥ २५ ॥

त्वद्दर्शनजमाहात्म्यात् संस्तुतोऽसि महाप्रभो ।
तेन मेऽभयदो भूत्वा रक्ष दासं विशेषतः ॥ २६ ॥

एवं स्तुत्वा महालोभः प्रणनाम गजाननम् ।
तमुवाच दयासिन्धुर्भक्तं भक्तप्रपालकः ॥ २७ ॥

गजानन उवाच ।

वरं वृणु महालोभ ददामि मनसीप्सितम् ।
प्रसन्नोऽहं विशेषेण भक्त्या काव्यप्रदत्तया ॥ २८ ॥

त्वया कृतमिदं स्तोत्रं सर्वसिद्धिकरं भवेत् ।
पठतः शृण्वतश्चैव लोभ तं नैव पीडय ॥ २९ ॥

पुत्रपौत्रादिसंयुक्तो भुक्त्वा भोगान् मनेप्सितान् ।
अन्ते स्वानन्दलोके स ब्रह्मभूतो भविष्यति ॥ ३० ॥

यः स्तौति मामनेनैव स मे मान्यो न संशयः ।
सदा सुरस्वभावेन हीनः सोऽपि भविष्यति ॥ ३१ ॥

त्वां हन्तुं क्रोधसंयुक्त आगतोऽहं न संशयः ।
शरणागतमेवं तु दानवोत्तम हन्मि न ॥ ३२ ॥

गजाननवचः श्रुत्वा लोभो हर्षसमन्वितः ।
उवाच तं महाबुद्धिर्भावेन ब्रह्मनायकम् ॥ ३३ ॥

लोभासुर उवाच ।

गजानन वरं मे त्वं देहि सम्पूर्णदायक ।
तव भक्तिस्वरूपं च गाणपत्यप्रियात्मताम् ॥ ३४ ॥

स्थानं देहि विशेषेण प्रभो वृत्तिं च शाश्वतीम् ।
कार्यं कथय सर्वेश करिष्यामि गजानन ॥ ३५ ॥

गजानन उवाच ।

मदीया भक्तिराद्या ते भविष्यति महामते ।
गाणपत्येषु ते स्नेहो वृद्धिं यास्यति नित्यदा ॥ ३६ ॥

स्वस्थाने त्वं स्थिरो भूत्वा तिष्ठ मे भक्तिसंयुतः ।
यत्र मे स्मरणं नास्ति पूजनं वाऽसुरोत्तम ॥ ३७ ॥

आदौ कर्मादिषु प्राज्ञ तत् समाहर नित्यदा ।
यथा देवाः प्रिया मे तु तथा त्वमपि लोभक ॥ ३८ ॥

मम भक्ताश्च ये दैत्य तान् रक्षस्व विशेषतः ।
मदीयभक्तिरूपं तु लोभ वर्धय तेषु वै ॥ ३९ ॥

एवमुक्तः प्रभुं लोभस्तं प्रणम्य गजाननम् ।
काव्येन सहितः सोऽपि स्वपुरं प्रययौ प्रभो ॥ ४० ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते लोभासुरशान्तिवर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥