॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
दूतं गजाननस्तत्र प्रेषयामास शङ्करम् ।
स गत्वा दैत्यपं दक्ष जगाद शृणु तद्वचः ॥ १ ॥
शिव उवाच ।
शृणु लोभासुर त्वं मे वचनं हितकारकम् ।
करिष्यसि यदा साम्ना भविष्यसि तदा सुखी ॥ २ ॥
गजाननः स्वयं साक्षाद्ब्रह्मणां नायकः स्मृतः ।
स आगतः सुरैः सर्वैर्देवेन्द्रैर्मुनिभिर्वृतः ॥ ३ ॥
नगरप्रान्तभागे ते दशयोजनदूरतः ।
संस्थितेन च दैत्येश प्रेषितोऽहं विशेषतः ॥ ४ ॥
मदीयवरदानेन निर्भयोऽसि हि मानद ।
अतस्त्वदीयरक्षार्थं प्रेषयामास मां प्रभुः ॥ ५ ॥
ब्रह्माण्डं वशमानीय त्वं सर्वेशोऽसि साम्प्रतम् ।
देवान् पशुसमानांश्च कृत्वा दैत्यैर्निरन्तरम् ॥ ६ ॥
अधुना वैरमुत्सृज्य स्नेहं कुरु महामते ।
देवाः स्वपदगाः सन्तु ब्राह्मणाः कर्मकारिणः ॥ ७ ॥
गजाननस्य वर्तस्व मित्रभावेन दानव ।
भुङ्क्ष्व भोगान् महाभाग नोचेत्त्वां स हनिष्यति ॥ ८ ॥
[[१०५]]
शिवस्य वचनं श्रुत्वा क्रोधयुक्तो महासुरः ।
जगाद तं तिरस्कृत्य महादेवं मदान्वितः ॥ ९ ॥
लोभासुर उवाच ।
कोऽसौ गजाननः शम्भो त्वं भेदकर एव च ।
मोहयस्यधुना मां किं देवानां पक्षगः पुरः ॥ १० ॥
अधुना त्वां महादेव हन्मि क्रोधसमन्वितः ।
किं करोमि च दूतस्त्वं गच्छ देवं गजाननम् ॥ ११ ॥
वद वाक्यं मदीयं त्वं हनिष्यामि सदेवकम् ।
गजाननं न सन्देहः पश्य मे पौरुषं महत् ॥ १२ ॥
एवं निर्भर्त्सितः शम्भुः क्रोधारुणविलोचनः ।
जगाद तं महादैत्यं विशेषज्ञः सुदुर्मतिम् ॥ १३ ॥
शिव उवाच ।
मृत्युयोगेन पापिष्ठ त्वं युतोसि न संशयः ।
गजाननं तेन लोभ निन्दसि ब्रह्मनायकम् ॥ १४ ॥
शिवः पुनः सुदुर्बुद्धिमेवमुक्त्वा ययौ प्रभुम् ।
गजाननं प्रणम्यादौ वृत्तान्तं सञ्जगौ पुनः ॥ १५ ॥
तदाकर्ण्य वचः क्रूरं गजाननः प्रतापवान् ।
क्रोधसंरक्तचक्षुः सन् परशुं त्वक्षिपत्ततः ॥ १६ ॥
अनन्तादित्यसङ्काशः परशुः कालभीतिदः ।
आययौ दैत्यपुर्यां वै ज्वालामालाभिरावृतः ॥ १७ ॥
तेजोमयं महास्त्रं तद् दृष्ट्वा दैत्यगणाः परम् ।
भयभीता ययुस्तं ते हाहाकाररवाकुलाः ॥ १८ ॥
दानवेन्द्रैः सभासंस्थं लोभं दृष्ट्वा सुखं वचः ।
जगुर्दारुणरूपं यत् सर्वेभ्यो भयदायकम् ॥ १९ ॥
नागरा ऊचुः ।
किं स्थितोऽसि महादैत्य लोभ ज्वालासमाकुलम् ।
अस्त्रं समागतं क्रूरं दाहयामास दानवान् ॥ २० ॥
तेषां तद्वचनं श्रुत्वा भयहर्षसमन्वितः ।
जगाद दानवाधीशान् महाकोपयुतोऽसुरः ॥ २१ ॥
लोभासुर उवाच ।
गजाननोऽमरैः सार्धं समायातो न संशयः ।
समर्थो दृश्यते नूनं यस्यास्त्रबलमीदृशम् ॥ २२ ॥
तस्य तद्वचनं श्रुत्वा दानवेन्द्रा महाबलाः ।
ऊचुः प्राञ्जलयः सर्वे मा भयं कुरु सत्तम ॥ २३ ॥
गजाननं हनिष्यामः पश्यति त्वयि मानद ।
एवमुक्त्वा ययुः सर्वे दंशिता योद्धुमादृताः ॥ २४ ॥
ततस्तैर्यमसङ्काशैर्दृष्टं तेजोमयं महत् ।
अस्त्रं ब्रह्मपते क्रूरं प्रलयस्य प्रकाशकम् ॥ २५ ॥
ददाह दानवांस्तत्र सर्वतस्तीक्ष्णतेजसा ।
हाहाकाररवाः सर्वे पपलुर्भयविह्वलाः ॥ २६ ॥
दानवेन्द्रैस्ततो दक्ष मेघास्त्रं मोचितं महत् ।
जलौघैः सर्वतो मेघा ववृषुर्दारुणं परम् ॥ २७ ॥
जलं सर्वं महास्त्रं तच्छोषयामास तत्क्षणात् ।
मेघस्थं ते ततो मेघा निस्तेजस्का बभूविरे ॥ २८ ॥
दैत्येन्द्रान् दैत्यमुख्यांश्च ज्वालया परशुस्तदा ।
ददाह च ततो भीता पपलुर्यत्र तत्र ते ॥ २९ ॥
तद् दृष्ट्वा परमाश्चर्यं स लोभासुर आययौ ।
रथारूढो महातेजास्तन्निवृत्त्यर्थमादृतः ॥ ३० ॥
पश्यतो दैत्यराजस्य ज्वालाऽकस्मात् समागता ।
रथं साश्वं ददाहाऽपि ततः शस्त्राणि सर्वतः ॥ ३१ ॥
ततः पपाल दैत्येन्द्रः कविं लोभासुरो ययौ ।
तं प्रणम्य महाभागं पप्रच्छ विनयान्वितः ॥ ३२ ॥
लोभासुर उवाच ।
स्वामिन् गजाननो देव आगतः स महाबलः ।
दाहयामास शस्त्रेणाऽनिवार्येण रथं स मे ॥ ३३ ॥
[[१०६]]
तन्निवृत्त्यर्थमेवाहं न पश्यामीह किञ्चन ।
अतस्ते शरणं नाथ प्राप्तोऽहं रक्ष मां मुने ॥ ३४ ॥
मनोवाणीमयं सर्वं तस्मान् मृत्युर्न मे भवेत् ।
नामरूपधरः सोऽपि कथं मां धक्ष्यति प्रभो ॥ ३५ ॥
यदि मे मरणं प्राप्तमेवं तर्ह्यस्तु साम्प्रतम् ।
देवानां शरणं नाथ न गमिष्यामि कर्हिचित् ॥ ३६ ॥
अतो वद महाभाग उपायं हितदायकम् ।
त्वदाधारं च योगीन्द्र जीवनं मे प्रवर्तते ॥ ३७ ॥
इति तस्य वचः श्रुत्वा शुक्रः सर्वज्ञमुख्यकः ।
लोभासुरं भयोद्विग्नं तं जगाद प्रहर्षयन् ॥ ३८ ॥
शुक्र उवाच ।
मा कुरुष्व भयं वत्स शृणु मे वचनं हितम् ।
तत् समाचार दैत्येन्द्र ततः क्षेमं भविष्यति ॥ ३९ ॥
गजाननः प्रसन्नात्मा यदिच्छति महासुर ।
तदेव सत्यरूपं वै भविष्यति न संशयः ॥ ४० ॥
ब्रह्मणां नायकः प्रोक्तो गच्छ तं विनयान्वितः ।
नाऽयं देवाधिपो दैत्य सुरासुरमयः प्रभुः ॥ ४१ ॥
एवं तस्य वचः श्रुत्वा लोभस्तं पुनरब्रवीत् ।
निःश्वस्य देवपैः सार्धं कथं योद्धुं समाययौ ॥ ४२ ॥
मध्यस्थश्चेन् महाभागं तं गच्छामि शरण्यकम् ।
न लज्जा तेन मे स्वामिन् संशयं छिन्धि हृत्स्थितम् ॥ ४३ ॥
शुक्र उवाच ।
देहरूपं महद्ब्रह्म देह्यात्मा वेदभाषितम् ।
तयोर्योगे महादैत्य बोधोऽसि पदवाचकः ॥ ४४ ॥
बोधनाशे विदेहाख्यं ब्रह्म सौख्यं प्रकीर्तितम् ।
सुसिद्धिदं तदेव त्वं विजानीहि गजाननम् ॥ ४५ ॥
सर्वेषां बीजरूपं यत्तस्य बीजं न विद्यते ।
तदेव गजशब्दाख्यं ब्रह्म वेदे प्रकीर्तितम् ॥ ४६ ॥
गजचिह्नेन गच्छन्ति योगिनो हि गजाननम् ।
तेन नाम्ना समाख्यातो मुनिभिस्तत्त्वदर्शिभिः ॥ ४७ ॥
यथा मुखस्य चिह्नेन ज्ञायते मानवादिभिः ।
गजचिह्नेन तद्ब्रह्म ज्ञायते योगिभिः सदा ॥ ४८ ॥
तेनैव स्थापितं विश्वं बोधरूपं महामते ।
स्वस्वधर्मयुतं पूर्णं तत्राऽयं संस्थितोऽभवत् ॥ ४९ ॥
पाताले दानवानां च राज्यं स्वर्गे दिवौकसाम् ।
पृथिव्यां मानवानां वै त्रिविधं रचितं पुरा ॥ ५० ॥
यदा देवा महाभाग लोभयुक्ता मदान्विताः ।
पातालस्थान् दैत्यगणाञ्जघ्नुर्मूलविनाशकाः ॥ ५१ ॥
तदाऽयं देहधारी च दैत्येभ्यो वरदोऽभवत् ।
देवानां विघ्नसन्दाता गणेशः सर्वभाववित् ॥ ५२ ॥
ततो दैत्यगणाः सर्वे बलयुक्ता सुरेन्द्रकान् ।
जघ्नुर्वीरश्रिया राजन् विघ्नहीनप्रभावतः ॥ ५३ ॥
यदा दैत्या महालोभ लोभयुक्ता विशेषतः ।
देवानां जीवनाशार्थमभवन् कर्मखण्डनात् ॥ ५४ ॥
तदा विघ्नेश्वरः साक्षाद्देहं धृत्वा च दानवान् ।
हत्वा स्वस्थानगान् देवानकरोद्धर्मपालकः ॥ ५५ ॥
सुराऽसुरादयः सर्वे स्वस्वधर्मरता यदा ।
तदाऽयं ब्रह्मरूपः संश्चित्ते चिन्तामणिर्बभौ ॥ ५६ ॥
चित्तरूपा स्वयं बुद्धिर्भ्रान्तिरूपा महामते ।
सिद्धिस्ताभ्यां गणाधीशः खेलति ब्रह्मनायकः ॥ ५७ ॥
स्वसंवेद्यात् मनस्तस्य दर्शनं जायते यतः ।
तेनाऽयं गणपः स्वानन्दवासी कथ्यते बुधैः ॥ ५८ ॥
[[१०७]]
अतस्तस्यैव दैत्येन्द्र शरणं सुखदं भवेत् ।
अन्यथा सकलं हत्वा मरिष्यसि न संशयः ॥ ५९ ॥
गजाननस्य दैत्येश शस्त्रं ब्रह्ममयं ह्यतः ।
तस्मै कुरु नमो भक्त्या शान्तरूपं भविष्यति ॥ ६० ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते शुक्रोपदेशवर्णनं नामैकचत्वारिंशोऽध्यायः ॥