४० गजाननप्रादुर्भावः

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

ततो बहौ गते काले दानवा बलदर्पिताः ।
जगुर्लोभासुरं तत्र लोभयुक्ता विशेषतः ॥ १ ॥

दानवेन्द्रा ऊचुः ।
देवा लोभासुर स्वामिन्नस्माकं शत्रवो मताः ।
सुराश्चासुरवर्याणां वेदे प्रोक्ता विचारय ॥ २ ॥

शस्त्रास्त्रैर्देवसङ्घास्ते न मरिष्यन्ति कर्हिचित् ।
अमरा वेदशास्त्रेषु कथिता नात्र संशयः ॥ ३ ॥

कर्मान्ना देवताः स्वामिन् क्षते कर्मणि तत्क्षणात् ।
मरिष्यन्ति महाभाग तदर्थं यत्नमाचर ॥ ४ ॥

जित्वा ब्रह्माण्डगोलं किं संस्थितोऽसि महासुर ।
न कृतार्थस्त्वमेवैवं कदा जीवत्सु शत्रुषु ॥ ५ ॥

हिरण्यकशिपुर्जित्वा पुरा देवगणान् स्वयम् ।
राज्यं चकार सर्वत्र भुवनेषु न संशयः ॥ ६ ॥

ततो देवैः प्रयत्नेन निर्मितो नृहरिः प्रभो ।
तेन हत्वा सुराधीशं देवाः स्वस्थानगा बभुः ॥ ७ ॥

अतस्त्वं दैत्यराजेन्द्र हितं कुरु विशेषतः ।
तदा चिरं महाराज सुखयुक्तो भविष्यसि ॥ ८ ॥

तेषां वचनमाकर्ण्य लोभासुरः सुमन्दधीः ।
आज्ञापयत्ततो दैत्यो दैत्येन्द्रान् कर्मखण्डने ॥ ९ ॥

ततो गजासुराद्याश्च निर्गता क्रोधसंयुताः ।
यत्र तत्र द्विजान् धृत्वा जघ्नुर्यज्ञान् विशेषतः ॥ १० ॥

यज्ञवृक्षांस्तथा गाश्च तीर्थानि यत्र तत्र ते ।
जघ्नुर्बभञ्जुरत्यन्तं कर्मखण्डनकारणात् ॥ ११ ॥

बभञ्जुः क्रोधसंयुक्ता देवताऽऽयतनानि ते ।
स्वधर्मस्थं जनं दृष्ट्वा जघ्नुर्दानवसत्तमाः ॥ १२ ॥

सर्वत्र दानवाधीशैर्लोभासुरस्य मूर्तयः ।
जनैः पूज्याः कृता दक्ष तदाधारं बभूव ह ॥ १३ ॥

न स्वाहा न स्वधा कुत्र बभूव प्रलये यथा ।
न वषट्कारगं कर्म त्रासितं भूमिमण्डलम् ॥ १४ ॥

लोभासुरयुतं सर्वैः कर्म तैः प्रतिपादितम् ।
ततो हाहारवैर्युक्ता बभूवुर्मानवाः प्रभो ॥ १५ ॥

ब्राह्मणा वनगा भूत्वा केचिन् मरणनिश्चयाः ।
चक्रुः कर्म तथा भ्रष्टा बभूवुर्बहवो द्विजाः ॥ १६ ॥

[[१०३]]

एवं बहौ गते काले देवाः परमदुःखिताः ।
उपवासपराः सर्वे बभूवुस्ते प्रजापते ॥ १७ ॥

ततोऽतियत्नसंयुक्ता विचारं चक्रुरञ्जसा ।
लोभासुरविनाशाय न प्रापुस्ते दिवौकसः ॥ १८ ॥

ततोऽतिदुःखिताः सर्वे किं कुर्म इति विह्वलाः ।
सन्तस्थुः पर्वतोद्देशे गुप्तभावेन देवपाः ॥ १९ ॥

तत्राऽऽजगाम योगीन्द्रो रैभ्यः सर्वप्रियङ्करः ।
अवधूतः स्वरूपेण साक्षाद्विघ्नेश्वरो यथा ॥ २० ॥

तं प्रणम्य शिवाद्यास्ते पप्रच्छुर्लोभनाशकम् ।
उपायं दीनभावेन सास्थिचर्मावशेषिताः ॥ २१ ॥

ततोऽतिकरुणायुक्तो रैभ्यः सर्वार्थकोविदः ।
जगाद तान् सुरेन्द्रान् स दीनान् दृष्ट्वा विशेषतः ॥ २२ ॥

रैभ्य उवाच ।

शृणुध्वं विष्णुशम्भ्वाद्या मुनयस्तत्त्वभाविताः ।
लोभासुरो महापापी दुर्जयो नात्र संशयः ॥ २३ ॥

विघ्नराजं तदपि वै भजध्वं भक्तिसंयुताः ।
तेनाऽयं सुजयो देवा भविष्यति विशेषतः ॥ २४ ॥

स्वयं साक्षाद् बुद्धिपतिर्बुद्धिं सञ्चालयिष्यति ।
गजाननस्य मन्त्रं वै जपध्वं विधिपूर्वकम् ॥ २५ ॥

एवमुक्त्वा महायोगी रैभ्यः स्वच्छन्दगोऽभवत् ।
शिवादयो महाभागा हर्षिताः सम्बभूविरे ॥ २६ ॥

गजाननस्य मन्त्रं ते जेपुस्तपःपरायणाः ।
सविधिं ध्यानसंयुक्तास्तोषयामासुरन्वहम् ॥ २७ ॥

निराहारप्रभावेण सन्तुष्टो भक्तिभावितः ।
शतवर्षेषु देवेशानाययौ स गजाननः ॥ २८ ॥

दृष्ट्वा गजाननं ते तु हर्षिता देवनायकाः ।
देवा मुनिगणाः सर्वे पुपूजुः स्नेहसंयुताः ॥ २९ ॥

कृत्वा करपुटं भक्त्या तुष्टुवुस्तं गजाननम् ।
पुनरुत्थाय ते सर्वे प्रणेमुस्तं गजाननम् ॥ ३० ॥

देवर्षय ऊचुः ।
गजानन नमस्तुभ्यं सर्वेषां बीजरूपिणे ।
निर्बीजाय गणेशाय विघ्नानां पतये नमः ॥ ३१ ॥

अनन्तायैकदन्ताय हेरम्बाय नमो नमः ।
चतुर्भुजाय सर्वेश सर्वपूज्याय ते नमः ॥ ३२ ॥

सर्वसिद्धिप्रदात्रे च सुरासुरमयाय ते ।
सिद्धिबुद्धिप्रचालाय सिद्धिबुद्धिपते नमः ॥ ३३ ॥

अगुणाय गुणेशाय गुणरूपाय गौणिने ।
मायामयाय मायायाश्चालकाय परात्मने ॥ ३४ ॥

सर्वादये महोदार पराक्रमपराय ते ।
स्वानन्दवासिने तेऽस्तु नमः स्वानन्ददायिने ॥ ३५ ॥

योगाकाराय योगानां स्वामिने शान्तिदायिने ।
ब्रह्मणस्पतये तेऽस्तु ब्रह्मणां ब्रह्मणे नमः ॥ ३६ ॥

अनाधाराय सर्वेषामाधाराय नमो नमः ।
आदिमध्यान्तहीनायादिमध्यान्ताय ते नमः ॥ ३७ ॥

परश्वङ्कुशहस्ताय त्रिनेत्राय महोदर ।
नमो मूषकवाहाय मूषकध्वजिने नमः ॥ ३८ ॥

नमो नमस्ते सकलाय धाम्ने सदा सुखानन्दकराय पात्रे ।
जगत् सुस्रष्ट्रे सकलस्य हन्त्रे गुणैर्विहीनाय गणाधिपाय ॥ ३९ ॥

विदेहरूपाय पराय भोक्त्रे बोधेन हीनाय सुसाङ्ख्यकाय ।
सदा स्वबुद्धौ परसंस्थिताय गजात्मरूपाय नमो नमस्ते ॥ ४० ॥

बोधहीनं च यद्ब्रह्म तदेव गजवाचकम् ।
गजचिह्नेन योगीन्द्राः पश्यन्ति त्वां गजाननम् ॥ ४१ ॥

[[१०४]]

यथा मुखस्य चिह्नेन ज्ञायन्ते मानवादयः ।
तथा विदेहचिह्नेन ज्ञायसे त्वं तु योगिभिः ॥ ४२ ॥

विदेहं गजरूपं यत्तेन ते मुखमुच्यते ।
गणेशस्य प्राप्तिकरं गजानन नमोस्तु ते ॥ ४३ ॥

किं स्तवाम गणाधीश यत्र वेदादिकास्तथा ।
योगिनः शान्तिमापन्नास्तं वयं शरणं गताः ॥ ४४ ॥

स्तुत्वा विघ्नेश्वरं ते तु प्रणेमुस्तं पुनः पुनः ।
तानुवाच गणाधीशो हर्षयन् सर्वभाववित् ॥ ४५ ॥

गजानन उवाच ।

स्तोत्रं भवत्कृतं देवा ईश्वरा मुनयश्च मे ।
सर्वसिद्धिप्रदं पूर्णं भविष्यति निरन्तरम् ॥ ४६ ॥

यद्यदिच्छति तत्तद्वै दास्यामि भक्तियन्त्रितः ।
पठनाच्छ्रवणादस्य सन्तुष्टोऽहं विशेषतः ॥ ४७ ॥

वरदोऽहं वृणुत वो दास्यामि वरमीप्सितम् ।
तपसा भक्तिभावेन स्तोत्रेण तुष्टिमागतः ॥ ४८ ॥

गजाननवचः श्रुत्वा हर्षिता देवतर्षयः ।
प्रत्यूचिरे प्रणम्येदं वचनं सर्वसौख्यदम् ॥ ४९ ॥

देवर्षय ऊचुः ।
लोभासुरेण भो स्वामिन् त्रासितं भुवनत्रयम् ।
वयं कर्मविहीनत्वादुपोषणयुताः कृताः ॥ ५० ॥

अतस्त्वं जहि दैत्येशं सर्वाजेयं गजानन ।
तव भक्तिं दृढां देहि लोभहीनां विशेषतः ॥ ५१ ॥

तेषां वचनमाकर्ण्य गजानन उवाच तान् ।
मा भयं कुरुत प्राज्ञा हनिष्यामि महासुरम् ॥ ५२ ॥

लोभहीना मदीया या भक्तिर्वश्च भविष्यति ।
अधुना दानवेन्द्रं तं जेष्यामि च न संशयः ॥ ५३ ॥

मुनीन् देवानेवमुक्त्वाऽभवत्तत्रैव संस्थितः ।
सर्वेषां कार्यसिद्ध्यर्थं गजाननः प्रतापवान् ॥ ५४ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते गजाननप्रादुर्भावो नाम चत्वारिंशोऽध्यायः ॥