॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
ततोऽतिदुःखितो विष्णुर्देवेन्द्रैश्च समन्वितः ।
त्यक्त्वा विकुण्ठमेवं स ययौ शम्भुं शरण्यकम् ॥ १ ॥
गत्वा कैलासके दक्ष शिवं नत्वा जनार्दनः ।
स्तुत्वा वृत्तान्तमेवं स कथयामास विस्तरात् ॥ २ ॥
श्रुत्वा महेश्वरो विष्णुं स देवं स्वपुरागतम् ।
सान्त्वयामास युक्तैश्च नानादृष्टान्तदर्शनैः ॥ ३ ॥
शिव उवाच ।
मा चिन्तां कुरु विष्णो त्वं सर्वज्ञ जगदीश्वर ।
तपःपुण्यं महोग्रं यत्तेन त्वं स पराजितः ॥ ४ ॥
तपः कृतं च लोभेन फलं तस्य जनार्दन ।
भुक्त्वा मरिष्यते नाथ कालस्तत्र प्रतीक्ष्यताम् ॥ ५ ॥
[[१०१]]
देवैः सह महाविष्णो मत्समीपे स्थिरो भव ।
मदीयभक्तियुक्तो ह्यागमिष्यत्यत्र नैव सः ॥ ६ ॥
एवमुक्त्वा वचो विष्णुं शङ्करः शोकसंयुतः ।
देवैस्तेन समायुक्तोऽतिष्ठत् कैलासपर्वते ॥ ७ ॥
अथ लोभासुरं सर्वैः संस्थितं दानवैर्वृतम् ।
इन्द्रासने महाबाहुं तमूचुर्दानवोत्तमाः ॥ ८ ॥
विप्रचित्त्याद्या ऊचुः ।
लोभ लोभ महाभाग शृणु नो वचनं हितम् ।
विष्णुर्देवगणैः सर्वैः कैलासे शङ्करं ययौ ॥ ९ ॥
अस्माकं शङ्करः सोऽपीष्टदेवः पूज्य आदरात् ।
शत्रून् रक्षति नः शम्भुर्भविष्यति विपक्षगः ॥ १० ॥
अधुना शङ्करस्यास्य भावार्थं प्रेष्यतां महान् ।
दूतः सर्वार्थसूज्ञः कस्ततः क्षेमं भविष्यति ॥ ११ ॥
शिवो यदि स देवानां पक्षगो भवति प्रभो ।
तदा शम्भुं प्रजेष्यामस्तपोबलसमन्विताः ॥ १२ ॥
न ते शम्भुर्वरस्यैव दाता जानीहि मानद ।
कर्मणां फलदातारः कृता देवाश्च कर्मणा ॥ १३ ॥
कर्माधीनं जगत् सर्वं सदेवासुरमानुषम् ।
कर्माज्ञावशगं दैत्य कर्मणा त्वं महाप्रभुः ॥ १४ ॥
देवाः कर्मफलं लोभाद्ददते न विशेषतः ।
तदैश्वर्यविहीनास्ते पतन्ति स्वपदात् किल ॥ १५ ॥
अतस्त्यक्त्वा स्वसन्देहं त्यज शम्भुं विपक्षगम् ।
कुरु कर्माश्रयं त्वं वै तेन क्षेमं भविष्यति ॥ १६ ॥
इत्युक्त्वा दानवेन्द्रास्ते विरामं चक्रुरञ्जसा ।
लोभासुरस्ततस्तेषां वचने निरतोऽभवत् ॥ १७ ॥
गजासुरं महावीर्यं प्रेषयामास सत्वरम् ।
कैलासे शङ्करस्यैव भावार्थं भावधारकः ॥ १८ ॥
गत्वा शम्भुं महादैत्यः प्रणम्य प्रत्युवाच सः ।
वचनं लोभदैत्येन प्रेषितं सामपूर्वकम् ॥ १९ ॥
गजासुर उवाच ।
महादेव नमस्तुभ्यं शृणु मे वचनं हितम् ।
लोभासुरेण देवेश प्रेषितोऽहं विशेषतः ॥ २० ॥
तेन सङ्कथितं वाक्यं तच्छृणुष्व सुखप्रदम् ।
त्वं साक्षादीश्वरः पूर्णोऽस्माकं पूज्यो निरन्तरम् ॥ २१ ॥
विष्णुर्देववरः स्वामिन्नागतस्ते प्रसन्निधौ ।
अस्माकं शत्रुरेवाऽसौ तं त्यज त्वं सदाशिव ॥ २२ ॥
वयं भक्तास्त्वदीयाश्चास्माकं मित्रं तदेव ते ।
मित्रं शत्रुस्तथा शम्भो पालयस्वादराद्धि नः ॥ २३ ॥
नो चेत् सङ्ग्रामभावेन जेष्यामस्त्वां न संशयः ।
कर्मणा त्वं समर्थश्चेत् सञ्जातो भुङ्क्ष्व विष्टपम् ॥ २४ ॥
कर्मणा लोभकः शम्भो सर्वैश्वर्ययुतोऽधुना ।
तस्मादस्मान् महाभाग रक्ष ते भक्तिसंयुतान् ॥ २५ ॥
तस्य तद्वचनं श्रुत्वाऽब्रवीन्निःश्वस्य शङ्करः ।
गुजासुरं स्वयं साम्ना वचनं हितकारकम् ॥ २६ ॥
शिव उवाच ।
गजासुर महालोभं वद मे वचनं हितम् ।
गत्वा तं दानवेन्द्रं त्वं सर्वासुरसमन्वितम् ॥ २७ ॥
कैलासं विष्णुना त्यक्त्वा सहितोऽहं स्वदेवपैः ।
गच्छामि यत्र कुत्रापि न त्यजामि जनार्दनम् ॥ २८ ॥
कर्मणा त्वं समर्थश्चेत् सञ्जातो भुङ्क्ष्व विष्टपम् ।
सर्वं चराचरं तेऽभूत् स्वाधीनं नात्र संशयः ॥ २९ ॥
एवमुक्त्वा सुदुर्बुद्धिं शङ्करः सुरनायकैः ।
जगाम पर्वतोद्देशे त्यक्त्वा कैलासमात्मनः ॥ ३० ॥
[[१०२]]
महावने महेशानः पर्वतद्रोणिमाश्रितः ।
देवैर्विष्णुमुखैः सर्वैः पशुवत् कालचालकः ॥ ३१ ॥
गजासुरः सभां गत्वा जगाद सकलैर्युतम् ।
लोभासुरं स वृत्तान्तं श्रुत्वा संहर्षितोऽभवत् ॥ ३२ ॥
ततः स सत्यलोके च विकुण्ठे शङ्करालये ।
दानवान् स्थापयामास नानादेवपदेषु वै ॥ ३३ ॥
इन्द्रासनं परित्यज्य ययौ भूम्यां महासुरः ।
स्वपुरे दानवेन्द्रैश्चावसद्भोगपरायणः ॥ ३४ ॥
न ममर्श निजात्मानं गर्वितः केवलं स तु ।
स्त्रीमांसमदिरादिष्वासंसक्तोऽभूत् सुदुर्मतिः ॥ ३५ ॥
धन्यमात्मानमेवं स मन्यते स्म कृतार्थकम् ।
ब्रह्माण्डं वशगं मेऽभून्न मत्तः श्रेष्ठ एककः ॥ ३६ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते लोभासुरब्रह्माण्डजयो नामैकोनचत्वारिंशोऽध्यायः ॥