॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
इन्द्रः सुरगणैः सार्धं बृहस्पतिपुरोगमः ।
वैकुण्ठे विष्णुमानम्य गत्वा तुष्टाव तं स्तवैः ॥ १ ॥
ततस्तुष्टो हरिः प्राह महेन्द्रं मान्यभावतः ।
स्थीयतां दैवतैः सर्वैः किं कार्यं समुपस्थितम् ॥ २ ॥
त्यक्त्वाऽमरावतीं तात किमर्थं चागतो भवान् ।
स्त्रिया हीनः पदा देवैर्वद दुःखं महाद्भुतम् ॥ ३ ॥
इन्द्र उवाच ।
किं वदामि जगत्पाल सर्वज्ञं त्वां महामते ।
तथापि शृणु वृत्तान्तं शोकदं दैवकारितम् ॥ ४ ॥
लोभासुरश्च शैवेन वरेण बलदर्पितः ।
दानवेन्द्रैर्महाबाहुर्यो त्वं स ह्यागतोऽधुना ॥ ५ ॥
गुरुणा बोधिताः सर्वे वयं प्राप्ता जनार्दन ।
त्यक्त्वा राज्यादिकं सर्वं विचारं कुरु सर्वथा ॥ ६ ॥
दैत्योऽमरावतीसंस्थो देवस्थानानि माधव ।
प्रददाति च दैत्येभ्यः स्वर्गराज्यं करोति सः ॥ ७ ॥
त्वं पालकः श्रुतौ प्रोक्तस्तस्माच्छरणमागतान् ।
रक्ष लोभासुरं हत्वा देवानामीश्वरो भवान् ॥ ८ ॥
तेषां तद्वचनं श्रुत्वा विष्णुः कोपसमन्वितः ।
जगाद देवराजं तं महाबाहुर्विचक्षणः ॥ ९ ॥
[[९९]]
श्रीहरिरुवाच ।
हनिष्यामि महादैत्यं लोभं दानवसंयुतम् ।
मा कुरुष्व वृथा चिन्तां कुरु राज्यं मयार्पितम् ॥ १० ॥
एवमुक्त्वा महेन्द्रं स देवेन्द्रैः सह माधवः ।
वेगेनारुह्य गरुडं ययौ ताममरावतीम् ॥ ११ ॥
समागतं महाविष्णुं महासैन्यसमाकुलम् ।
ज्ञात्वा दूतमुखात् सर्वे दानवाः सज्जका ययुः ॥ १२ ॥
लोभः क्रोधसमाविष्ट आययौ योद्धुमादृतः ।
रथारूढः स्वयं साक्षान् मृत्युरूपोऽयमुच्यते ॥ १३ ॥
लोभं दृष्ट्वाऽसुराः सर्वे भयभीताः समन्ततः ।
महाकायं महावीर्यं कालकालं प्रदुद्रुवुः ॥ १४ ॥
पलतस्तान् समाश्वास्य विष्णुर्युद्धोद्यतोऽभवत् ।
तेन सार्धं ययुः सर्वे महेन्द्राद्याश्च दंशिताः ॥ १५ ॥
समागतं रमानाथं रणभूमौ प्रतापवान् ।
लोभः क्रोधसमाविष्टो चोदयत् सोऽसुरांस्ततः ॥ १६ ॥
ततो युद्धं समभवद्देवानां दानवैः सह ।
तुमुलं शस्त्रसङ्घातैर्मारयन्तः परस्परम् ॥ १७ ॥
अन्योन्यं ते जयं सर्वे दानवाः सुरनायकाः ।
इच्छन्तो न जयं तत्राप्नुवन् दक्ष हतोद्यमाः ॥ १८ ॥
रक्तौघैः सम्प्रवृत्ता स्म नदी परमभीतिदा ।
विश्रामं निशि चक्रुर्न क्रोधावेशैः परस्परम् ॥ १९ ॥
दिनत्रयं महाघोरं युद्धं दारुणरूपकम् ।
तत्र प्रवृत्तं क्रोधेन युक्ता देवाः समाययुः ॥ २० ॥
गणा विष्णोश्च सङ्क्रुद्धास्तथा देवेन्द्रमुख्यकाः ।
नानास्त्रैर्दानवान् सर्वान् ममर्दुः सर्वतः प्रभो ॥ २१ ॥
ततो हाहारवं कृत्वा दानवा भयसंयुताः ।
न लेभिरे यशो दैत्याः पलायन्त समन्ततः ॥ २२ ॥
ततो हर्षयुता देवा नादं चक्रुः सुदारुणम् ।
जय विष्णो महाभाग वदन्ति स्म परस्परम् ॥ २३ ॥
ततोऽतिक्रोधसंयुक्ता दानवेन्द्राः समाययुः ।
विप्रचित्तिमुखास्तत्र शरवृष्टिं प्रचक्रिरे ॥ २४ ॥
तेषां बाणैः सुराः सर्वे छिन्नाङ्गाः पतिता मृधे ।
तद् दृष्ट्वा क्रोधयुक्ताश्च देवेन्द्रास्तान् प्रदुद्रुवुः ॥ २५ ॥
अभवत् द्वन्द्वयुद्धं च नियतं रोमहर्षणम् ।
तेषां मध्येऽथ किञ्चित्त्वां कथयामि समासतः ॥ २६ ॥
इन्द्रेण युयुधे तत्र गजासुरः प्रतापवान् ।
अग्निना च स्वयं तारो वायुना विप्रचित्तिकः ॥ २७ ॥
वरुणेन ययौ तत्र बलिः क्रोधसमन्वितः ।
कुबेरेण प्रहेतिश्च मदनेन च हेतिकः ॥ २८ ॥
सूर्येण युयुधे क्रोधात् स प्रतापी नरान्तकः ।
देवान्तको विष्णुना स क्रोधयुक्तः समाययौ ॥ २९ ॥
जृम्भः सोमेन दैत्येशो युयुधे बलसंयुतः ।
यमेनैव महाबाहुर्वृत्रश्च युयुधे भृशम् ॥ ३० ॥
नानाद्वन्द्वभवं युद्धं चक्रुर्देवेन्द्रकैः सह ।
दैत्येन्द्रा बलगर्विष्ठा वर्णनाय न शक्यते ॥ ३१ ॥
अहोरात्रं रता युद्धे न विरामं प्रचक्रिरे ।
नानाशस्त्रास्त्रवर्षेण ववृषुस्ते परस्परम् ॥ ३२ ॥
दिवसास्तत्र पञ्चैव गतास्तेषां प्रयुध्यताम् ।
नाप्राप्यत जयो देवैर्दैत्यैः परमदुर्जयैः ॥ ३३ ॥
ततोऽतिकोपसंयुक्तः स प्रतापी गजासुरः ।
इन्द्रं सङ्गृह्य चिक्षेप महापर्वतमस्तके ॥ ३४ ॥
मूर्च्छितो देवराजः स ततो देवाः पलायिताः ।
एवं द्वन्द्वरतैर्दैत्यैर्देवेन्द्रा मूर्च्छिताः कृताः ॥ ३५ ॥
[[१००]]
हा हा कृत्वा ततः सर्वं देवसैन्यं दिशो दश ।
पपाल तन् महाश्चर्यं दृष्ट्वा विष्णुश्चुकोप ह ॥ ३६ ॥
चक्रं प्रगृह्य चिक्षेप महाबाहुः स दारुणम् ।
दैत्यसैन्ये ततस्तेन हता दैत्या अनेकशः ॥ ३७ ॥
केषाञ्चिन्मस्तकेष्वेतदपतद्दारुणं महत् ।
चिच्छेद हस्तपादादीन् दानवानामितस्ततः ॥ ३८ ॥
ततो दैत्येन्द्रकाः सर्वे आययुस्ते जनार्दनम् ।
शस्त्रास्त्रैः सर्वतो दुष्टा मारयामासुरेव तम् ॥ ३९ ॥
नारायणस्ततः कोपसंयुक्तोऽतिप्रतापवान् ।
गजासुरं स विव्याध बाणैर्दशभिरावृतम् ॥ ४० ॥
तं मूर्च्छितं चकाराऽसौ ततो देवान्तकं हरिः ।
सप्तभिस्ताडयामास पातयामास भूतले ॥ ४१ ॥
एवं सर्वान् महाविष्णुः दानवेन्द्रान् सुदारुणान् ।
विव्याध मूर्च्छितांश्चक्रे शरवर्षैः समन्ततः ॥ ४२ ॥
ततो हाहारवं कृत्वाऽपलत्तत् सैन्यमुल्बणम् ।
दानवानां भयार्तं वै दशदिक्षु विशेषतः ॥ ४३ ॥
ततो लोभः समायातः क्रोधयुक्तो जनार्दनम् ।
जगाद वचनं सोऽपि मोहयुक्तो महासुरः ॥ ४४ ॥
लोभ उवाच ।
सम्यक् कृतं त्वया विष्णो येन मे दर्शनं गतः ।
अधुना त्वां न मुञ्चामि जीवयुक्तं कदाचन ॥ ४५ ॥
नामरूपात्मकेभ्यश्च मरणं नैव मे भवेत् ।
ज्ञात्वा किमर्थमायातो ज्ञानहीनो यथा नरः ॥ ४६ ॥
गदां गृहीत्वैवमुक्त्वा ताडयामास केशवम् ।
पपात मूर्च्छया विष्णुस्ततः सैन्यं व्यमर्दयत् ॥ ४७ ॥
मुहूर्तमात्रकालेन सावधानो बभूव ह ।
पपाल देवराजैः स त्यक्त्वा सङ्ग्राममण्डलम् ॥ ४८ ॥
प्रहस्य दानवान् सर्वान् सावधानानथाऽकरोत् ।
लोभासुरः प्रसन्नात्मा तैः सार्धं स्वपुरेऽगमत् ॥ ४९ ॥
स्तुतो बन्दिजनैस्तेभ्यो दत्त्वा दानानि हर्षितः ।
इन्द्रासने समासीनो रेजे दानवसत्तमः ॥ ५० ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते विष्णुपराजयो नामाष्टत्रिंशोऽध्यायः ॥