॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
लोभासुरः समागत्य पितरं मातरं ततः ।
प्रणम्य सुहृदः सर्वान् यथायोग्यं चकार ह ॥ १ ॥
महिषासुरपुत्रीं स उवाह रूपशालिनीम् ।
तृष्णां गुणयुतां सोऽपि तया संहर्षितोऽभवत् ॥ २ ॥
एवं नाना विभोगेन सुहृदानन्दकारकः ।
बभूव बलसंयुक्तो मदेन भृशमोहितः ॥ ३ ॥
मह्यां समागतः सोऽपि दानवैः परिवारितः ।
नगरं निर्ममे तत्र सदा विषयवर्धनम् ॥ ४ ॥
चकार नाम तस्यापि सुखदं दानवेरितः ।
ततो दिग्भ्यः समायाता नाना दैत्यगणाः पुरे ॥ ५ ॥
[[९७]]
ततो लोभोऽसुरैः सर्वैः स्वयं गत्वा महामुनिम् ।
शुक्रं समानयत्तत्र प्रणम्य भावसंयुतः ॥ ६ ॥
शुक्रेण प्रेरिता दैत्या गतास्तत्र महापुरे ।
देवान्तकश्च वृत्रश्च बलिर्जृम्भः प्रतापवान् ॥ ७ ॥
नरान्तकः प्रहेतिश्च हेतिर्विप्रचितिस्तथा ।
इत्याद्या बहवश्चान्ये मिलिता अभवन् प्रभो ॥ ८ ॥
ब्राह्मणैः कारयामास ततः शुक्रोऽभिषेचनम् ।
दैत्यादीनां महाराज्ये स्थापयामास तं मुनिः ॥ ९ ॥
सर्वे संहृष्टकास्तत्र बभूवुर्दानवोत्तमाः ।
ततः स्वस्वगृहेष्वेतेऽगमन् घोषकरा भृशम् ॥ १० ॥
ततो बहौ गते कालेऽसुरो लोभः प्रतापवान् ।
आह्वयामास दूतैस्तान् दानवान् बलसंयुतान् ॥ ११ ॥
आज्ञामात्रेण तस्यैव समाजग्मुर्बलान्विताः ।
असुरा भयदाः सर्वेऽसुरं लोभं प्रजापते ॥ १२ ॥
लोभासुरोऽसुरान् सर्वान् सम्प्रपूज्य यथाविधि ।
उवाच तान् महावाक्यं हर्षयन् दानवोत्तमः ॥ १३ ॥
लोभासुर उवाच ।
विप्रचित्त्यादिकाः सर्वे शृणुध्वं मे वचो हितम् ।
भवतां पुण्ययोगेन जेष्यामि सकलं जगत् ॥ १४ ॥
यदीच्छा भवतां वृद्धाः श्रेष्ठा अत्रैव सङ्गताः ।
तदाऽऽज्ञा मे प्रकर्तव्या करोमि बलसंयुतः ॥ १५ ॥
एवं तस्य वचः श्रुत्वा हर्षिता दानवोत्तमाः ।
जगुस्तं भावगम्भीरं साधु साधु त्वयेरितम् ॥ १६ ॥
जेष्यामस्त्वत्प्रसादेन देवान् विष्णुपुरोगमान् ।
पराक्रमतुला तेन विद्यते जगति प्रभो ॥ १७ ॥
ततोऽतिहर्षिताः सर्वे शुक्रं तत्र समानयन् ।
तेनाज्ञप्ता महाभागाः सज्जास्ते प्रबभूविरे ॥ १८ ॥
गजासुरो विप्रचित्तिर्देवान्तकनरान्तकौ ।
प्रतापवांश्च तारो वै प्रहेतिर्हेतिरेव च ॥ १९ ॥
बलिर्जृम्भस्तथाऽन्ये वै दंशिता अभवंस्तदा ।
स्वस्वसेनायुताः सर्वे नानावाहनगा बभुः ॥ २० ॥
पदातयोऽप्यसङ्ख्याता अश्वारोहास्तथाऽपरे ।
पशुसंस्थाः खगाराहा अपाराश्च समाययुः ॥ २१ ॥
गजारोहा रथारूढा नानावाहनसंस्थिताः ।
महासुराः शस्त्रसंयुक्ता लोभासुरमाययुः ॥ २२ ॥
तैः समेत्य महाबाहुर्लोभः संहर्षितोऽभवत् ।
पृथिवीजयनार्थाय कालकम्पनकारकः ॥ २३ ॥
एतादृशा महावीरा यत्रातिष्ठन् सुन्दशिताः ।
तैर्युद्धं नृपशार्दूलाः किं कर्तारोऽल्पमानवाः ॥ २४ ॥
नृपाः केचिन् मृतास्तत्र सङ्ग्रामे दारुणे प्रभो ।
केचित्तान् शरणं जग्मुः पलायनपरा ययुः ॥ २५ ॥
एवं सप्तसमुद्रान्तां पृथ्वीं जित्वा महाबलाः ।
असुरा हर्षिताः सर्वे सार्वभौमा बभूविरे ॥ २६ ॥
ये मृतास्तत्सुतास्तैस्ते स्थापिताः करदायिनः ।
पलायिताश्च तत्स्थाने स्थापिता दानवोत्तमाः ॥ २७ ॥
शरणं ये गतास्तेऽपि स्थापिता हर्षसंयुताः ।
वरं तस्य समाज्ञाय शेषस्तांश्च समाययौ ॥ २८ ॥
वार्षिकं करभारं स कृत्वा दत्त्वा महाधनम् ।
साम्ना तैः पूजितः सोऽपि स्वगृहे नागराड् ययौ ॥ २९ ॥
ततोऽतिहर्षिता दैत्या ययुः स्वर्गं सुशोभनम् ।
लोभासुरेण संयुक्ता महामाया महाबलाः ॥ ३० ॥
इन्द्रः सुरगणैः सार्धं दंशितो वज्रधारकः ।
बृहस्पतिं प्रणम्यैवं जगाद स्वमतं प्रभुः ॥ ३१ ॥
[[९८]]
इन्द्र उवाच ।
लोभासुरः समायातो दानवैर्बलवत्तरैः ।
तेन योद्धुं गमिष्यामि त्वदाज्ञावशगः प्रभो ॥ ३२ ॥
इन्द्रस्य वचनं श्रुत्वा निःश्वस्य मुनिपुङ्गवः ।
जगाद तं महेन्द्रं बृहस्पतिः स प्रतापवान् ॥ ३३ ॥
गुरुरुवाच ।
शैवेन वरदानेन युक्तोऽसौ दैत्यनायकः ।
नानारूपधरः सोऽपि जेतुं नैव प्रशक्यते ॥ ३४ ॥
अतः सर्वं परित्यज्य विष्णोश्च शरणं सुर ।
गच्छ सोऽपि महाबुद्धिः करिष्यति हितं महत् ॥ ३५ ॥
गुरोर्वचनमाकर्ण्य सुरेन्द्रः शोकसंयुतः ।
सुरेन्द्रैः सहितः सोऽपि विकुण्ठमगमत्तदा ॥ ३६ ॥
देवस्थानानि सर्वाणि दृष्ट्वा शून्यानि सर्वतः ।
दैत्या हर्षयुताः सर्वे प्रवेशं चक्रुरञ्जसा ॥ ३७ ॥
दैत्यराजोऽमरावत्यां लोभः सर्वसमन्वितः ।
गत्वाऽऽसने महेन्द्रस्य समारूढो बभौ स्वयम् ॥ ३८ ॥
सर्वान् सम्मान्य दैत्येन्द्रो ददौ नानापदानि सः ।
दैत्येन्द्रास्तत्र संस्थास्ते मुमुदुर्भोगकारकाः ॥ ३९ ॥
गन्धर्वास्तं महादैत्यमप्सरोभिः समन्विताः ।
सिषेविरे प्रजापाल विद्याध्राद्याः समादृताः ॥ ४० ॥
देवोद्यानेषु दैत्येन्द्रा बभ्रमुर्हर्षसंयुताः ।
यत्र तत्र महाभागा व्यहरंस्ते यथासुखम् ॥ ४१ ॥
लोभासुरं प्रणम्यैव संस्थिता विगतज्वराः ।
अवदन्न समः कश्चिल्लोभेन भुवनेषु च ॥ ४२ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते लोभासुरस्येन्द्रपदप्राप्तिवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥