॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
माहात्म्यं यच्छ्रुतं मुख्यं चतुर्थीसम्भवं महत् ।
कृतकृत्यश्च तेनाऽहं सञ्जातो मुनिसत्तम ॥ १ ॥
अधुना वद माहात्म्यं लोभासुरनिबर्हणे ।
गजाननस्य योगीश चरित्रं सर्वसिद्धिदम् ॥ २ ॥
मुद्गल उवाच ।
इतिहासं प्रवक्ष्यामि पुरातनभवं प्रभो ।
सर्वसिद्धिप्रदं दक्ष श्रवणेन न संशयः ॥ ३ ॥
एकदा शैलवर्ये तु कैलासे शङ्करः स्थितः ।
पार्वत्या स्वगणैः सार्धं देवैर्मुनिभिरावृतः ॥ ४ ॥
तत्राऽऽजगाम पौलस्त्यः कुबेरो निधिसंयुतः ।
प्रणम्य गिरिजायुक्तं शङ्करं पुरतः स्थितः ॥ ५ ॥
समीपे शङ्करस्यैव गत्वा चामरसंयुतः ।
असेवत महात्मानं भक्तियुक्तेन चेतसा ॥ ६ ॥
अकस्माद्दैवयोगेन दृष्ट्वा पर्वतनन्दिनीम् ।
रूपेणाप्रतिमां सर्वावयवैः शोभनैर्युताम् ॥ ७ ॥
साक्षान् मायामयीं शक्तिं मोहयुक्तो बभूव ह ।
कामबाणाभिभूतः सन्नपश्यत्तां सुविह्वलः ॥ ८ ॥
सकामदृष्टिसंयुक्तं पश्यन्तं तं धनाधिपम् ।
दृष्ट्वा कोपसमायुक्ता बभूवे शङ्करप्रिया ॥ ५ ॥
क्रोधेन वक्रनेत्रं सा ज्वालयामास तत्क्षणात् ।
कुबेरस्य महादेवी सोऽपि शोकाकुलोऽभवत् ॥ १० ॥
अतिविह्वलगात्रत्वात् प्रास्कन्दद् वीर्यमुत्तमम् ।
धनपस्याऽत्र पुत्रोभूत् पपात शोभया युतः ॥ ११ ॥
ततः स लज्जया युक्तः प्रणनाम महेश्वरीम् ।
नियम्यात्मानमानिन्द्य तुष्टाव विविधैः स्तवैः ॥ १२ ॥
ततः सा शङ्करेणैव सान्त्विता जगदम्बिका ।
पिङ्गाक्षं तं चकाराऽपि पुत्रभावप्रदर्शिनी ॥ १३ ॥
जगदम्बा लोभनार्थं कुबेरोऽभूत् समुद्यतः ।
मातृगामिस्वरूपत्वात् पुत्रस्तस्य प्रतापवान् ॥ १४ ॥
[[९५]]
लोभ एव समाख्यातं नाम तस्य द्विजैस्ततः ।
सङ्गृह्य तं गृहं देवो धनदः प्रजगाम ह ॥ १५ ॥
कुबेरभवने संस्थं लोभं तं नारदो मुनिः ।
ज्ञात्वा जगाम पाताले वीणागानपरायणः ॥ १६ ॥
तारं पातालसंस्थं तं दानवानां हितैषिणम् ।
इन्द्रेण निर्जितं ज्ञात्वा नारदः प्रययौ मुनिः ॥ १७ ॥
तारः समुत्थितो विप्रं प्रणनाम मुदा युतः ।
पप्रच्छाऽऽपूज्य वृत्तान्तं दानवानां हितावहम् ॥ १८ ॥
तार उवाच ।
इन्द्रेणाऽहं जितो विप्र दानवा मर्दिता भृशम् ।
अधुना किमु कुर्यां तद्वद मे मुनिसत्तम ॥ १९ ॥
नारद उवाच ।
अलकायां कुबेरस्य पुत्रोऽभूद्वीर्यपाततः ।
लोभस्तत्र समागत्य हर त्वं पुत्रमादरात् ॥ २० ॥
तं पालय महाभाग तेन ते वाञ्छितं महत् ।
भविष्यति न सन्देहो मम तस्माद्वचः कुरु ॥ २१ ॥
एवमुक्त्वा महायोगी नारदोऽन्तर्हितोऽभवत् ।
तारः स्म हर्षितोऽत्यन्तं मेने स कृतकृत्यताम् ॥ २२ ॥
मायया दानवाधीशस्त्वलकायां जगाम ह ।
गृहीत्वा लोभकं पुत्रं सुप्तं स्वगृहमागमत् ॥ २३ ॥
लोभं केनचिदागत्य हृतं ज्ञात्वा धनाधिपः ।
न शोकं मानसे सोऽपि प्रचक्रे दुर्निमित्तजम् ॥ २४ ॥
तारः पुत्रं समानीय पालयामास हर्षतः ।
बालक्रीडनकैर्युक्तं तं दृष्ट्वा विस्मितोऽभवत् ॥ २५ ॥
उत्पाट्य बालकैर्वृक्षान् रेमे लोभः प्रतापवान् ।
तलप्रहारवेगेन दारुणां बिभिदे शिलाम् ॥ २६ ॥
एवं नानाविधं कर्मास्य दृष्ट्वा दानवोत्तमाः ।
हर्षयुक्ता बभूवुस्ते मेनिरे कृतकृत्यताम् ॥ २७ ॥
ततः पञ्चमवर्षे स चकार व्रतबन्धनम् ।
वेदानध्यापयामास शुक्रशिष्यैर्महाबलः ॥ २८ ॥
स आसुरीं महामायां सर्वदेवविमोहिनीम् ।
विद्यामभ्यस्य लोभस्तु शस्त्रास्त्रे पारगोऽभवत् ॥ २९ ॥
ततः प्रणम्य विपेन्द्रं शुक्रं सर्वविदांवरम् ।
पप्रच्छ सर्वदं पूर्णमुपायं लोभ आदरात् ॥ ३० ॥
ततः पञ्चाक्षरीं विद्यां ददौ तस्मै महामुनिः ।
शैवीं विधियुतां लोभस्तं प्रणम्य ययौ वनम् ॥ ३१ ॥
तत्र गत्वा तपस्तेपे शिवं ध्यात्वा महासुरः ।
जपं चकार भावेन निराहारपरायणः ॥ ३२ ॥
भस्माङ्गलेपसंयुक्तः शैवमार्गपरायणः ।
तोषयामास यत्नेन शङ्करं सर्वदं परम् ॥ ३३ ॥
एवं तपसि लोभः स संस्थितो बहुवासरम् ।
ततस्तस्य शरीरेऽपि वल्मीको ववृधे महान् ॥ ३४ ॥
दिव्यवर्षसहस्रेण प्रसन्नः शङ्करः प्रभुः ।
आययौ तं वरं दातुं पार्वत्या सह शूलभृत् ॥ ३५ ॥
समागतं महेशानं न बुबोध स दानवः ।
ततस्तं जलमासिच्य शम्भुः शक्तं चकार ह ॥ ३६ ॥
ततः शम्भुं समालोक्य हर्षयुक्तेन चेतसा ।
जगाद तं प्रणम्यादावुत्थितो दानवाधिपः ॥ ३७ ॥
लोभासुर उवाच ।
धन्यं मेऽद्य तपो मन्त्रो धन्यौ मे जनकौ प्रभो ।
जन्म ज्ञानादिकं सर्वं येन दृष्टो महेश्वरः ॥ ३८ ॥
किं स्तौमि त्वां महेशान साक्षाद्ब्रह्म सनातनम् ।
तथापि स्तौमि देवेश त्वद्दर्शनस्फुरन्मतिः ॥ ३९ ॥
नमस्ते विश्वनाथाय सर्वान्तर्यामिणे नमः ।
शङ्कराय शिवायैव ह्यनन्तगुणराशये ॥ ४० ॥
[[९६]]
त्रिनेत्राय महादेव शक्तियुक्ताय शम्भवे ।
निर्गुणाय गुणानां ते चालकाय नमो नमः ॥ ४१ ॥
अमेयशक्तये तुभ्यं गिरीशाय वृषध्वज ।
स्रष्ट्रे पात्रे च संहर्त्रे त्रिधारूपाय वै नमः ॥ ४२ ॥
अकर्तुमन्यथा कर्तुं कर्तुं शक्ताय ते नमः ।
सदा मोहविहीनाय मृडाय सततं नमः ॥ ४३ ॥
स्वाधीनाय परेशाय सहजे खेलकारिणे ।
शूलहस्ताय देवानां पतये ते नमो नमः ॥ ४४ ॥
कैलासवासिने तुभ्यं भस्मलेपकराय वै ।
दिगम्बराय सर्वेभ्यः सर्वदाय नमो नमः ॥ ४५ ॥
एवं स्तुत्वा महेशानं तूष्णीं भावेन संस्थितः ।
लोभासुरः प्रसन्नात्मा साश्रुकः स कृताञ्जलिः ॥ ४६ ॥
तमुवाच महादेवो वरं वृणु हृदीप्सितम् ।
दास्यामि तपसा स्तोत्रेण तुष्टो दानवोत्तम ॥ ४७ ॥
त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् ।
भविष्यति न सन्देहो भुक्तिमुक्तिप्रदायकम् ॥ ४८ ॥
यः पठिष्यति दैत्येन्द्र श्रावयिष्यति वा नरः ।
श्रोष्यते स लभेत् सद्यो वाञ्छितं मत्प्रियः सदा ॥ ४९ ॥
श्रुत्वा शङ्करवाक्यं स तं जगाद महासुरः ।
हर्षेणोत्फुल्लनेत्रश्च भक्त्या विनयसंयुतः ॥ ५० ॥
लोभासुर उवाच ।
वरदोऽसि यदि त्वं च तदा भक्तिं च ते दृढाम् ।
देहि राज्यं महादेव ब्रह्माण्डस्य विशेषतः ॥ ५१ ॥
नानैश्वर्यसमायुक्तमारोग्यादिसमन्वितम् ।
मनसीप्सितमेवं मे सिद्ध्यतु त्वदनुग्रहात् ॥ ५२ ॥
मनोवाणीमयं यच्च तस्मान् मृत्युर्न मे भवेत् ।
सदानन्दसमायुक्तं मां कुरुष्व कृपानिधे ॥ ५३ ॥
लोभासुरस्य वाक्यं वै श्रुत्वा चकितमानसः ।
शङ्करस्तपसा बद्धस्तथेति तमुवाच ह ॥ ५४ ॥
अन्तर्धाय स्वमात्मानं कैलासस्थो बभूव ह ।
लोभासुरः प्रसन्नात्मा स्वगृहं प्रत्यपद्यत ॥ ५५ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते लोभासुरवरप्राप्तिवर्णनं नाम षट्त्रिंशोऽध्यायः ॥