३५ चतुर्थ्युद्यापननिरूपणम्

॥ श्रीगणेशाय नमः ॥

दक्ष उवाच ।

उद्यापनं व्रतस्यास्य वद त्वं मुनिसत्तम ।
येन साङ्गं फलं सर्वं लभते व्रतकारकः ॥ १ ॥

मुद्गल उवाच ।

उद्यापनं प्रजानाथ व्रतस्यादौ मतं बुधैः ।
अथवा वर्षमध्ये तत् कर्तव्यं व्रतकारिणा ॥ २ ॥

अथवा भाद्रमासे वै शुक्लायां च प्रजापते ।
उद्यापनं प्रकर्तव्यं कृष्णायां माघमासके ॥ ३ ॥

महामण्डपकं कुर्यात् कदलीस्तम्भमण्डितम् ।
नानाशोभासमायुक्तं विभवे सति मानद ॥ ४ ॥

वित्तशाठ्यं न कुर्यात् स यथाविभवमाचरेत् ।
छत्राऽऽदर्शादिभिः शोभां दीपमालाविराजितम् ॥ ५ ॥

मणिमुक्तादिकैः पूर्णं भूषणैश्च विशेषतः ।
यत्र तत्र यथायोग्यं प्रकुर्याद्व्रतकारकः ॥ ६ ॥

मध्याह्नसमये तस्याः शुक्लायाः कथितं प्रभो ।
चन्द्रोदये च कृष्णायाश्चतुर्थ्याः पूजनं चरेत् ॥ ७ ॥

गोमयेन प्रलिप्याऽथ धान्यराशिं प्रकल्पयेत् ।
तन्मध्येऽष्टदलं पद्मं कुर्यात्तद्गुरुणा स्वयम् ॥ ८ ॥

तत्र संस्थाप्य सौवर्णं कलशं ताम्रजं तथा ।
रौप्यं वा मृन्मयं दक्ष वस्त्रयुग्मेन वेष्टयेत् ॥ ९ ॥

तस्योपरि सुवर्णस्य पात्रं स्थाप्य महामतिः ।
वस्त्रं ततो गणेशस्य यन्त्रं कुर्याद्विचक्षणः ॥ १० ॥

तत्र गणपतेश्चैव मूर्तिर्धातुविनिर्मिता ।
सर्वावयवसंयुक्ता भूषणै राजिता भवेत् ॥ ११ ॥

द्विजोत्तमश्च संस्थाप्य पूजयेत्तां यथाविधि ।
ब्राह्मणान् वरयेच्छुद्धानेकविंशतिसङ्ख्यकान् ॥ १२ ॥

गणानां त्वेति मन्त्रस्य जपं कुर्याद्विशेषतः ।
ततो होमं प्रकुर्वीत सहस्रं वा तदर्धकम् ॥ १३ ॥

अष्टोत्तरशतं वाऽपि तथा जपदशांशकम् ।
गीतवाद्यपुराणानि वेदाध्ययनमेव च ॥ १४ ॥

नानाशास्त्रप्रवादांश्च कुर्वन्तु ब्राह्मणास्ततः ।
यत्र तत्र गणेशस्य कथाः सङ्कथयन्तु ते ॥ १५ ॥

ततः पूर्णाहुतिं कुर्याद्वसोर्धारां स पातयेत् ।
बलिदानं ततः कुर्यात्ततो वायनकं चरेत् ॥ १६ ॥

एकविंशतिपक्वान्नैरेकविंशतिसङ्ख्यकैः ।
नैवेद्यैर्ब्राह्मणान् सम्भोज्यार्थयेत्तान् विशेषतः ॥ १७ ॥

दक्षिणां विपुलां दत्त्वा सपत्नीकान् प्रतोषयेत् ।
योषिद्भ्यः कञ्चुकीर्दद्याद्भूषणानि महामतिः ॥ १८ ॥

कृष्णायां च चतुर्थ्यां स चन्द्रायार्घ्यं प्रदापयेत् ।
शुक्लायां तत्तथा दक्ष चरेच्चन्द्रार्घ्यवर्जितम् ॥ १९ ॥

आदौ स तिथये दद्यात् पश्चाद्विघ्नेश्वराय वै ।
ततश्चन्द्राय तन् मन्त्रैरर्घ्यं मन्त्रसमन्वितम् ॥ २० ॥

तिथीनां मातृरूपे त्वं देवि सर्वार्थदायिनि ।
गृहाणार्घ्यं मया दत्तं चतुर्थ्यै ते नमो नमः ॥ २१ ॥

गजानन नमस्तुभ्यं नानासिद्धिप्रदायिने ।
गृहाणार्घ्यं बुद्धिपते मया दत्तं शुभप्रद ॥ २२ ॥

अत्रिगोत्रसमुद्भूत गणेशप्रीतिवर्धन ।
गृहाणार्घ्यं मया दत्तं रोहिण्यामृतधारक ॥ २३ ॥

कृष्णपक्षे सदा रात्रौ भोजनं स समाचरेत् ।
शुक्लपक्षे च पञ्चम्यां ब्राह्मणादींस्तु भोजयेत् ॥ २४ ॥

चतुर्थ्यां जागरं कुर्यात् गणेशकथयान्वितः ।
पञ्चम्यां पूर्ववत् पूज्य नैवेद्याद्यैर्महामतिः ॥ २५ ॥

दीनान्धकृपणेभ्यश्च दद्यादन्नादिकं तथा ।
ब्राह्मणेभ्यो विशेषेण दक्षिणां दापयेन्नरः ॥ २६ ॥

[[९४]]

सर्वान् सम्भोज्य दानेन तोषयेद्देवसन्निधौ ।
गणेशदृढभक्तिं स याचयेत्तेभ्य आदरात् ॥ २७ ॥

ततः सोपस्करां मूर्तिं दद्यात् स्वगुरवे स्वयम् ।
एकविंशतिविप्रेभ्यः कलशान् दापयेत्ततः ॥ २८ ॥

सन्तोष्योदारधीः सर्वान् स भावेन क्षमापयेत् ।
ततो गणपतिं नित्यं भजेतानन्यचेतसा ॥ २९ ॥

एवमुद्यापनं कुर्याद्व्रतस्यास्य महामतिः ।
स सम्पूर्णफलं भुक्त्वा ब्रह्मभूतो भविष्यति ॥ ३० ॥

वक्तुं न शक्यते दक्ष माहात्म्यं च व्रतोद्भवम् ।
सोद्यापनं विशेषेण कथितं ते यथामति ॥ ३१ ॥

इदं चतुर्थीजं दक्ष चरितं संशृणोति चेत् ।
पठेद्वा तस्य विघ्नेशो मानसेप्सितदो भवेत् ॥ ३२ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते चतुर्थ्युद्यापननिरूपणं नाम पञ्चत्रिंशोऽध्यायः ॥