॥ श्रीगणेशाय नमः ॥
दशरथ उवाच ।
श्रावणादिषु मासेषु लड्वादीन् यस्तु भक्षति ।
तस्य विधियुतं विप्र माहात्म्यं वद सर्वदम् ॥ १ ॥
वसिष्ठ उवाच ।
मनोर्वैवस्वतस्यैव पुत्र इक्ष्वाकुसञ्ज्ञकः ।
राज्यलोभी कनिष्ठः सन् व्रतं चकार सिद्धिदम् ॥ २ ॥
बभक्ष श्रावणे कृष्णसङ्कष्ट्यां पञ्चखाद्यजान् ।
लड्डुकान् सप्त भावेन व्रतसाधनतत्परः ॥ ३ ॥
दधिभक्षणमात्रं स भाद्रे कृष्णे चकार ह ।
आश्विने निर्जलं तद्वच्चकार व्रतमद्भुतम् ॥ ४ ॥
कार्तिके दुग्धभुक् राजाऽतिष्ठत् स्वनियमे रतः ।
मार्गशीर्षे जलं पीत्वाऽभजत्तं गणनायकम् ॥ ५ ॥
पौषे गोमूत्रमात्रं तु व्रतं पीत्वा समाचरत् ।
माघे शुक्लतिलान् राजा बभक्ष व्रतकारणात् ॥ ६ ॥
फाल्गुने शर्करायुक्तं मानवोऽभक्षयद् घृतम् ।
चैत्रे तद्वत् पञ्चगव्यं पूजयित्वा विनायकम् ॥ ७ ॥
वैशाखे पद्मबीजं स बभक्ष व्रतधारकः ।
ज्येष्ठे घृतं गवां भक्षंश्चकार व्रतमुत्तमम् ॥ ८ ॥
आषाढे मधुमात्रं स बभक्ष नियमे रतः ।
चन्द्रोदये गणेशानं पूजयित्वा विधानतः ॥ ९ ॥
ततस्तस्य व्रतस्यैव प्रभावेण महामते ।
सुद्युम्नो मनुपुत्रो य इलो ज्येष्ठोऽभवन्नृप ॥ १० ॥
ततो मुनिभिराद्यं तं राजानं स चकार ह ।
मनुरिक्ष्वाकुमेवं तु सार्वभौमं महाद्युतिम् ॥ ११ ॥
एवं त्वसाध्यकं राजन्निच्छेद्वै यदि मानवः ।
धर्ममार्गेण तत् सोऽपि लभते नात्र संशयः ॥ १२ ॥
एवं नाना जना राजन् व्रतपुण्यप्रभावतः ।
लब्ध्वाऽन्ते ब्रह्मभूताश्च बभूवुर्भूमिमण्डले ॥ १३ ॥
अतस्त्वं राजशार्दूल पापरूपोऽसि साम्प्रतम् ।
तव राज्ये व्रतं नष्टं नृपाधम न बुद्ध्यसे ॥ १४ ॥
जनैः सह व्रतं तस्मात् कुरुष्व त्वं भविष्यसि ।
पुत्रयुक्तश्च विघ्नेशमन्ते गच्छसि निश्चितम् ॥ १५ ॥
मुद्गल उवाच ।
प्रणम्य तं दशरथो महाराजो जगाम ह ।
स्वपुरे जनसंयुक्तश्चकार व्रतमुत्तमम् ॥ १६ ॥
ततो भूपेन सर्वत्र प्रशस्तं तद्व्रतं कृतम् ।
चक्रुः सर्वजना भूमौ व्रतं गाणेश्वरं महत् ॥ १७ ॥
व्रतपुण्यप्रभावेण विष्णुः साक्षाद्बभूव ह ।
चतुर्धाऽऽत्मानमाभज्य पुत्रस्तस्य महात्मनः ॥ १८ ॥
रामश्च भरतो राजा लक्ष्मणः शत्रुसूदनः ।
पुत्राश्चत्वार एवं ते बभूवुर्बलसंयुताः ॥ १९ ॥
अन्ते जगाम विघ्नेशं दशरथः प्रतापवान् ।
लोका दुःखविहीनाश्च ब्रह्मभूता बभूविरे ॥ २० ॥
वसिष्ठर्षेर्दशरथस्येमं विप्रस्य धीमतः ।
संवादं व्रतहेतुं तु यः शृणोति पठेन्नरः ॥ २१ ॥
तस्मै विघ्नेश्वरः साक्षाद्ददाति फलमुत्तमम् ।
पुत्रपौत्रादिसंयुक्तं धनधान्यसमन्वितम् ॥ २२ ॥
नानारोगविहीनत्वमैश्वर्यादियुतं महत् ।
अन्ते गणपतौ लीनं करोत्यत्र न संशयः ॥ २३ ॥
चतुर्थ्याश्चरितं पूर्णं कथितं ते प्रजापते ।
श्रोतुमिच्छा पुनः किं ते वर्तते वद साम्प्रतम् ॥ २४ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेचतुर्थे खण्डे गजाननचरिते वसिष्ठदशरथसंवादसमाप्तिवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥
[[९३]]